भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.21

2.3.21.1

नारद उवाच ॥
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् ॥
अद्भुतेयं कथा प्रोक्ता शंकरस्य महात्मनः

2.3.21.2

भस्मीभूते स्मरे शंभुतृतीयनयनाग्निना ॥
तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः

2.3.21.3

किं चकार ततो देवी पार्वती कुधरात्मजः ॥
गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे

2.3.21.4

॥ ब्रह्मोवाच ॥
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः ॥
महोतिकारकस्यैव स्वामिनो मम चादरात्

2.3.21.5

यदाहच्छंभुनेत्रोद्भवो हि मदनं शुचिः ॥
महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः

2.3.21.6

तेन शब्देन महता कामं दग्धं समीक्ष्य च॥
सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला

2.3.21.7

तेन शब्देन हिमवान्परिवारसमन्वितः ॥
विस्मितोऽभूदतिक्लिष्टस्सुतां स्मृत्वा गतां ततः

2.3.21.8

जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् ॥
रुदतीं शंभुविरहादाससादाचलेश्वरः

2.3.21.9

आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ॥
मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत्

2.3.21.2.3.21.10

क्रोडे कृत्वा सुतां शीघ्रं हिम वानचलेश्वरः ॥
स्वमालयमथानिन्ये सांत्वयन्नतिविह्वलाम्

2.3.21.11

अंतर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा ॥
विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित्

2.3.21.12

पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा ॥
पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥

2.3.21.13

निनिंद च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् ॥
सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा

2.3.21.14

स्वपती च पिबंती च सा स्नाती गच्छती शिवा ॥
तिष्ठंती च सखीमध्ये न किंचित्सुखमाप ह

2.3.21.15

धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च ॥
इति ब्रुवंती सततं स्मरंती हरचेष्टितम्

2.3.21.16

एवं सा पार्वती शंभुविरहोत्क्लिष्टमानसा ॥
सुखं न लेभे किंचिद्राऽब्रवीच्छिवशिवेति च

2.3.21.17

निवसंती पितुर्ग्गेहे पिनाकिगतचेतना ॥
शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः

2.3.21.18

शैलाधिराजोप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे॥
तां सांत्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा

2.3.21.19

अथ देवमुने धीमन्हिमव त्प्रस्तरे तदा ॥
नियोजितो बलभिदागमस्त्वं कामचारतः

2.3.21.2.3.21.20

ततस्त्वं पूजितस्तेन भूधरेण महात्मना ॥
कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने

2.3.21.21

ततः प्रोवाच शैलेशः कन्याचरितमादितः ॥
हरसेवान्वितं कामदहनं च हरेण ह

2.3.21.22

श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज ॥
तमामंत्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम्

2.3.21.23

तं समुत्सृज्य रहसि कालीं तामगमंस्त्वरा ॥
लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः

2.3.21.24

आसाद्य कालीं संबोध्य तद्धिते स्थित आदरात्॥
अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः

2.3.21.25

नारद उवाच ॥
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः॥
सर्वथा ते हितकरं निर्विकारं सुकामदम्

2.3.21.26

सेवितश्च महादेवस्त्वयेह तपसा विना ॥
गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः

2.3.21.27

विरक्तश्च स ते स्वामी महायोगी महेश्वरः ॥
विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः

2.3.21.28

तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् ॥
तपसा संस्कृतां रुद्रस्स द्वितीयां करिष्यति

2.3.21.29

त्वं चापि शंकरं शम्भुं न त्यक्ष्यसि कदाचन ॥
नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते

2.3.21.2.3.21.30

॥ ब्रह्मोवाच ॥ ॥
इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा ॥
किंचिदुच्छ्वसिता काली प्राह त्वां सांजलिर्मुदा

2.3.21.31

शिवोवाच ॥
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो ॥
रुद्रस्याराधनार्थाय मंत्रं देहि मुने हि मे

2.3.21.32

न सिद्यति क्रिया कापि सर्वेषां सद्गुरुं विना ॥
मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी

2.3.21.33

ब्रह्मोवाच ॥
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः ॥
पंचाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः

2.3.21.34

अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने॥
प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने

2.3.21.35

नारद उवाच ॥
शृणु देवि मनोरस्य प्रभावं परमाद्भुतम् ॥
यस्य श्रवणमात्रेण शंकरस्तु प्रसीदति

2.3.21.36

मंत्रोयं सर्वमंत्राणामधिराजश्च कामदः ॥
भुक्तिमुक्तिप्रदोऽत्यंतं शंकरस्य महाप्रियः

2.3.21.37

सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् ॥
आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम्

2.3.21.38

चिंतयती च तद्रूपं नियमस्था शराक्षरम् ॥
जप मन्त्रं शिवे त्वं हि संतुष्यति शिवो द्रुतम्

2.3.21.39

एवं कुरु तप साध्वि तपस्साध्यो महेश्वरः ॥
तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित्

2.3.21.2.3.21.40

॥ ब्रह्मोवाच ॥
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः॥
यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः

2.3.21.41

पार्वती च तदा श्रुत्वा वचनं तव नारद ॥
सुप्रसन्ना तदा प्राप पंचाक्षरमनूत्तमम्

2.3.21.21

॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc