भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.22

2.3.22.1

ब्रह्मोवाच ॥
त्वयि देवमुने याते पार्वती हृष्टमानसा ॥
तपस्साध्यं हरं मेने तपोर्थं मन आदधे

2.3.22.2

ततः सख्यौ समादाय जयां च विजयां तथा॥
मातरं पितरं चैव सखीभ्यां पर्यपृच्छत

2.3.22.3

प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् ॥
पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता

2.3.22.4

सख्यावूचतुः ॥
हिमवञ्च्छ्रूयतां पुत्री वचनं कथ्यतेऽधुना ॥
सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः

2.3.22.5

भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति ॥
तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत्

2.3.22.6

तस्माच्च पर्वतश्रेष्ठ देह्याज्ञां भवताधुना ॥
तपः करोतु गिरिजा वनं गत्वेति सादरम्

2.3.22.7

ब्रह्मोवाच ॥
इत्येवं च तदा पृष्टस्सखीभ्यां मुनिसत्तम ॥
पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम्

2.3.22.8

हिमालय उवाच ॥
मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः ॥
यथेदं भवितव्यं च किमतः परमुत्तमम्

2.3.22.9

साफल्यं तु मदीयस्य कुलस्य च न संशयः ॥
मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम्

2.3.22.2.3.22.10

ब्रह्मोवाच ॥
इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा ॥
जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह

2.3.22.11

गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद ॥
सुप्रणम्य करो बध्वोचतुर्वचनमादरात्

2.3.22.12

सख्यावूचतुः ॥
मातस्त्वं वचनं पुत्र्याः शृणु देवि नमोऽस्तु ते ॥
सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि

2.3.22.13

तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः॥
प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति

2.3.22.14

इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते ॥
त्वदाज्ञया यदि जायेत तप्यते च तथा तपः

2.3.22.15

॥ ब्रह्मोवाच ॥
इत्युक्त्वा च ततस्सख्यौ तूष्णीमास्तां मुनीश्वर ॥
नांगीचकार मेना सा तद्वाक्यं खिन्नमानसा

2.3.22.16

ततस्सा पार्वती प्राह स्वयमेवाथ मातरम् ॥
करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदांबुजम्

2.3.22.17

पार्वत्युवाच ॥
मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् ॥
अनुजानीहि मां गंतुं तपसेऽद्य तपोवनम्

2.3.22.18

॥ ब्रह्मोवाच ॥
इत्याकर्ण्य वचः पुत्र्या मेना दुःख मुपागता ॥
सोपाहूय तदा पुत्रीमुवाच विकला सती

2.3.22.19

मेनोवाच ॥
दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि ॥
तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति

2.3.22.2.3.22.20

कुत्र यासि तपः कर्तुं देवास्संति गृहे मम ॥
तीर्थानि च समस्तानि क्षेत्राणि विविधानि च

2.3.22.21

कर्तव्यो न हठः पुत्रि गंतव्यं न बहिः क्वचित् ॥
साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि

2.3.22.22

शरीरं कोमलं वत्से तपस्तु कठिनं महत् ॥
एवस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज

2.3.22.23

स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी ॥
तस्मात्त्वं पुत्रि मा कार्षीस्तपोर्थं गमनं प्रति

2.3.22.24

॥ ब्रह्मोवाच ॥
इत्येवं बहुधा पुत्री तन्मात्रा विनवारिता ॥
संवेदे न सुखं किंचिद्विनाराध्य महेश्वरम्

2.3.22.25

तपोनिषिद्धा तपसे वनं गंतुं च मेनया ॥
हेतुना तेन सोमेति नाम प्राप शिवा तदा

2.3.22.26

अथ तां दुखितां ज्ञात्वा मेना शैलप्रिया शिवाम् ॥
निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने

2.3.22.27

मातुराज्ञां च संप्राप्य सुव्रता मुनिसत्तम ॥
ततः स्वांते सुखं लेभे पार्वती स्मृतशंकरा

2.3.22.28

मातरं पितरं साथ प्रणिपत्य मुदा शिवा ॥
सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता

2.3.22.29

हित्वा मतान्यनेकानि वस्त्राणि विविधानि च॥
वल्कलानि धृतान्याशु मौंजीं बद्ध्वा तु शोभनाम्

2.3.22.2.3.22.30

हित्वा हारं तथा चर्म्म मृगस्य परमं धृतम् ॥
जगाम तपसे तत्र गंगावतरणं प्रति

2.3.22.31

शंभुना कुर्वता ध्यानं यत्र दग्धो मनोभवः॥
गंगावतरणो नाम प्रस्थो हिमवतस्स च

2.3.22.32

हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः ॥
काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया

2.3.22.33

यत्र स्थित्वा पुरा शंभुस्तप्तवान्दुस्तरं तपः ॥
तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता

2.3.22.34

हा हरेति शिवा तत्र रुदन्ती सा गिरेस्सुता ॥
विललापातिदुःखार्ता चिन्ताशोकसमन्विता

2.3.22.35

ततश्चिरेण सा मोहं धैर्य्या त्संस्तभ्य पार्वती ॥
नियमायाऽभवत्तत्र दीक्षिता हिमवत्सुता

2.3.22.36

तपश्चकार सा तत्र शृंगितीर्थे महोत्तमे ॥
गौरीशिखर नामासीत्तत्तपःकरणाद्धि तत्

2.3.22.37

सुंदराश्च द्रुमास्तत्र पवित्राश्शिवया मुने ॥
आरोपिताः परीक्षार्थं तपसः फलभागिनः

2.3.22.38

भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी ॥
तथा तपस्समारब्धं मुनीनामपि दुष्करम्

2.3.22.2.3.22.40

विगृह्य मनसा सर्वाणींद्रियाणि सहाशु सा ॥
समुपस्थानिके तत्र चकार परमं तपः ॥ ३९ ।
ग्रीष्मे च परितो वह्निं प्रज्वलंतं दिवानिशम् ॥
कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम

2.3.22.41

सततं चैव वर्षासु स्थंडिले सुस्थिरासना ॥
शिलापृष्ठे च संसिक्ता बभूव जलधारया

2.3.22.42

शीते जलांतरे शश्वत्तस्थौ सा भक्तितत्परा॥
अनाहारातपत्तत्र नीहारे निशासु च

2.3.22.43

एवं तपः प्रकुर्वाणा पंचाक्षरजपे रता ॥
दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम्

2.3.22.44

स्वारोपिताच्छुभान्वृक्षान्सखीभिस्सिंचती मुदा॥
प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत्

2.3.22.45

वातश्चैव तथा शीतवृष्टिश्च विविधा तथा॥
दुस्सहोऽपि तथा घर्म्मस्तया सेहे सुचित्तया

2.3.22.46

दुःखं च विविधं तत्र गणितं न तयागतम् ॥
केवलं मन आधाय शिवे सासीत्स्थिता मुने

2.3.22.47

प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः॥
तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः

2.3.22.48

ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता॥
निराहाराभवद्देवी तपश्चरणसंरता

2.3.22.49

आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुतः ॥
तेन देवैरपर्णेति कथिता नामतः शिवा

2.3.22.2.3.22.50

एका पादस्थिता सासीच्छिवं संस्मृत्य पार्वती॥
पंचाक्षरं जपंती च मनुं तेपे तपो महत्

2.3.22.51

चीरवल्कलसंवीता जटासंघातधारिणी॥
शिवचिंतनसंसक्ता जिगाय तपसा मुनीम्

2.3.22.52

एवं तस्यास्तपस्यन्त्या चिंतयंत्या महेश्वरम् ॥
त्रीणि वर्ष सहस्राणि जग्मुः काल्यास्तपोवने

2.3.22.53

षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः ॥
तत्र क्षणमथोषित्वा चिंतयामास सा शिवा

2.3.22.54

नियमस्थां महादेव किं मां जानासि नाधुना ॥
येनाहं सुचिरं तेन नानुयाता तवोरता

2.3.22.55

लोके वेदे च गिरिशो मुनिभिर्गीयते सदा ॥
शंकरस्य हि सर्वज्ञस्सर्वात्मा सर्वदर्शनः

2.3.22.56

सर्वभूतिप्रदो देवस्सर्वभावानुभावनः ॥
भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः

2.3.22.57

सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे॥
अनुरक्ता तदा सोत्र संप्रसीदतु शंकरः

2.3.22.58

यदि नारद तत्रोक्तमंत्रो जप्तश्शराक्षरः ॥
सुभक्त्या विधिना नित्यं संप्रसीदतु शंकरः

2.3.22.59

यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् ॥
सर्वेश्वरस्य चात्यंतं संप्रसीदतु शंकरः

2.3.22.2.3.22.60

एवं चिंतयती नित्यं तेपे सा सुचिरं तपः ॥
अधोमुखी निर्विकारा जटावल्कलधारिणी

2.3.22.61

तथा तया तपस्तप्तं मुनीनामपि दुष्करम् ॥
स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः

2.3.22.62

तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः ॥
धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः

2.3.22.63

महतां धर्म्मवृद्धेषु गमनं श्रेय उच्यते ॥
प्रमाणं तपसो नास्ति मान्यो धर्म्मस्सदा बुधैः

2.3.22.64

श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः ॥
अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति

2.3.22.65

जल्पंत इति ते सर्वे सुप्रशस्य शिवातपः ॥
जग्मुः स्वं धाम मुदिताः कठिनांगाश्च ये ह्यपि

2.3.22.66

अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना ॥
पार्वत्या जगदम्बायाः पराश्चर्य्यकरं महत्

2.3.22.67

तदाश्रमगता ये च स्वभावेन विरोधिनः ॥
तेप्यासँस्तत्प्रभावेण विरोधरहि तास्तदा

2.3.22.68

सिंहा गावश्च सततं रागादिदोषसंयुताः ॥
तन्महिम्ना च ते तत्र नाबाधंत परस्परम्

2.3.22.69

अथान्ये च मुनिश्रेष्ठ मार्ज्जारा मूषकादयः ॥
निसर्गाद्वैरिणो यत्र विक्रियंते स्म न क्वचित्

2.3.22.2.3.22.70

वृक्षाश्च सफलास्तत्र तृणानि विविधानि च ॥
पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम

2.3.22.71

तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् ॥
जातं च तपस्तस्यास्सिद्धिरूपमभूत्तदा

2.3.22.22

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं० तृतीये पार्वती० पार्वतीतपोव० नाम द्वाविंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc