भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.20

2.3.20.1

नारद उवाच ॥ ॥
विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा ॥
गता कुत्र वद त्वं तच्चरित्रं शशिमौलिनः

2.3.20.2

॥ ब्रह्मोवाच ॥ ॥
यदा भस्म चकाराशु तृतीयनयनानलः ॥
शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा

2.3.20.3

हाहाकारो महानासीत्त्रैलोक्ये सचराचरे।
सर्वदेवर्षयस्तात शरणं मां ययुर्द्रुतम्

2.3.20.4

सर्वे निवेदयामासुस्तद्दुखं मह्यमाकुलाः ॥
सुप्रणम्य सुसंस्तुत्य करौ बद्ध्वा नतानना

2.3.20.5

तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ॥
गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे

2.3.20.6

संदग्धुकामः स शुचिज्वालामालातिदीपितः ॥
स्तंभितोऽरं मया शंभुप्रसादाप्तसुतेजसा

2.3.20.7

अथ क्रोधमयं वह्निं दग्धुकाम जगत्त्रयम् ॥
वाडवांतकमार्षं च सौम्यज्वालामुखं मुने

2.3.20.8

तं वाडवतनुमहं समादाय शिवेच्छया ॥
सागरं समगां लोकहिताय जगतां पतिः

2.3.20.9

आगतं मां समालोक्य सागरस्सांजलिर्मुने ॥
धृत्वा च पौरुषं रूपमागतस्संनिधिं मम

2.3.20.2.3.20.10

सुप्रणम्याथ मां सिंधुस्संस्तूय च यथा विधि ॥
स मामुवाच सुप्रीत्या सर्वलोकपितामहम्

2.3.20.11

सागर उवाच ॥
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ॥
तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम्

2.3.20.12

अथाहं सागरवचश्श्रुत्वा प्रीतिपुरस्सरम् ॥
प्रावोचं शंकरं स्मृत्वा लौकिकं हितमावहन्

2.3.20.13

ब्रह्मोवाच ॥
शृणु तात महाधीमन्सर्वलोकहितावह ॥
वच्म्यहं प्रीतितस्सिंधो शिवेच्छाप्रेरितो हृदा

2.3.20.14

अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ॥
दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः

2.3.20.15

प्रार्थितोऽहं सुरैश्शीघ्रं पीडितैश्शंकरेच्छया ॥
तत्रागत्य द्रुतं तं वै तात स्तंभितवाञ्शुचिम्

2.3.20.16

वाडवं रूपमाधत्त तमादायाग तोत्र ह ॥
निर्दिशामि जलाधार त्वामहं करुणाकरः

2.3.20.17

अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ॥
ज्वालामुखस्त्वया धार्य्यो यावदाभूतसंप्लवम्

2.3.20.18

यदात्राहं समागम्य वत्स्यामि सरितां पते ॥
तदा त्वया परित्याज्यः क्रोधोऽयं शांकरोऽद्भुतः

2.3.20.19

भोजनं तोयमेतस्य तव नित्यं भविष्यति ॥
यत्नादेवावधार्य्योऽयं यथा नोपैति चांतरम्

2.3.20.2.3.20.20

ब्रह्मोवाच ॥
इत्युक्तो हि मया सिंधुरंगीचक्रे तदा धुवम् ॥
ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः

2.3.20.21

ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ॥
वार्योघान्सुदहंस्तस्य ज्वालामालाभिदीपितः

2.3.20.22

ततस्संतुष्टचेतस्कस्स्वं धामाहं गतो मुने ॥
अंतर्धानमगात्सिंधुर्दिव्यरूपः प्रणम्य माम्

2.3.20.20

स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् ॥
देवा बभूवुः सुखिनो मुनयश्च महामुने २३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे वडवानलचरितं नाम विंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc