शिव पुराण · अध्याय 2.3.19
॥ नारद उवाच॥
ब्रह्मन्विधे महाभाग किं जातं तदनंतरम्॥
कथय त्वं प्रसादेन तां कथां पापनाशिनीम्
॥ ब्रह्मोवाच ॥
श्रूयतां सा कथा तात यज्जातं तदनंतरम् ॥
तव स्नेहात्प्रवक्ष्यामि शिवलीलां मुदावहाम्
धैर्यस्य व्यसनं दृष्ट्वा महायोगी महेश्वरः ॥
विचिंतितं मनस्येवं विस्मितोऽतिततः परम्
॥ शिव उवाच ॥
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् ॥
केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा
कुवर्णनं मया प्रीत्या परस्त्र्युपरि वै कृतम् ॥
जातो धर्मविरोधोऽत्र श्रुतिसीमा विलंघिता
॥ ब्रह्मोवाच ॥
विचिंत्येत्थं महायोगी परमेशस्सतां गतिः ॥
दिशो विलोकयामास परितश्शंकितस्तदा
वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् ॥
स्वशरं क्षेप्तुकामं हि गर्वितं मूढचेतसम्
तं दृष्ट्वा तादृशं कामं गिरीशस्य परात्मनः ॥
संजातः क्रोधसंमर्दस्तत्क्षणादपि नारद।
कामः स्थितोऽन्तरिक्षे स धृत्वा तत्सशरं धनुः ॥
चिक्षेपास्त्रं दुर्निवारममोघं शंकरे मुने
बभूवामोघमस्त्रं तु मोघं तत्परमात्मनि ॥
समशाम्यत्ततस्तस्मिन्संकुद्धे परमेश्वरे
मोघीभूते शिवे स्वेस्त्रे भयमापाशु मन्मथः ॥
चकंपे च पुरः स्थित्वा दृष्ट्वा मृत्युंजयं प्रभुम्
सस्मार त्रिदशान्सर्वान्शक्रादीन्भयविह्वलः ॥
स स्मरो मुनिशार्दूल स्वप्रयासे निरर्थके
कामेन सुस्मृता देवाश्शक्राद्यास्ते मुनीश्वर ॥
आययुः सकलास्ते हि शंभुं नत्वा च तुष्टुवुः
स्तुतिं कुर्वत्सु देवेषु कुद्धस्याति हरस्य हि ॥
तृतीयात्तस्य नेत्राद्वै निस्ससार ततो महान्
ललाट मध्यगात्तस्मात्सवह्निर्द्रुतसम्भवः ॥
जज्वालोर्द्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः
उत्पत्य गगने तूर्णं निष्पत्य धरणी तले ॥
भ्रामंभ्रामं स्वपरितः पपात मेदनीं परि ॥ १६
भस्मसात्कृतवान्साधो मदनं तावदेव हि ॥
यावच्च मरुतां वाचः क्षम्यतां क्षम्यतामिति
हते तस्मिन्स्मरे वीरे देव दुःखमुपागताः ॥
रुरुदुर्विह्वलाश्चातिक्रोशतः किमभूदिति
॥
श्वेतांगा विकृतात्मा च गिरिराजसुता तदा ॥
जगाम मंदिरं स्वं च समादाय सखीजनम्
क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा ॥
भर्तृमृत्युजदुःखेन पतिता सा मृता इव
जातायां चैव संज्ञायां रतिरत्यंतविह्वला॥
विललाप तदा तत्रोच्चरंती विविधं वचः
॥ रतिरुवाच ॥
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह ॥
मत्स्वामिनं समाहूय नाशयामासुरुद्धतम्
हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद ॥
इदं तु किमभूदत्र हा हा प्रिय प्रियेति च
॥ ब्रह्मोवाच ॥।
इत्थं विलपती सा तु वदंती बहुधा वचः ॥
हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा
तद्विलापं तदा श्रुत्वा तत्र सर्वे वनेचराः ॥
अभवन्दुःखितास्सर्वे स्थावरा अपि नारद
एतस्मिन्नंतरे तत्र देवाश्शक्रादयोऽखिलाः ॥
रतिमूचुस्समाश्वास्य संस्मरंतो महेश्वरम्
॥ देवा ऊचुः ॥
किंचिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भयं त्यज॥
जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम्
सुखदाता न कोप्यस्ति दुःखदाता न कश्चन ॥
सर्वोऽपि स्वकृतं भुंक्ते देवाञ्शोचसि वै वृथा
।
॥ ब्रह्मोवाच ॥
इत्याश्वास्य रतिं देवास्सर्वे शिवमुपागताः ॥
सुप्रसाद्य शिवं भक्त्या वचनं चेदमब्रुवन्
॥ देवा ऊचुः ॥
भगवञ्छ्रूयतोमेतद्वचनं नश्शुभं प्रभो॥
कृपां कृत्वा महेशान शरणागतवत्सल
सुविचारय सुप्रीत्या कृति कामस्य शंकर ॥
कामेनैतत्कृतं यत्र न स्वार्थं तन्महेश्वर
दुष्टेन पीडितैर्देवैस्तारकेणाऽखिलैर्विभो ॥
कर्म तत्कारितं नाथ नान्यथा विद्धि शंकर
रतिरेकाकिनी देव विलापं दुःखिता सती ॥
करोति गिरिश त्वं च तामाश्वासय सर्वदा
संहारं कर्तुकामोऽसि क्रोधेनानेन शंकर ॥
दैवतैस्सह सर्वेषां हतवांस्तं यदि स्मरम्
दुःखं तस्या रतेर्दृष्ट्वा नष्टप्रायाश्च देवताः॥
तस्मात्त्वया च कर्त्तव्यं रत्याशोकापनोदनम्
॥ ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तेषां प्रसन्नो भगवाञ्छिवः ॥
देवानां सकलानां च वचनं चेदमब्रवीत्
॥ शिव उवाच ॥ ॥
देवाश्च ऋषयस्सर्वे मद्वचश्शृणुतादरात् ॥
मत्कोपेन च यज्जातं तत्तथा नान्यथा भवत्
अनंगस्तावदेव स्यात्कामो रतिपतिः प्रभुः ॥
यावच्चावतरेत्कृष्णो धरण्यां रुक्मिणीपतिः
द्वारकायां यदा स्थित्वा पुत्रानुत्पादयिष्यति॥
तदा कृष्णस्तु रुक्मिण्यां काममुत्पादयिष्यति
प्रद्युम्ननाम तस्यैव भविष्यति न संशयः ॥
जातमात्रं तु तं पुत्रं शंबरस्संहरिष्यति
हृत्वा प्रास्य समुद्रं तं शंबरो दानवोत्तमः ॥
मृतं ज्ञात्वा वृथा मूढो नगरं स्वं गमिष्यति
तावच्च नगरं तस्य रते स्थेयं यथासुखम् ॥
तत्रैव स्वपतेः प्राप्तिः प्रद्युम्नस्य भविष्यति
तत्र कामो मिलित्वा तं हत्वा शम्बरमाहवे ॥
भविष्यति सुखी देवाः प्रद्युम्नाख्यस्स्वकामिनीम्
तदीयं चैव यद्द्रव्यं नीत्वा स नगरं पुनः ॥
गमिष्यति तया सार्द्धं देवास्सत्यं वचो मम
ब्रह्मोवाच ॥
इति श्रुत्वा वचश्शंभोर्देवा ऊचुः प्रणम्य तम् ॥
किंचिदुच्छ्वसिताश्चित्ते करौ बद्ध्वा नतांगकाः
देवा ऊचुः ॥
देवदेव महादेव करुणासागर प्रभो ॥
शीघ्रं जीवय कामं त्वं रक्ष प्राणान् रतेर्हर
ब्रह्मोवाच॥
इत्याकर्ण्यामरवचः प्रसन्नः परमेश्वरः॥
पुनर्बभाषे करुणासागरस्सकलेश्वरः
शिव उवाच ॥
हे देवास्सुप्रसन्नोऽस्मि जीवयिष्यामि चांतरे ॥
कामः स मद्गणो भूत्वा विहरिष्यति नित्यशः
नाख्येयमिदमाख्यानं कस्यचित्पुरतस्सुराः ॥
गच्छत स्वस्थलं दुखं नाशयिष्यामि सर्वतः
ब्रह्मोवाच ॥
इत्युक्त्वांतर्दधे रुद्रो देवानां स्तुवतां तदा॥
सर्वे देवास्सुप्रस्सन्ना बभूवुर्गतविस्मयाः
ततस्तां च समाश्वास्य रुद्रस्य वचने स्थिताः॥
उक्त्वा वचस्तदीयं च स्वं स्वं धाम ययुर्मुने
कामपत्नी समादिष्टं नगरं सा गता तदा ॥
प्रतीक्षमाणा तं कालं रुद्रादिष्टं मुनीश्वर
॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामनाशवर्णनं नामैकोनविंशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0