भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.18

2.3.18.1

॥ ब्रह्मोवाच ॥
तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः ॥
मोहकस्समधोश्चादौ धर्मं विस्तारयन्स्थितः

2.3.18.2

वसंतस्य च यो धर्म्मः प्रससार स सर्वतः ॥
तपस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर

2.3.18.3

वनानि च प्रफुल्लानि पादपानां महामुने ॥
आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर

2.3.18.4

पुष्पाणि सहकाराणामशोकवनिकासु वै ॥
विरेजुस्सुस्मरोद्दीपकाराणि सुरभीण्यपि

2.3.18.5

कैरवाणि च पुष्पाणि भ्रमराकलितानि च ॥
बभूबुर्मदनावेशकराणि च विशेषतः

2.3.18.6

सकामोद्दीपनकरं कोकिलाकलकूजितम् ॥
आसीदति सुरम्यं हि मनोहरमतिप्रियम्

2.3.18.7

भ्रमराणां तथा शब्दा विविधा अभवन्मुने ॥
मनोहराश्च सर्वेषां कामोद्दीपकरा अपि

2.3.18.8

चंद्रस्य विशदा कांतिर्विकीर्णा हि समंतत ॥
कामिनां कामिनीनां च दूतिका इव साभवत्

2.3.18.9

मानिनां प्रेरणायासीत्तत्काले कालदीपिका ॥
मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः

2.3.18.2.3.18.10

एवं वसंतविस्तारो मदनावेशकारकः ॥
वनौकसां तदा तत्र मुनीनां दुस्सहोऽत्यभूत्

2.3.18.12

अचेतसामपि तदा कामासक्तिरभून्मुने ॥
सुचेतासां हि जीवानां सेति किं वर्ण्यते कथा॥१ १ ॥
एवं चकार स मधुस्स्वप्रभावं सुदुस्सहम्॥
सर्वेषा चैव जीवानां कामोद्दीपनकारकः

2.3.18.13

अकालनिमितं तात मधोर्वीक्ष्य हरस्तदा ॥
आश्चर्य्यं परमं मेने स्वलीलात्ततनुः प्रभुः

2.3.18.14

अथ लीलाकरस्तत्र तपः परमदुष्करम् ॥
तताप स वशीशो हि हरो दुःखहरः प्रभुः

2.3.18.15

वसंते प्रसृते तत्र कामो रतिसमन्वितः ॥
चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः

2.3.18.16

स्वप्रभावं वितस्तार मोहयन्सकलाञ्जनान् ॥
रत्यायुक्तं तदा कामं दृष्ट्वा को वा न मोहितः

2.3.18.17

एवं प्रवृत्तसुरतौ शृंगारोऽपि गणैस्सह ॥
हावभावयुतस्तत्र प्रविवेश हरांतिकम्

2.3.18.18

मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः ॥
न दृष्टवांस्तदा शंभोश्छिद्रं येन प्रविश्यते

2.3.18.19

यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः ॥
महादेवस्तदा सोऽभून्महाभयविमोहितः

2.3.18.2.3.18.20

ज्वलज्ज्वालाग्निसंकाशं भालनेत्रसमन्वितम् ॥
ध्यानस्थं शंकरं को वा समासादयितुं क्षमः

2.3.18.21

एतस्मिन्नंतरे तत्र सखीभ्यां संयुता शिवा ॥
जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः

2.3.18.22

पृथिव्यां यादृशं लोकैस्सौंदर्यं वर्ण्यते महत् ॥
तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम् ॥

2.3.18.23

आर्तवाणि सुपुष्पाणि धृतानि च तया यदा ॥
तत्सौंदर्यं कथं वर्ण्यमपि वर्षशतैरपि

2.3.18.24

यदा शिवसमीपे तु गता सा पर्वतात्मजा ॥
तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः

2.3.18.25

तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ॥
बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम्

2.3.18.26

शृंगारैश्च तदा भावैस्सहिता पार्वती हरम् ॥
जगाम कामसाहाय्ये मुने सुरभिणा सह

2.3.18.27

तदेवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः ॥
द्रुतं पुष्पशरं तस्मै स्मरोऽमुंचत्सुसंयतः

2.3.18.28

यथा निरंतरं नित्यमागच्छति तथा शिवम् ॥
तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता

2.3.18.29

सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ॥
विवृण्वती तदांगानि स्त्रीस्वभावात्सुलज्जया

2.3.18.2.3.18.30

सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः ॥
शिवोपि वर्णयामास तदंगानि मुदा मुने

2.3.18.31

शिव उवाच ॥
कि मुखं किं शशांकश्च किं नेत्रे चोत्पले च किम् ॥
भ्रुकुट्यौ धनुषी चैते कंदर्पस्य महात्मनः

2.3.18.32

अधरः किं च बिंबं किं किं नासा शुकचंचुका ॥
किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका

2.3.18.33

किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः ॥
पुष्पाणि किं च वर्ण्यंते वस्त्राणि च तथा पुनः

2.3.18.34

लालित्यं चारु यत्सृष्टौ तदेकत्र विनिर्मितम् ॥
सर्वथा रमणीयानि सर्वांगानि न संशयः

2.3.18.35

अहो धन्यतरा चेयं पार्वत्यद्भुतरूपिणी ॥
एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी

2.3.18.36

सुलावण्यानिधिश्चेयमद्भुतांगानि बिभ्रती ॥
विमोहिनी मुनीनां च महासुखविवर्द्धिनी

2.3.18.37

॥ ब्रह्मोवाच ॥
इत्येवं वर्णयित्वा तु तदंगानि मुहुर्मुहुः ॥
विधिदत्तवराध्यासाद्धरस्तु विरराम ह

2.3.18.38

हस्तं वस्त्रांतरे यावदचालयत शंकरः ॥
स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता

2.3.18.39

विवृण्वती निजांगानि पश्यंती च मुहुर्मुहुः ॥
सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने

2.3.18.2.3.18.40

एवं चेष्टां तदा दृष्ट्वा शंभुर्मोहमुपागतः॥
उवाच वचनं चैवं महालीलो महेश्वरः

2.3.18.41

अस्या दर्शनमात्रेण महानंदो भवत्यलम् ॥
यदालिंगनमेनस्याः कुर्य्यां किन्तु ततस्सुखम्

2.3.18.42

क्षणमात्रं विचार्य्येत्थं संपूज्य गिरिजां ततः ॥
प्रबुद्धस्य महायोगी सुविरक्तो जगाविति

2.3.18.43

किं जातं चरितं चित्रं किमहं मोहमागतः ॥
कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः

2.3.18.44

ईश्वरोहं यदीच्छेयं परांगस्पर्शनं खलु॥
तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति

2.3.18.45

एवं वैराग्यमासाद्य पर्य्यंकासादनं च तत्॥
वारयामास सर्वात्मा परेशः किं पतेदिह

2.3.18.18

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितान्तर्गततृतीये पार्वतीखण्डे कामकृतविकारवर्णननामाष्टादशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc