भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.13

2.3.13.1

भवान्युवाच ॥
किमुक्तं गिरिराजाय त्वया योगिस्तपस्विना ॥
तदुत्तरं शृणु विभो मत्तो ज्ञानिविशारद

2.3.13.2

तपश्शक्त्यान्वितश्शम्भो करोषि विपुलं तपः ॥
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः

2.3.13.3

सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम् ॥
तया विरच्यते सर्वं पाल्यते च विनाश्यते

2.3.13.4

कस्त्वं का प्रकृतिस्सूक्ष्मा भगवंस्तद्विमृश्यताम् ॥
विना प्रकृत्या च कथं लिंगरूपी महेश्वरः

2.3.13.5

अर्चनीयोऽसि वंद्योऽसि ध्येयोऽसि प्राणिनां सदा ॥
प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम्

2.3.13.6

॥ ब्रह्मोवाच ॥
पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः ॥
सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत्

2.3.13.7

॥ महेश्वर उवाच ॥
तपसा परमेणेव प्रकृतिं नाशयाम्यहम् ॥
प्रकृत्या रहितश्शम्भुरहं तिष्ठामि तत्त्वतः

2.3.13.8

तस्माच्च प्रकृतेस्सद्भिर्न कार्यस्संग्रहः क्वचित् ॥
स्थातव्यं निर्विकारैश्च लोकाचार विवर्जितैः

2.3.13.9

॥ ब्रह्मोवाच ॥
इत्युक्ता शम्भुना तात लौकिकव्यवहारतः ॥
सुविहस्य हृदा काली जगाद मधुरं वचः

2.3.13.11

।
॥ काल्युवाच ॥
यदुक्तं भवता योगिन्वचनं शंकर प्रभो ॥
सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ॥ 2.3.13.१ ०॥
एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम् ॥
प्रकृत्या सर्वमेतच्च बद्धमस्ति निरंतरम्

2.3.13.12

तस्मात्त्वया न वक्तव्यं न कार्यं किंचिदेव हि ॥
वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा

2.3.13.13

यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत् ॥
तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः

2.3.13.14

प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः ॥
त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो

2.3.13.15

प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर ॥
निजं जानासि चेदीश किमर्थं तप्यसे तपः

2.3.13.16

वाग्वादेन च किं कार्यं मम योगिस्त्वया सह ॥
प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः

2.3.13.17

इंद्रियाणां गोचरत्वं यावद्भवति देहिनाम् ॥
तावत्सर्वं विमंतव्यं प्राकृतं ज्ञानिभिर्धिया

2.3.13.18

किं बहूक्तेन योगीश शृणु मद्वचनं परम् ॥
सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः

2.3.13.19

मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः ॥
मां विना त्वं निरीहोऽसि न किंचित्कर्तुमर्हसि

2.3.13.2.3.13.20

पराधीनस्सदा त्वं हि नानाकर्म्मकरो वशी ॥
निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम्

2.3.13.21

प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव ॥
तर्हि त्वया न भेतव्यं समीपे मम शंकर

2.3.13.22

॥ ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तस्याः सांख्यशास्त्रोदितं शिवः ॥
वेदांतमतसंस्थो हि वाक्यमूचे शिवां प्रति

2.3.13.23

श्रीशिव उवाच ॥
इत्येवं त्वं यदि ब्रूषे गिरिजे सांख्यधारिणी ॥
प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि

2.3.13.24

यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः ॥
वेदांतवेद्यो मायेशस्त्वं करिष्यसि किं तदा

2.3.13.25

॥ ब्रह्मोवाच ॥
इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः ॥
भक्तानुरंजनकरो भक्तानुग्रहकारकः

2.3.13.26

शिव उवाच ॥
अत्रैव सोऽहं तपसा परेण गिरे तव प्रस्थवरेऽतिरम्ये ॥
चरामि भूमौ परमार्थभावस्वरूपमानंदमयं सुलोचयन्

2.3.13.27

तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ॥
अनुज्ञया विना किंचित्तपः कर्तुं न शक्यते

2.3.13.28

॥ ब्रह्मोवाच ॥
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः ॥
प्रणम्य हिमवाञ्छंभुमिदं वचनमब्रवीत्

2.3.13.29

हिमवानुवाच ॥
त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् ॥
किमप्यहं महादेव तुच्छो भूत्वा वदामि ते

2.3.13.2.3.13.30

॥ ब्रह्मोवाच ॥
एवमुक्तो हिमवता शंकरो लोकशंकरः ॥
विहस्य गिरिराजं तं प्राह याहीति सादरम्

2.3.13.31

शंकरेणाभ्यनुज्ञातस्स्वगृहं हिमवान्ययौ ॥
सार्द्धं गिरिजया वै स प्रत्यहं दर्शने स्थितः

2.3.13.32

पित्रा विनापि सा काली सखीभ्यां सह नित्यशः ॥
जगाम शंकराभ्याशं सेवायै भक्तितत्परा

2.3.13.33

निषिषेध न तां कोऽपि गणो नंदीश्वरादिकः ॥
महेशशासनात्तात तच्छासनकरश्शुचिः

2.3.13.34

सांख्यवेदांतमतयोश्शिवयोश्शि वदस्सदा ॥
संवादः सुखकृच्चोक्तोऽभिन्नयोस्सुविचारतः

2.3.13.35

गिरिराजस्य वचनात्तनयां तस्य शंकरः ॥
पार्श्वे समीपे जग्राह गौरवादपि गोपरः

2.3.13.36

उवाचेदं वचः कालीं सखीभ्यां सह गोपतिः ॥
नित्यं मां सेवतां यातु निर्भीता ह्यत्र तिष्ठतु

2.3.13.37

एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः ॥
निर्विकारो महायोगी नानालीलाकरः प्रभुः

2.3.13.38

इदमेव महद्धैर्य्यं धीराणां सुतपस्विनाम् ॥
विघ्रवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते

2.3.13.39

ततः स्वपुरमायातो गिरिराट् परिचारकैः॥
मुमोदातीव मनसि सप्रियस्स मुनीश्वर

2.3.13.2.3.13.40

हरश्च ध्यानयोगेन परमात्मानमादरात् ॥
निर्विघ्नेन स्वमनसा त्वासीच्चिंतयितुं स्थितः

2.3.13.41

काली सखीभ्यां सहिता प्रत्यहं चंद्रशेखरम् ॥
सेवमाना महादेवं गमनागमने स्थिता

2.3.13.42

प्रक्षाल्य चरणौ शंभोः पपौ तच्चरणोदकम् ॥
वह्निशौचैन वस्त्रेण चक्रे तद्गात्रमार्जनम्

2.3.13.43

षोडशेनोपचारेण संपूज्य विधिवद्धरम् ॥
पुनःपुनः सुप्रणम्य ययौ नित्यं पितुर्गृहम्

2.3.13.44

एवं संसेवमानायां शंकरं ध्यानतत्परम् ॥
व्यतीयाय महान्कालश्शिवाया मुनिसत्तम

2.3.13.45

कदाचित्सहिता काली सखीभ्यां शंकराश्रमे ॥
वितेने सुंदरं गानं सुतालं स्मरवर्द्धनम्

2.3.13.46

कदाचित्कुशपुष्पाणि समिधं नयति स्वयम् ॥
सखीभ्यां स्थानसंस्कारं कुर्वती न्यवसत्तदा

2.3.13.47

कदाचिन्नियता गेहे स्थिता चन्द्रभृतो भ्रृशम् ॥
वीक्षंती विस्मयामास सकामा चन्द्रशेखरम्

2.3.13.48

ततस्तप्तेन भूतेशस्तां निस्संगां परिस्थिताम् ॥
सोऽचिंतयत्तदा वीक्ष्य भूतदेहे स्थितेति च

2.3.13.49

।
नाग्रहीद्गिरिशः कालीं भार्यार्थे निकटे स्थिताम् ॥
महालावण्यनिचयां मुनीनामपि मोहिनीम्

2.3.13.2.3.13.50

महादेवः पुनर्दृष्ट्वा तथा तां संयतेद्रियाम् ॥
स्वसेवने रतां नित्यं सदयस्समचिंतयत्

2.3.13.51

यदैवैषा तपश्चर्याव्रतं काली करिष्यति ॥
तदा च तां ग्रहीष्यामि गर्वबीजविवर्जिताम्

2.3.13.52

॥ ब्रह्मोवाच ॥
इति संचिन्त्य भूतेशो द्रुतं ध्यानसमाश्रितः ॥
महयोगीश्वरोऽभूद्वै महालीलाकरः प्रभुः

2.3.13.53

ध्यानासक्तस्य तस्याथ शिवस्य परमात्मनः ॥
हृदि नासीन्मुने काचिदन्या चिंता व्यवस्थिता

2.3.13.55

काली त्वनुदिनं शंभुं सद्भक्त्या समसेवत ॥
विचिंतयंती सततं तस्य रूपं महात्मनः ॥ ५४ ।
हरो ध्यानपरः कालीं नित्यं प्रैक्षत सुस्थितम् ॥
विस्मृत्य पूर्वचिंतां तां पश्यन्नपि न पश्यति

2.3.13.56

एतस्मिन्नंतरे देवाश्शक्राद्या मुनयश्च ते ॥
ब्रह्माज्ञया स्मरं तत्र प्रेषयामासुरादरात्

2.3.13.57

तेन कारयितुं योगं काल्या रुद्रेण कामतः ॥
महावीर्येणासुरेण तारकेण प्रपीडिताः

2.3.13.58

गत्वा तत्र स्मरस्सर्वमुपायमकरोन्निजम् ॥
चुक्षुभे न हरः किञ्चित्तं च भस्मीचकार ह

2.3.13.59

पार्वत्यपि विगर्वाभून्मुने तस्य निदेशतः ॥
ततस्तपो महत्कृत्वा शिवं प्राप पतिं सती

2.3.13.2.3.13.60

बभूवतुस्तौ सुप्रीतौ पार्वतीपरमेश्वरौ ॥
चक्रतुर्देवकार्य्यं हि परोपकरणे रतौ

2.3.13.13

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीपरमेश्वरसंवादवर्णनं नाम त्रयोदशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc