भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.12

2.3.12.1

॥ ब्रह्मोवाच ॥ ॥
अथ शैलपतिर्हृष्टः सत्पुष्पफलसंचयम् ॥
समादाय स्वतनयासहितोऽगाद्धरांतिकम्

2.3.12.2

स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम्॥
अर्थयामास तनयां कालीं तस्मै हृदाद्भुताम्

2.3.12.3

फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः ॥
अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट्

2.3.12.4

हिमगिरिरुवाच॥
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् ॥
समुत्सुका समानीता त्वदाराधनकांक्षया

2.3.12.5

सखीभ्यां सह नित्यं त्वां सेवतामेव शंकरम् ॥
अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः

2.3.12.6

ब्रह्मोवाच ॥
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम् ॥
फुल्लेन्दीवरपत्राभा पूर्णचन्द्रनिभाननाम्

2.3.12.7

समस्तलीलासंस्थानशुभवेषविजृम्भिकाम् ॥
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम्

2.3.12.8

मृणालायतपर्य्यन्तबाहुयुग्ममनोहराम्॥
राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ

2.3.12.9

बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् ॥
स्थलपद्मप्रतीकाशपादयुग्मविराजिताम्

2.3.12.2.3.12.10

ध्यानपंजरनिर्बद्धमुनिमानसमप्यलम् ॥
दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम्

2.3.12.11

दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम् ॥
विग्रहे तन्त्रमन्त्राणां वर्द्धिनीं कामरूपिणीम्

2.3.12.12

न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् ॥
परतत्त्वं महायोगी त्रिगुणात्परमव्ययम्

2.3.12.33

दृष्ट्वा तदानीं सकलेश्वरं विभुं तपोजुषाणं विनिमीलितेक्षणम्॥
कपर्दिनं चन्द्रकलाविभूषणं वेदान्तवेद्यं परमासने स्थितम्

2.3.12.14

ववन्द शीर्ष्णा च पुनर्हिमाचलः स संशयं प्रापददीनसत्त्वः ॥
उवाच वाक्यं जगदेकबन्धुं गिरीश्वरो वाक्यविदां वरिष्ठः

2.3.12.15

हिमाचल उवाच ॥
देवदेव महादेव करुणाकर शंकर ॥
पश्य मां शरणम्प्राप्तमुन्मील्य नयने विभो

2.3.12.16

शिव शर्व महेशान जगदानन्दकृत्प्रभो ॥
त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम्

2.3.12.17

न त्वां जानंति देवेश वेदाश्शास्त्राणि कृत्स्नशः॥
अतीतो महिमाध्वानं तव वाङ्मनसोः सदा

2.3.12.18

अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ॥
अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता

2.3.12.19

जानंति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ॥
शरणागत भक्तानां न कुत्रापि भ्रमादिकम्

2.3.12.2.3.12.20

विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना॥
तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि

2.3.12.21

सभाग्योहं महादेव प्रसादात्तव शंकर ॥
मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते

2.3.12.22

प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो॥
अनया सुतया स्वामिन्निदेशं दातुमर्हसि

2.3.12.23

ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः ॥
त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः

2.3.12.24

॥ महेश्वर उवाच ॥
आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल॥
कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम्

2.3.12.25

॥ ब्रह्मोवाच ॥
महेशवचनं श्रुत्वा शिवातातस्तथाविधम् ॥
अचलः प्रत्युवाचेदं गिरिशं नतकमधरः

2.3.12.26

हिमाचल उवाच ॥
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम् ॥
सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम्

2.3.12.27

ब्रह्मोवाच ॥
ततोऽब्रवीद्गिरिं शंभुः प्रहसन्वृषभध्वजः ॥
लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम्

2.3.12.28

शंभुरुवाच ॥
इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा ॥
नानेतव्या मत्समीपे वारयामि पुनः पुनः

2.3.12.29

मायारूपा स्मृता नारी विद्वद्भिर्वेदपारगैः ॥
युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम्

2.3.12.2.3.12.30

अहं तपस्वी योगी च निर्लिप्तो मायया सदा ॥
प्रयोजनं न युक्त्या वै स्त्रिया किं मेस्ति भूधर

2.3.12.31

एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित ॥
वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः

2.3.12.32

भवत्यचल तत्संगाद्विषयोत्पत्तिराशु वै ॥
विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः

2.3.12.33

अतस्तपस्विना शैल न कार्या स्त्रीषु संगतिः ॥
महाविषयमूलं सा ज्ञानवैराग्यनाशिनी

2.3.12.34

॥ ब्रह्मोवाच ॥
इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः ॥ ।
विरराम गिरीशं तं महायोगिवरः प्रभुः

2.3.12.35

एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहं निष्ठुरं च ॥
कालीतातश्चकितोऽभूत्सुरर्षे तद्वत्किंचिद्व्याकुलश्चास तूष्णीम्

2.3.12.36

तपस्विनोक्तं वचनं निशम्य तथा गिरीशं चकितं विचार्य्य ॥
अतः प्रणम्यैव शिवं भवानी जगाद वाक्यं विशदन्तदानीम्

2.3.12.12

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसम्वादवर्णनं नाम द्वादशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc