भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.14

2.3.14.1

॥ नारद उवाच ॥
विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे ॥
चरितं परमं ह्येतच्छिवायाश्च शिवस्य च

2.3.14.2

कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः ॥
कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम्

2.3.14.3

भस्मी चकार स कथं शंकरश्च स्मरं वशी ॥
तदपि ब्रूहि सुप्रीत्याद्भुतं तच्चरितं विभोः

2.3.14.4

कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे ॥
कथं प्राप पतिं शंभुमादिशक्तिर्जगत्परा

2.3.14.5

एतत्सर्वमशेषेण विशेषेण महाबुध ॥
ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने

2.3.14.6

ब्रह्मोवाच ॥ पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रतः ॥
वच्म्यहं शंकरं स्मृत्वा सर्वं तच्चरितं शृणु

2.3.14.7

प्रथमं तारकस्यैव भवं संशृणु नारद॥
यद्वधार्थं महा यत्नः कृतो दैवैश्शिवाश्रयैः

2.3.14.8

मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः॥
त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः

2.3.14.9

दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम्॥
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः

2.3.14.12

तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः॥
सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः॥ 2.3.14.१ ०॥
दितिश्च दुःखितासीत्सा कश्यपं शरणं गता॥
पुनस्संसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ॥ १ १॥
तद्विज्ञाय महेंद्रोऽपि लब्धच्छिद्रो महोद्यमी॥
तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः

2.3.14.13

।
तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह॥
स्वपंत्या दैवयोगेन सप्त सप्ताभवन्सुताः

2.3.14.14

देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः ॥
स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः

2.3.14.16

पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः ॥
चकार सुप्रसन्नं तं मुनिं परमसेवया ऽ १५ ॥
॥ कश्यप उवाच ॥
तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः ॥
चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा

2.3.14.17

तथा दित्या कृतं पूर्णं तत्तपश्श्रद्धया मुने॥
ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम्

2.3.14.18

वजांगनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः ॥
नामतुल्यतनुर्वीरस्सुप्रताप्युद्भवाद्बली

2.3.14.19

जननीशासनात्सद्यस्स सुतो निर्जराधिपम् ॥
बलाद्धृत्वा ददौ दंडं विविधं निर्जरानपि

2.3.14.2.3.14.20

दितिस्सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम्॥
अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः

2.3.14.21

तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः॥
देवानत्याजयंस्तस्मात्सदा देवहिते रतः

2.3.14.22

देवान्मुक्त्वा स वज्रांगस्ततः प्रोवाच सादरम् ॥
शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः

2.3.14.23

॥ वज्रांग उवाच॥
इंद्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः ॥
स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः

2.3.14.24

मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् ॥
न मे भोगाभिलाषो वै कस्यचि द्भुवनस्य हि

2.3.14.25

तत्त्वसारं विधे सूत मह्यं वेदविदाम्वर ॥
येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः

2.3.14.26

तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यत ॥
तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम्

2.3.14.27

वरांगीं नाम तां दत्त्वा तस्मै दितिसुताय वै ॥
अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च

2.3.14.28

ततो दैत्यस्य वज्रांगस्सात्विकं भावमाश्रितः॥
आसुरं भावमुत्सृज्य निर्वैरस्सुखमाप्तवान्

2.3.14.29

न बभूव वरांग्या हि हृदि भावोथ सात्विकः॥
सकामा स्वपतिं भेजे श्रद्धया विविधं सती

2.3.14.2.3.14.30

अथ तत्सेवनादाशु संतुष्टोऽभून्महाप्रभुः ॥
स वज्रांगः पतिस्तस्या उवाच वचनं तदा

2.3.14.31

वज्रांग उवाच॥
किमिच्छसि प्रिये ब्रूहि किं ते मनसि वर्तते ॥
तच्छुत्वानम्य तं प्राह सा पतिं स्वमनोरथम्

2.3.14.32

वरांग्युवाच ॥
चेत् प्रसन्नोऽभवस्त्वं वै सुतं मे देहि सत्पते ॥
महाबलं त्रिलोकस्य जेतारं हरिदुःखदम्

2.3.14.33

ब्रह्मोवाच ॥
इति श्रुत्वा प्रियावाक्यं विस्मितोऽभूत्स आकुलः॥
उवाच हृदि स ज्ञानी सात्विको वैरवर्जितः

2.3.14.34

प्रियेच्छति विरोधं वै सुरैर्मे न हि रोचते ॥
किं कुर्यां हि क्व गच्छेयं कथं नश्ये न मे पणः

2.3.14.35

प्रियामनोरथश्चैव पूर्णस्स्यात्त्रिजगद्भवेत् ॥
क्लेशयुङ्नितरा भूयो देवाश्च मुनयस्तथा

2.3.14.36

न पूर्णस्स्यात्प्रियाकामस्तदा मे नरको भवेत्॥
द्विधापि धर्महानिर्वै भवतीत्यनुशुश्रुवान्

2.3.14.37

वज्रांग इत्थं बभ्राम स मुने धर्मसंकटे ॥
बलाबलं द्वयोस्तत्र विचिचिंत च बुद्धितः

2.3.14.38

शिवेच्छया स हि मुने वाक्यं मेने स्त्रियो बुधः ॥
तथास्त्विति वचः प्राह प्रियां प्रति स दैत्यराट्

2.3.14.39

तदर्थमकरोत्तीव्रं तपोन्यद्दुष्करं स तु ॥
मां समुद्दिश्य सुप्रीत्या बहुवर्षं जितेंद्रियः

2.3.14.2.3.14.40

वरं दातुमगां तस्मै दृष्ट्वाहं तत्तपो महत् ॥
वरं ब्रूहि ह्यवोचं तं सुप्रसन्नेन चेतसा

2.3.14.41

वज्रांगस्तु तदा प्रीतं मां दृष्ट्वा स्थितं विभुम् ॥
सुप्रणम्य बहुस्तुत्वा वरं वव्रे प्रियाहितम्

2.3.14.42

वज्रांग उवाच॥
सुतं देहि स्वमातुर्मे महाहितकरं प्रभो ॥
महाबलं सुप्रतापं सुसमर्थं तपोनिधिम्

2.3.14.43

ब्रह्मोवाच॥
इत्याकर्ण्य च तद्वाक्यं तथास्त्वित्यब्रवं मुने ॥
अया स्वधाम तद्दत्त्वा विमनास्सस्मरच्छिवम्

2.3.14.14

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्रांगोत्पत्तितपोवर्णनं नाम चतुर्दशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc