भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.8

2.2.8.1

सूत उवाच ॥
इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः ॥
प्रसन्नमानसो भूत्वा तं प्रोवाच स नारदः

2.2.8.2

नारद उवाच ॥
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ॥
धन्यस्त्वं शिवभक्तो हि परतत्त्वप्रदर्शकः

2.2.8.3

श्राविता सुकथा दिव्या शिवभक्तिविवर्द्धिनी ॥
अरुंधत्यास्तथा तस्याः स्वरूपायाः परे भवे

2.2.8.4

इदानीं ब्रूहि धर्मज्ञ पवित्रं चरितं परम् ॥
शिवस्य परपापघ्नं मंगलप्रदमुत्तमम्

2.2.8.5

गृहीतदारे कामे च दृष्टे तेषु गतेषु च ॥
संध्यायां किं तपस्तप्तुं गतायामभवत्ततः

2.2.8.6

सूत उवाच ॥
इति श्रुत्वा वचस्तस्य ऋषेर्वै भावितात्मनः ॥
सुप्रसन्नतरो भूत्वा ब्रह्मा वचनमब्रवीत्

2.2.8.7

ब्रह्मोवाच ॥
शृणु नारद विप्रेन्द्र तदैव चरितं शुभम् ॥
शिवलीलान्वितं भक्त्या धन्यस्त्वं शिवसेवकः

2.2.8.8

अहं विमोहितस्तात यदैवांतर्हितः पुरा ॥
अचिंतयं सदाहं तच्छंभुवाक्यविषार्दितः

2.2.8.9

चिंतयित्वा चिरं चित्ते शिवमायाविमोहितः ॥
शिवे चेर्ष्यामकार्षं हि तच्छृवृणुष्व वदामि ते

2.2.8.2.2.8.10

अथाहमगमं तत्र यत्र दक्षादयः स्थिताः ॥
सरतिं मदनं दृष्ट्वा समदोह हि किञ्चन

2.2.8.11

दक्षमाभाष्य सुप्रीत्या परान्पुत्रांश्च नारद ॥
अवोचं वचनं सोहं शिवमायाविमोहितः

2.2.8.12

ब्रह्मोवाच ॥
हे दक्ष हे मरीच्याद्यास्सुताः शृणुत मद्वचः ॥
श्रुत्वोपायं विधेयं हि मम कष्टापनुत्तये

2.2.8.13

कांताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् ॥
मां च युष्मान्महायोगी धिक्कारं कृतवान्बहु

2.2.8.14

तेन दुःखाभितप्तोहं लभेहं शर्म न क्वचित् ॥
यथा गृह्णातु कांतां स स यत्नः कार्य एव हि

2.2.8.15

यथा गृह्णातु कांतां स सुखी स्यां दुःखवर्जितः ॥
दुर्लभस्य तु कामो मे परं मन्ये विचारतः

2.2.8.16

कांताभिलाषमात्रं मे दृष्ट्वा शंभुरगर्हयत् ॥
मुनीनां पुरतः कस्मात्स कांतां संग्रहीष्यति

2.2.8.17

का वा नारी त्रिलोकेस्मिन् या भवेत्तन्मनाः स्थिता ॥
योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति

2.2.8.18

मन्मथोपि समर्थो नो भविष्यत्यस्य मोहने ॥
नितांतयोगी रामाणां नामापि सहते न सः

2.2.8.19

अगृहीतेषुणा चैव हरेण कथमादिना ॥
मध्यमा च भवेत्सृष्टिस्तद्वाचा नान्यवारिता

2.2.8.2.2.8.20

भुवि केचिद्भविष्यंति मायाबद्धा महासुराः ॥
बद्धा केचिद्धरेर्नूनं केचिच्छंभोरुपायतः

2.2.8.21

संसारविमुखे शंभौ तथैकांतविरागिणि ॥
अस्मादृते न कर्मान्यत् करिष्यति न संशयः

2.2.8.22

इत्युक्त्वा तनयांश्चाहं दक्षादीन् सुनिरीक्ष्य च ॥
सरतिं मदनं तत्र सानंदमगदं ततः

2.2.8.23

ब्रह्मोवाच ॥
मत्पुत्र वर काम त्वं सर्वथा सुखदायकः ॥
मद्वचश्शृणु सुप्रीत्या स्वपत्न्या पितृवत्सल

2.2.8.24

अनया सहचारिण्या राजसे त्वं मनोभव ॥
एषा च भवता पत्या युक्ता संशोभते भृशम्

2.2.8.25

यथा स्त्रिया हृषीकेशो हरिणा सा यथा रमा ॥
क्षणदा विधुना युक्ता तया युक्तो यथा विधुः

2.2.8.26

तथैव युवयोश्शोभा दांपत्यं च पुरस्कृतम् ॥
अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि

2.2.8.27

जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनम् ॥
यथाशु सुमनश्शंभुः कुर्य्याद्दारप्रतिग्रहम्

2.2.8.28

विजने स्निग्धदेशे तु पर्वतेषु सरस्सु च ॥
यत्रयत्र प्रयातीशस्तत्र तत्रानया सह

2.2.8.29

मोहय त्वं यतात्मानं वनिताविमुखं हरम् ॥
त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः

2.2.8.2.2.8.30

भूते हरे सानुरागे भवतोपि मनोभव ।
शापोपशांतिर्भविता तस्मादात्महितं कुरु

2.2.8.31

सानुरागो वरारोहां यदीच्छति महेश्वरः ॥
तदा भवोपि योग्यार्यस्त्वां च संतारयिष्यति

2.2.8.32

तस्माज्जायाद्वितीयस्त्वं यतस्व हरमोहने ॥
विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम्

2.2.8.33

ब्रह्मोवाच ॥
इति श्रुत्वा वचो मे हि जनकस्य जगत्प्रभोः ॥
उवाच मन्मथस्तथ्यं तदा मां जगतां पतिम्

2.2.8.34

मन्मथ उवाच ॥
करिष्येहं तव विभो वचनाच्छंभुमोहनम् ॥
किं तु योषिन्महास्त्रं मे तत्कांतां भगवन् सृज

2.2.8.35

मया संमोहिते शंभो यया तस्यानुमोहनम् ॥
कर्तव्यमधुना धातस्तत्रोपायं परं कुरु

2.2.8.36

ब्रह्मोवाच ॥
एवंवादिनि कंदर्पे धाताहं स प्रजापतिः ॥
कया संमोहनीयोसाविति चिंतामयामहम्

2.2.8.37

चिंताविष्टस्य मे तस्य निःश्वासो यो विनिस्सृतः ॥
तस्माद्वसंतस्संजातः पुष्पव्रातविभूषितः

2.2.8.38

शोणराजीवसंकाशः फुल्लतामरसेक्षणः ॥
संध्योदिताखंडशशिप्रतिमास्यस्सुनासिकः

2.2.8.39

शार्ङ्गवच्चरणावर्त्तश्श्यामकुंचितमूर्द्धजः॥
संध्यांशुमालिसदृशः कुडलद्वयमंडितः

2.2.8.2.2.8.40

प्रमत्तेभगतिः पीनायतदोरुन्नतांसकः ॥
कंबुग्रीवस्सुविस्तीर्णहृदयः पीनसन्मुखः

2.2.8.41

सर्वांगसुन्दरः श्यामस्सम्पूर्णस्सर्वलक्षणैः ॥
दर्शनीयतमस्सर्वमोहनः कामवर्द्धनः

2.2.8.42

एतादृशे समुत्पन्ने वसंते कुसुमाकरे ॥
ववौ वायुस्सुसुरभिः पादपा अपि पुष्पिताः

2.2.8.43

पिका विनेदुश्शतशः पंचमं मधुरस्वनाः ॥
प्रफुल्लपद्मा अभवन्सरस्यः स्वच्छपुष्कराः

2.2.8.44

तमुत्पन्नमहं वीक्ष्य तदा तादृशमुत्तमम् ॥
हिरण्यगर्भो मदनमगदं मधुरं वचः

2.2.8.45

ब्रह्मोवाच ॥ एवं स मन्मथनिभस्सदा सहचरोभवत् ॥
आनुकूल्यं तव कृतः सर्वं देव करिष्यति

2.2.8.46

यथाग्नेः पवनो मित्रं सर्वत्रोपकरिष्यति ॥
तथायं भवतो मित्रं सदा त्वामनुयास्यति

2.2.8.48

वसंतेरंतहेतुत्वाद्वसंताख्यो भवत्वयम् ॥
तवानुगमनं कर्म तथा लोकानुरञ्जनम् । ४७ ॥
असौ वसंतशृंगारो वासंतो मलयानिलः ॥
भवेत्तु सुहृदो भावस्सदा त्वद्वशवर्त्तिनः

2.2.8.49

विष्वोकाद्यास्तथा हावाश्चतुष्षष्टिकलास्तथा ॥
रत्याः कुर्वंतु सौहृद्यं सुहृदस्ते यथा तव

2.2.8.2.2.8.50

एभिस्सहचरैः काम वसंत प्रमुखैर्भवान् ॥
मोहयस्व महादेवं रत्या सह महोद्यतः

2.2.8.51

अहं तां कामिनीं तात भावयिष्यामि यत्नतः ॥
मनसा सुविचार्यैव या हरं मोहयिष्यति

2.2.8.52

ब्रह्मोवाच ॥
एवमुक्तो मया कामः सुरज्येष्ठेन हर्षितः ॥
ननाम चरणौ मेऽपि स पत्नी सहितस्तदा

2.2.8.53

दक्षं प्रणम्य तान् सर्वान्मानसानभिवाद्य च ॥
यत्रात्मा गतवाञ्शंभुस्तत्स्थानं मन्मथो ययौ

2.2.8.8

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीचरित्रे द्वितीये सतीखंडे वसंतस्वरूपवर्णनं नामाष्टमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc