भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.9

2.2.9.1

ब्रह्मोवाच ॥
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे ॥
चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर

2.2.9.2

गत्वा तत्र महावीरो मन्मथो मोहकारकः ॥
स्वप्रभावं ततानाशु मोहयामास प्राणिनः

2.2.9.3

वसंतोपि प्रभावं स्वं चकार हरमोहनम् ॥
सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने

2.2.9.4

विविधान्कृतवान्यत्नान् रत्या सह मनोभवः ॥
जीवास्सर्वे वशं यातास्सगणेशश्शिवो न हि

2.2.9.5

समधोर्मदनस्यासन्प्रयासा निप्फला मुने ॥
जगाम स मम स्थानं निवृत्त्य विमदस्तदा

2.2.9.6

कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा ॥
उवाच मदनो मां चोदासीनो विमदो मुने

2.2.9.7

काम उवाच ॥
ब्रह्मन् शंभुर्मोहनीयो न वै योगपरायणः ॥
न शक्तिर्मम नान्यस्य तस्य शंभोर्हि मोहने

2.2.9.8

समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः ॥
रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे

2.2.9.9

शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने ॥
प्रयासा विविधास्तात गदतस्तान्मुने मम

2.2.9.2.2.9.10

यदा समाधिमाश्रित्य स्थितश्शंभुर्नियंत्रितः ॥
तदा सुगंधिवातेन शीतलेनातिवेगिना

2.2.9.11

उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा ॥
प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम्

2.2.9.12

स्वसायकांस्तथा पंच समादाय शरासनम् ॥
तस्याभितो भ्रमंतस्तु मोहयंस्तद्ग णानहम्

2.2.9.13

मम प्रवेशमात्रेण सुवश्यास्सर्वजंतवः ॥
अभवद्विकृतो नैव शंकरस्सगणः प्रभुः

2.2.9.14

यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः ॥
तत्रागतस्तदैवाहं सरतिस्समधुर्विधे

2.2.9.15

यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् ॥
कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा

2.2.9.16

यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन ॥
तदा तस्य पुरश्चक्रयुगं रचितवानहम् ॥

2.2.9.17

तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः ॥
नानाभावानकार्षीच्च दांपत्यक्रममुत्तमम्

2.2.9.18

नीलकंठं महादेवं सगणं तत्पुरःस्थिताः ॥
अकार्षुमोहितं भावं मृगाश्च पक्षिणस्तथा

2.2.9.19

मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् ॥
विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा

2.2.9.2.2.9.20

नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः ॥
सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने

2.2.9.21

मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने ॥
तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम्

2.2.9.22

चंपकान्केशरान्वालान्कारणान्पाटलांस्तथा ॥
नागकेशरपुन्नागान्किंशुकान्केतकान्करान्

2.2.9.23

मागंधिमल्लिकापर्णभरान्कुरवकांस्तथा ॥
उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः

2.2.9.24

सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ॥
यत्नात्सुगंधीन्यकरोदतीव गिरिशाश्रमे

2.2.9.25

लतास्सर्वास्सुमनसो दधुरंकुरसंचयान् ॥
वृक्षांकं चिरभावेन वेष्टयंति स्म तत्र च

2.2.9.26

तान्वृक्षांश्च सुपुष्पौघान् तैः सुगंधिसमीरणैः ॥
दृष्ट्वा कामवशं याता मुनयोपि परे किमु

2.2.9.27

एवं सत्यपि शंभोर्न दृष्टं मोहस्य कारणम् ॥
भावमात्रमकार्षीन्नो कोपो मय्यपि शंकरः

2.2.9.28

इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ॥
विमुखोहं शंभुमोहान्नियतं ते वदाम्यहम्

2.2.9.29

तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे ॥
शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत्

2.2.9.2.2.9.30

ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम् ॥
शृंगिणं वीक्ष्य कस्स्थातुं ब्रह्मन् शक्नोति तत्पुरः

2.2.9.31

॥ ब्रह्मोवाच ॥
मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः ॥
विवक्षुरपि नावोचं चिंताविष्टोऽभवं तदा

2.2.9.32

मोहनेहं समर्थो न हरस्येति मनोभवः ॥
वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने

2.2.9.33

निश्श्वासमारुता मे हि नाना रूपमहाबलः ॥
जाता गता लोलजिह्वा लोलाश्चातिभयंकराः

2.2.9.34

अवादयंत ते सर्वे नानावाद्यानसंख्यकान् ॥
पटहादिगणास्तांस्तान् विकरालान्महारवान्

2.2.9.35

अथ ते मम निश्श्वाससंभवाश्च महागणाः ॥
मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः

2.2.9.36

तेषां तु वदतांऽ तत्र मारयच्छेदयेति माम् ॥
वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे

2.2.9.37

मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् ॥
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः

2.2.9.38

काम उवाच ॥
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक ॥
उत्पन्नाः क इमे वीरा विकराला भयंकराः

2.2.9.39

किं कर्मैते करिष्यंति कुत्र स्थास्यंति वा विधे ॥
किन्नामधेया एते तद्वद तत्र नियोजय

2.2.9.2.2.9.40

नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च ॥
मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम्

2.2.9.41

ब्रह्मोवाच ॥
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः ॥
तमवोचं ह मदनं तेषां कर्मादिकं दिशन्

2.2.9.42

ब्रह्मोवाच ॥
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः ॥
मुहुर्मुहुरतोमीषां नाम मारेति जायताम्

2.2.9.43

सदैव विघ्नं जंतूनां करिष्यन्ति गणा इमे ॥
विना निजार्चनं काम नाना कामरतात्मनाम्

2.2.9.44

तवानुगमने कर्म मुख्यमेषां मनोभव ॥
सहायिनो भविष्यंति सदा तव न संशयः

2.2.9.45

यत्रयत्र भवान् याता स्वकर्मार्थं यदा यदा ॥
गंता स तत्रतत्रैते सहायार्थं तदातदा

2.2.9.46

चित्तभ्रांतिं करिष्यंति त्वदस्त्रवशवर्तिनाम् ॥
ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यंति सर्वथा

2.2.9.47

ब्रह्मोवाच ॥
इत्याकर्ण्य वचो मे हि सरतिस्समहानुगः ॥
किंचित्प्रसन्नवदनो बभूव मुनिसत्तम

2.2.9.48

श्रुत्वा तेपि गणास्सर्वे मदनं मां च सर्वतः ॥
परिवार्य्य यथाकामं तस्थुस्तत्र निजाकृतिम्

2.2.9.49

अथ ब्रह्मा स्मरं प्रीत्याऽगदन्मे कुरु शासनम् ॥
एभिस्सहैव गच्छ त्वं पुनश्च हरमोहने

2.2.9.2.2.9.50

।
मन आधाय यवाद्धि कुरु मारगणैस्सह ॥
मोहो भवेद्यथा शंभोर्दारग्रहणहेतवे

2.2.9.51

इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः॥
देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम्

2.2.9.52

काम उवाच ॥
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः ॥
तन्मोहो नाभवत्तात न भविष्यति नाधुना

2.2.9.53

तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि ॥
गमिष्यामि पुनस्तत्र सदारोहं त्वदाज्ञया

2.2.9.54

मनो निश्चितमेतद्धि तन्मोहो न भविष्यति ॥
भस्म कुर्यान्न मे देहमिति शंकास्ति मे विधे

2.2.9.55

इत्युक्त्वा समधुः कामस्सरतिस्सभयस्तदा ॥
ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर

2.2.9.56

पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा ॥
बहूपायं स हि मधुर्विविधां बुद्धिमावहन्

2.2.9.57

उपायं स चकाराति तत्र मारगणोऽपि च ॥
मोहोभवन्न वै शंभोरपि कश्चित्परात्मनः

2.2.9.58

निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा ॥
आसीन्मारगणोऽगर्वोऽहर्षो मेपि पुरस्थितः

2.2.9.59

कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः ॥
स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा

2.2.9.2.2.9.60

कृतं पूर्वादधिकतः कर्म तन्मोहने विधे ॥
नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः

2.2.9.61

न दग्धा मे तनुश्चैव तत्र तेन दयालुना ॥
कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः

2.2.9.62

चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज ॥
परोपायं कुरु तदा विगर्व इति मे मतिः

2.2.9.63

ब्रह्मोवाच ॥
इत्युक्त्वा सपरीवारो ययौ कामस्स्वमाश्रमम् ॥
प्रणम्य मां स्मरन् शंभुं गर्वदं दीनवत्सलम्

2.2.9.9

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखंडे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनो नाम नवमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc