भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.7

2.2.7.1

ब्रह्मोवाच ॥
वरं दत्त्वा मुने तस्मिन् शंभावंतर्हिते तदा ॥
संध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः

2.2.7.2

तत्र शंभोः प्रसादेन न केनाप्युपलक्षिता ॥
सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः

2.2.7.3

वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने ॥
उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः

2.2.7.4

तमेव कृत्वा मनसा तपश्चर्योपदेशकम् ॥
पतित्वेन तदा संध्या ब्राह्मणं ब्रह्मचारिणम्

2.2.7.5

समिद्धेग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ॥
दृष्टा शंभुप्रसादेन सा विवेश विधेः सुता

2.2.7.6

तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ॥
दग्धं पुरोडाशगंधं तस्तार यदलक्षितम्

2.2.7.7

वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मंडलम् ॥
शुद्धं प्रवेशयामास शंभोरेवाज्ञया पुनः

2.2.7.8

सूर्यो त्र्यर्थं विभज्याथ तच्छरीरं तदा रथे ॥
स्वकेशं स्थापयामास प्रीतये पितृदेवयोः

2.2.7.11

तदूर्द्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर॥
प्रातस्संध्याभवत्सा तु अहोरात्रादिमध्यगा।९।
तच्छेषभागस्तस्यास्तु अहोरात्रांतमध्यगा ॥
सा सायमभवत्संध्या पितृप्रीतिप्रदा सदा ॥2.2.7.१ ०॥
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ॥
प्रातस्संध्या तदोदेति देवानां प्रीतिकारिणी

2.2.7.12

अस्तं गते ततः सूर्य्ये शोणपद्मनिभे सदा ॥
उदेति सायं संध्यापि पितॄणां मोदकारिणी

2.2.7.13

तस्याः प्राणास्तु मनसा शंभुनाथ दयालुना ॥
दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः

2.2.7.14

मुनेर्यज्ञावसाने तु संप्राप्ते मुनिना तु सा ॥
प्राप्ता पुत्री वह्निमध्ये तप्तकांचनसुप्रभा

2.2.7.15

तां जग्राह तदा पुत्रीं मुनुरामोदसंयुतः ॥
यज्ञार्थं तान्तु संस्नाप्य निजक्रोडे दधौ मुने

2.2.7.16

अरुंधती तु तस्यास्तु नाम चक्रे महामुनिः ॥
शिष्यैः परिवृतस्तत्र महामोदमवाप ह

2.2.7.17

विरुणद्धि यतो धर्मं सा कस्मादपि कारणात् ॥
अतस्त्रिलोके विदितं नाम संप्राप तत्स्वयम्

2.2.7.18

यज्ञं समाप्य स मुनिः कृतकृत्यभावमासाद्य संपदयुतस्तनया प्रलंभात् ॥
तस्मिन्निजाश्रमपदे सह शिष्यवर्गैस्तामेव सततमसौ दयिते सुरर्षे

2.2.7.19

अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे ॥
चन्द्रभागानदीतीरे तापसारण्यसंज्ञके

2.2.7.2.2.7.20

संप्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ॥
तापसारण्यमपि सा पवित्रमकरोत्सती

2.2.7.21

विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै ॥
वसिष्ठेन ह्यरुंधत्या ब्रह्मविष्णुमहेश्वराः

2.2.7.23

तद्विवाहे महोत्साहो वभूव सुखवर्द्धनः॥
सर्वे सुराश्च मुनयस्सुखमापुः परं मुनो।२२॥
ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः ॥
सप्तनद्यस्समुत्पन्नाश्शिप्राद्यास्सुपवित्रकाः

2.2.7.24

अरुंधती महासाध्वी साध्वीनां प्रवरोत्तमा ॥
वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने

2.2.7.25

यस्याः पुत्रास्समुत्पन्नाः श्रेष्ठाश्शक्त्यादयश्शुभाः ॥
वसिष्ठं प्राप्य तं कांतं संरेजे मुनिसत्तमाः

2.2.7.26

एवं संध्याचरित्रं ते कथितं मुनिसत्तम ॥
पवित्रं पावनं दिव्यं सर्वकामफलप्रदम्

2.2.7.27

य इदं शृणुयान्नारी पुरुषो वा शुभव्रतः ॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा

2.2.7.7

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वि- सतीखंडे सप्तमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc