भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.30

2.2.30.1

॥ नारद उवाच ॥
मौनीभूता यदा सासीत्सती शंकरवल्लभा ॥
चरित्रं किमभूत्तत्र विधे तद्वद चादरात्

2.2.30.2

॥ ब्रह्मोवाच ॥
मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात ॥
क्षितावुदीच्यां सहसा निषसाद प्रशांतधीः

2.2.30.3

जलमाचम्य विधिवत् संवृता वाससा शुचिः ॥
दृङ्निमील्य पतिं स्मृत्वा योगमार्गं समाविशत्

2.2.30.4

कृत्वासमानावनिलौ प्राणापानौ सितानना॥
उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः

2.2.30.5

हृदि स्थाप्योरसि धिया स्थितं कंठाद्भ्रुवोस्सती ॥
अनिंदितानयन्मध्यं शंकरप्राणवल्लभा

2.2.30.6

एवं स्वदेहं सहसा दक्षकोपाज्जिहासती ॥
दग्धे गात्रे वायुशुचिर्धारणं योगमार्गतः

2.2.30.7

ततस्स्वभर्तुश्चरणं चिंतयंती न चापरम् ॥
अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः

2.2.30.8

हतकल्मषतद्देहः प्रापतच्च तदग्निना ॥
भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया

2.2.30.9

।
तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा ॥
हाहेति सोद्भुतश्चित्रस्सुरादीनां भयावहः

2.2.30.2.2.30.10

हं प्रिया परा शंभोर्देवी दैवतमस्य हि ॥
अहादसून् सती केन सुदुष्टेन प्रकोपिता

2.2.30.11

अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यत ॥
चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः

2.2.30.12

अहोद्य द्विमनाऽभूत्सा सती देवी मनस्विनी ॥
वृषध्वजप्रियाऽभीक्ष्णं मानयोग्या सतां सदा

2.2.30.13

सोयं दुर्मर्षहृदयो ब्रह्मधृक् स प्रजापतिः ॥
महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे

2.2.30.14

यत्स्वांगजां सुतां शंभुद्विट् न्यषे धत्समुद्यताम् ॥
महानरकभोगी स मृतये नोऽपराधतः

2.2.30.15

वदत्येवं जने सत्या दृष्ट्वाऽसुत्यागमद्भुतम् ॥
द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः

2.2.30.16

द्वारि स्थिता गणास्सर्वे रसायुतमिता रुषा ॥
शंकरस्य प्रभोस्ते वाऽकुध्यन्नतिमहाबलाः

2.2.30.17

हाहाकारमकुर्वंस्ते धिक्धिक् न इति वादिनः ॥
उच्चैस्सर्वेऽसकृद्वीरःश्शंकरस्य गणाधिपाः

2.2.30.18

हाहाकारेण महता व्याप्त मासीद्दिगन्तरम् ॥
सर्वे प्रापन् भयं देवा मुनयोन्येपि ते स्थिताः

2.2.30.19

गणास्संमंत्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः ॥
कुर्वन्तः प्रलयं वाद्यशस्त्रैर्व्याप्तं दिगंतरम्

2.2.30.2.2.30.20

शस्त्रैरघ्नन्निजांगानि केचित्तत्र शुचाकुलाः ॥
शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः

2.2.30.21

इत्थं ते विलयं प्राप्ता दाक्षायण्या समं तदा ॥
गणायुते द्वे च तदा तदद्भुतमिवाभवत् ॥

2.2.30.22

गणा नाशाऽवशिष्टा ये शंकरस्य महात्मनः ॥
दक्षं तं क्रोधितं हन्तुं मुदा तिष्ठन्नुदायुधाः

2.2.30.23

तेषामापततां वेगं निशम्य भगवान् भृगुः ॥
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने

2.2.30.24

हूयमाने च भृगुणा समुत्पेतुर्महासुराः ॥
ऋभवो नाम प्रबलवीरास्तत्र सहस्रशः

2.2.30.25

तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर ॥
अभूद्युद्धं सुविकटं शृण्वतां रोमहर्षणम्

2.2.30.26

ऋभुभिस्तैर्महावीरैर्हन्यमानास्समन्ततः ॥
अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा

2.2.30.27

एवं शिवगणास्ते वै हता विद्राविता द्रुतम् ॥
शिवेच्छया महाशक्त्या तदद्भुतमिवाऽभवत्

2.2.30.28

तद्दृष्ट्वा ऋषयो देवाश्शक्राद्यास्समरुद्गणाः ॥
विश्वेश्विनौ लोकपालास्तूष्णीं भूतास्तदाऽभवन्

2.2.30.29

केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तस्समन्ततः ॥
उद्विग्ना मन्त्रयंतश्च विप्राभावं मुहुर्मुहुः

2.2.30.2.2.30.30

सुविचार्योदर्कफलं महोद्विग्नास्सुबुद्धयः ॥
सुरविष्ण्वादयोभूवन् तन्नाशाद्रावणान्मुहुः

2.2.30.31

एवंभूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः ॥
ब्रह्मबंधोश्च दक्षस्य शंकरद्रोहिणो मुने

2.2.30.30

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने सतीदेहत्यागोपद्रववर्णनं नाम त्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc