शिव पुराण · अध्याय 2.2.31
ब्रह्मोवाच ॥
एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर ॥
अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः
व्योमवाण्युवाच ॥
रे रे दक्ष दुराचार दंभाचारपरायण ॥
किं कृतं ते महामूढ कर्म चानर्थकारकम्
न कृतं शैवराजस्य दधीचेर्वचनस्य हि ॥
प्रमाणं तत्कृते मूढ सर्वानंदकरं शुभम्
निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुस्सहम् ॥
ततोपि बुद्धं किंचिन्नो त्वया मूढेन चेतसि
ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः ॥
समागतायास्सत्याश्च मंगलाया गृहं स्वतः
सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल ॥
ब्रह्मपुत्र इति वृथा गर्वितोसि विमोहितः॥
सा सत्येव सदाराध्या सर्वा पापफलप्रदा ॥
त्रिलोकमाता कल्याणी शंकरार्द्धांगभागिनी
सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी ॥
माहेश्वरी स्वभक्तानां सर्वमंगलदायिनी
सा सत्येवार्चिता नित्यं संसारभयनाशिनी॥
मनोभीष्टप्रदा दैवी सर्वोपद्रवहारिणी
सा सत्येवार्चिता नित्यं कीर्तिसंपत्प्रदायिनी ॥
परमा परमेशानी भुक्तिमुक्तिप्रदायिनी
सा सत्येव जगद्धात्री जगद्रक्षणकारिणी ॥
अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी
सा सत्येव जगन्माता विष्णु माताविलासिनी ॥
ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता
सा सत्येव तपोधर्मदातादिफलदायिनी ॥
शंभुशक्तिर्महादेवी दुष्टहंत्री परात्परा
ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ॥
तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा
शंभुर्हि परमेशानस्सर्वस्वामी परात्परः॥
विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ॥१५।
तप्यते हि तपः सिद्धैरेतद्दर्शनकांक्षिभिः ॥
युज्यते योगिभिर्योगैरेतद्दर्शनकांक्षिभिः
अनंतधनधान्यानां यागादीनां तथैव च ॥
दर्शनं शंकरस्यैव महत्फलमुदाहृतम्
शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः ॥
आदिविद्यावरस्वामी सर्वमंगलमंगलः
तच्छक्तेर्न कृतो यस्मात्सत्करोद्य त्वया खल ॥
अतएवाऽध्वरस्यास्य विनाशो हि भविष्यति
अमंगलं भवत्येव पूजार्हाणामपूजया ॥
पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा
सहस्रेणापि शिरसां शेषो यत्पादजं रजः ॥
वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥
विष्णुविष्णुत्वमापन्नस्तस्य शंभोः प्रिया सती
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥
ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शंभोः प्रिया सती
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥
इन्द्रादयो लोकपालाः प्रापुस्स्वं स्वं परं पदम्
जगत्पिता शिवश्शक्तिर्जगन्माता च सा सती ॥
सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति
दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः ॥
यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ
अनभ्यर्च्य शिवं शंभुं कल्याणं प्राप्नुयामिति ॥
किमस्ति गर्वो दुर्वारस्स गर्वोद्य विनश्यति
सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ॥
करिष्यति सहायं तं न ते पश्यामि सर्वथा
यदि देवाः करिष्यंति साहाय्यमधुना तव ॥
तदा नाशं समाप्स्यंति शलभा इव वह्निना
ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति ॥
सहायास्तव यावंतस्ते ज्वलंत्वद्य सत्वरम्
अमराणां च सर्वेषां शपथोऽमंगलाय ते ॥
करिष्यंत्यद्य साहाय्यं यदेतस्य दुरात्मनः
निर्गच्छंत्वमरास्स्वोकमेतदध्वरमंडपात् ॥
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा
निर्गच्छंत्वपरे सर्वे मुनिनागादयो मखात् ॥
अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा
निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमंडपात् ॥
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा
निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमंडपात् ॥
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा
ब्रह्मोवाच ॥
इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ॥
व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी
तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयस्सुराः ॥
अकार्षुर्विस्मयं तात मुनयश्च तथा परे
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0