भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.29

2.2.29.1

ब्रह्मोवाच ॥
दाक्षायणी गता तत्र तत्र यज्ञो महाप्रभः ॥
सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः

2.2.29.2

स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम् ॥
ददर्श सुप्रभं चारु सुरर्षिगण संयुतम्

2.2.29.3

द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात् ॥
नन्दिनोऽभ्यंतरं शीघ्रमेकैवागच्छदध्वरम्

2.2.29.4

आगतां च सतीं दृष्ट्वाऽसिक्नी माता यशस्विनी ॥
अकरोदादरं तस्या भगिन्यश्च यथोचितम्

2.2.29.5

नाकरोदादरं दक्षो दृष्ट्वा तामपि किंचन ॥
नान्योपि तद्भयात्तत्र शिवमायाविमोहितः

2.2.29.6

अथ सा मातरं देवी पितरं च सती मुने ॥
अनमद्विस्मितात्यंतं सर्वलोक पराभवात्

2.2.29.7

भागानपश्यद्देवानां हर्यादीनां तदध्वरे ॥
न शंभुभागमकरोत् क्रोधं दुर्विषहं सती

2.2.29.8

सत्युवाच ॥
तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम् ॥
क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता

2.2.29.9

सत्युवाच ॥
अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः ॥
येन पूतमिदं विश्वं समग्रं सचराचरम्

2.2.29.2.2.29.10

यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ॥
यज्ञकर्ता च यश्शंभुस्तं विना च कथं मखः

2.2.29.11

यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ॥
विना तेन कृतं सर्वमपवित्रं भविष्यति

2.2.29.12

द्रव्यमंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ॥
शंभुना हि विना तेन कथं यज्ञः प्रवर्तितः

2.2.29.13

किं शिवं सुरसामान्यं मत्याकार्षीरनादरम् ॥
भ्रष्टबुद्धिर्भवानद्य जातोसि जनकाधम

2.2.29.14

विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम् ॥
प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम्

2.2.29.15

एते कथं समायाता विष्णुब्रह्मादयस्सुराः ॥
तव यज्ञे विना शंभुं स्वप्रभुं मुनयस्तथा

2.2.29.16

॥ ब्रह्मोवाच ॥
इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति ॥
पृथक्पृथगवोचत्सा भर्त्सयंती भवात्मिका

2.2.29.17

सत्युवाच ॥
हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः ॥
सगुणं निर्गुणं चापि श्रुतयो यं वदंति ह

2.2.29.18

यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः ॥
अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे

2.2.29.19

तदपि ज्ञानमायातं न ते चेतसि दुर्मते ॥
भागार्थी दक्षयज्ञेस्मिन् शिवं स्वस्वामिनं विना

2.2.29.2.2.29.20

पुरा पंचमुखो भूत्वा गर्वितोऽसि सदाशिवम् ॥
कृतश्चतुर्मुखस्तेन विस्मृतोसि तदद्भुतम्

2.2.29.21

इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम् ॥
भस्मी कृतः पविस्ते हि हरेण क्रूरकर्मणा

2.2.29.22

हे सुराः किन्न जानीथ महादेवस्य विक्रमम् ॥
अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह

2.2.29.23

भिक्षाटनं च कृतवान् पुरा दारुवने विभुः ॥
शप्तो यद्भिक्षुको रुद्रो भवद्भिर्मुनिभिस्तदा

2.2.29.24

शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम् ॥
तल्लिंगेनाखिलं दग्धं भुवनं सचराचरम्

2.2.29.25

सर्वे मूढाश्च संजाता विष्णुब्रह्मादयस्सुराः ॥
मुनयोऽन्ये विना शंभुमागता यदिहाध्वरे

2.2.29.26

सर्वे वेदाश्च संभूताः सांगाश्शास्त्राणि वाग्यतः ॥
योसौ वेदांतगश्शम्भुः कैश्चिज्ज्ञातुं न पार्यते

2.2.29.27

॥ ब्रह्मोवाच ॥
इत्यनेकविधा वाणीरगदज्जगदम्बिका ॥
कोपान्विता सती तत्र हृदयेन विदूयता

2.2.29.28

विष्ण्वादयोखिला देवा मुनयो ये च तद्वचः ॥
मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः

2.2.29.29

अथ दक्षस्समाकर्ण्य स्वपुत्र्यास्तादृशं वचः॥
विलोक्य क्रूरदृष्ट्या तां सतीं कुद्धोऽब्रवीद्वचः

2.2.29.2.2.29.30

दक्ष उवाच ॥
तव किं बहुनोक्तेन कार्यं नास्तीह सांप्रतम् ॥
गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता

2.2.29.31

अमंगलस्तु ते भर्ता शिवोसौ गम्यते बुधैः ॥
अकुलीको वेदबाह्यो भूतप्रेतपिशाचराट्

2.2.29.32

तस्मान्नाह्वारितो रुद्रो यज्ञार्थं सुकुवेषभृत् ॥
देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता

2.2.29.33

विधिना प्रेरितेन त्वं दत्ता मंदेन पापिना॥
रुद्रायाविदितार्थाय चोद्धताय दुरात्मने

2.2.29.34

तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते ॥
यद्यागतासि यज्ञेस्मिन् दायं गृह्णीष्व चात्मना

2.2.29.35

ब्रह्मोवाच॥
दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपू जिता ॥
निंदायुक्तं स्वपितरं दृष्ट्वासीद्रुषिता भृशम्

2.2.29.36

अर्चितयत्तदा सेति कथं यास्यामि शंकरम् ॥
शंकरं द्रष्टुकामाहं पृष्टा वक्ष्ये किमुत्तरम्

2.2.29.37

अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम् ॥
निश्श्वसंती रुषाविष्टा सा सती त्रिजगत्प्रसूः

2.2.29.38

सत्युवाच ॥
यो निंदति महादेवं निंद्यमानं शृणोति वा ॥
तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ

2.2.29.39

तस्मात्त्यक्ष्याम्यहं देवं प्रवेक्ष्यामि हुताशनम् ॥
किं जीवितेन मे तात शृण्वंत्यानादरं प्रभोः

2.2.29.2.2.29.40

यदि शक्तस्स्वयं शंभोर्निंदकस्य विशेषतः ॥
छिंद्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः

2.2.29.41

यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै ॥
कर्णौ धीमान् ततश्शुद्ध्येद्वदंतीदं बुधान्वरान्

2.2.29.42

ब्रह्मोवाच ॥
इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा ॥
अस्मरच्छांकरं वाक्यं दूयमानेन चेतसा

2.2.29.43

ततस्संकुद्ध्य सा दक्षं निश्शंकं प्राह तानपि ॥
सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम्

2.2.29.44

सत्युवाच ॥
तात त्वं निंदकश्शंभोः पश्चात्तापं गमिष्यसि ॥
इह भुक्त्वा महादुःखमंते यास्यसि यातनाम्

2.2.29.45

यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः ॥
तस्मिन्नवैरे शर्वेस्मिन् त्वां विना कः प्रतीपकः

2.2.29.46

महद्विनिंदा नाश्चर्यं सर्वदाऽसत्सु सेर्ष्यकम् ॥
महदंघ्रिरजो ध्वस्ततमस्सु सैव शोभना

2.2.29.47

शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम् ॥
सकृत्प्रसंगात्सकलमघमाशु विहंति तत्

2.2.29.48

पवित्रकीर्तितमलं भवान् द्वेष्टि शिवेतरः ॥
अलंघ्यशासनं शंभुमहो सर्वेश्वरं खलः

2.2.29.49

यत्पादपद्मं महतां मनोऽलिसुनिषेवितम् ॥
सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात्

2.2.29.2.2.29.50

यद्वर्षत्यर्थिनश्शीघ्रं लोकस्य शिवआदरात् ॥
भवान् द्रुह्यति मूर्खत्वात्तस्मै चाशेषबंधवे

2.2.29.51

किंवा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः ॥
ब्रह्मादयस्तं मुनयस्सनकाद्यास्तथापरे

2.2.29.52

अवकीर्य जटाभूतैश्श्मशाने स कपालधृक् ॥
तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः

2.2.29.53

ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमाराद् ॥
निर्माल्यं मुनयो देवास्स शिवः परमेश्वरः

2.2.29.54

प्रवृत्तं च निवृत्तं च द्विविधं कर्मचोदि तम् ॥
वेदे विविच्य वृत्तं च तद्विचार्यं मनीषिभिः

2.2.29.55

विरोधियौगपद्यैककर्तृके च तथा द्वयम् ॥
परब्रह्मणि शंभो तु कर्मर्च्छंति न किंचन

2.2.29.56

मा वः पदव्यस्स्म पितर्या अस्मदास्थितास्सदा ॥
यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम्

2.2.29.57

नोऽव्यक्तलिंगस्सततमवधूतसुसेवितः॥
अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक्

2.2.29.58

किंबहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः।
त्वदुद्भवेन देहेन न मे किंचित्प्रयोजनम्

2.2.29.59

तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः ॥
परित्याज्यो विशेषेण तत्संबंधो विपश्चिता

2.2.29.2.2.29.60

गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः ॥
दाक्षायणीति सहसाहं भवामि सुदुर्मनाः

2.2.29.61

तस्मात्त्वदंगजं देहं कुणपं गर्हितं सदा ॥
व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा

2.2.29.62

हे सुरा मुनयस्सर्वे यूयं शृणुत मद्वचः ॥
सर्वथानुचितं कर्म युष्माकं दुष्टचेतसाम्

2.2.29.63

सर्वे यूयं विमूढा हि शिवनिंदाः कलिप्रियाः ॥
प्राप्स्यंति दण्डं नियतमखिलं च हराद्ध्रुवम्

2.2.29.64

॥ ब्रह्मोवाच ॥
दक्षमुक्त्वाध्वरे तांश्च व्यरमत्सा सती तदा ॥
अनूद्य चेतसा शम्भुमस्मरत्प्राणवल्लभम्

2.2.29.29

इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc