भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.28

2.2.28.1

॥ ब्रह्मोवाच ॥
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ॥
तस्मिन्नैवांतरे देवो पर्वते गंधमादने

2.2.28.2

धारागृहे वितानेन सखीभिः परिवारिता ॥
दाक्षायणी महाक्रीडाश्चकार विविधास्सती

2.2.28.3

क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती॥
दक्षयज्ञे प्रयांतं च रोहिण्या पृच्छ्य सत्वरम्

2.2.28.4

दृष्ट्वा सीमंतया भूतां विजयां प्राह सा सती ॥
स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ॥

2.2.28.5

॥ सत्युवाच ॥
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ॥
क्व गमिष्यति चन्द्रोयं रोहिण्यापृच्छ्य सत्वरम्

2.2.28.6

ब्रह्मोवाच ॥
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम्॥
क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम्

2.2.28.7

विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ॥
कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम्

2.2.28.8

तच्छ्रुत्वा विजया देवीं त्वरिता जातसंभ्रमा॥
कथयामास तत्सर्वं यदुक्तं शशिना सतीम्

2.2.28.9

तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा॥
विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिंतयत्

2.2.28.2.2.28.10

दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ॥
आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम्

2.2.28.11

पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् ॥
चिंतयित्वेति सासीद्वै तत्र गंतुं सुनिश्चया

2.2.28.12

अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ॥
स्थापयित्वा द्रुतं तत्र समगच्छच्छिवांतिकम्

2.2.28.13

ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ॥
नंद्यादिभिर्महावीरैः प्रवरैर्यूथयूथपै

2.2.28.14

दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ॥
प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम्

2.2.28.15

शिवेन स्थापिता स्वांके प्रीतियुक्तेन स्वप्रिया ॥
प्रमोदिता वचोभिस्सा बहुमानपुरस्सरम्

2.2.28.16

अथ शंभुर्महालीलस्सर्वेशस्सुखदस्सताम् ॥
सतीमुवाच त्वरितं गणमध्यस्थ आदरात्

2.2.28.17

शंभुरुवाच ॥
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ॥
कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे

2.2.28.18

ब्रह्मोवाच ॥
एवमुक्ता तदा तेन महेशेन मुनीश्वर ॥
सांजलिस्सुप्रणम्याशु सत्युवाच प्रभुं शिवा

2.2.28.19

सत्युवाच ॥
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ॥
तत्रोत्सवो महानस्ति समवेतास्सुरर्षयः

2.2.28.2.2.28.20

पितुर्मम महायज्ञे कस्मात्तव न रोचते ॥
गमनं देवदेवेश तत्सर्वं कथय प्रभो

2.2.28.21

सुहृदामेष वै धर्मस्सुहृद्भिस्सह संगतिः ॥
कुर्वंति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम्

2.2.28.22

तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो ॥
यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम

2.2.28.23

ब्रह्मोवाच ॥
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ॥
दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः

2.2.28.24

महेश्वर उवाच ॥
दक्षस्तव पिता देवी मम द्रोही विशेषतः

2.2.28.25

यस्य ये मानिनस्सर्वे ससुरर्षिमुखाः परे ॥
ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः

2.2.28.26

अनाहूताश्च ये देवी गच्छंति परमंदिरम् ॥
अवमानं प्राप्नुवंति मरणादधिकं तथा

2.2.28.27

परालयं गतोपींद्रो लघुर्भवति तद्विधः ॥
का कथा च परेषां वै रीढा यात्रा हि तद्विधा

2.2.28.28

तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ॥
न गंतव्यं विशेषेण सत्यमुक्तं मया प्रियं

2.2.28.29

तथारिभिर्न व्यथते ह्यर्दितोपि शरैर्जनः ॥
स्वानांदुरुक्तिभिर्मर्मताडितस्स यथा मतः

2.2.28.2.2.28.30

विद्यादिभिर्गुणैः षड्भिरसदन्यैस्सतां स्मृतौ ॥
हतायां भूयसां धाम न पश्यंति खलाः प्रिये

2.2.28.31

ब्रह्मोवाच ॥
एवमुक्ता सती तेन महेशेन महात्मना ॥
उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम्

2.2.28.32

सत्युवाच ॥
यज्ञस्स्यात्सफलो येन स त्वं शंभोखिलेश्वर ॥
अनाहूतोसि तेनाद्य पित्रा मे दुष्टकारिणा

2.2.28.33

तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ॥
सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम्

2.2.28.34

तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ॥
अनुज्ञां देहि मे नाथ तत्र गंतुं महेश्वर

2.2.28.35

॥ ब्रह्मोवाच ॥
इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवस्स्वयम् ॥
विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत्

2.2.28.36

॥ शिव उवाच ॥
यद्येवं ते रुचिर्देवि तत्र गंतुमवश्यकम् ॥
सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम्

2.2.28.37

एतं नंदिनमारुह्य वृषभं सज्जमादरात् ॥
महाराजोपचाराणि कृत्वा बहुगुणान्विता

2.2.28.38

भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ॥
सुभूषिता सती युक्ता ह्यगमत्पितुमंदिरम्

2.2.28.39

महाराजोपचाराणि दत्तानि परमात्मना ॥
सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च

2.2.28.2.2.28.40

गणाः षष्टिसहस्राणि रौद्रा जग्मुश्शिवाज्ञया ॥
कुतूहलयुताः प्रीता महोत्सवसमन्विताः

2.2.28.41

तदोत्सवो महानासीद्यजने तत्र सर्वतः ॥
सत्याश्शिवप्रियायास्तु वामदेवगणैः कृतः

2.2.28.42

कुतूहलं गणाश्चक्रुश्शिवयोर्यश उज्जगुः ॥
बालांतः पुप्लुवुः प्रीत्या महावीराश्शिवप्रियाः

2.2.28.43

सर्वथासीन्महाशोभा गमने जागदम्बिके ॥
सुखारावस्संबभूव पूरितं भुवनत्रयम्

2.2.28.28

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीयात्रावर्णनं नामाष्टविंशोध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc