भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.13

2.2.13.1

नारद उवाच ॥
ब्रह्मन्विधे महा प्राज्ञ वद नो वदतां वर ॥
दक्षे गृहं गते प्रीत्या किमभूत्तदनंतरम्

2.2.13.2

ब्रह्मोवाच ॥
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ॥
सर्गं चकार बहुधा मानसं मम चाज्ञया

2.2.13.3

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ॥
दक्षो निवेदयामास ब्रह्मणे जनकाय मे

2.2.13.4

दक्ष उवाच ॥
ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो ॥
मया विरचितास्सर्वास्तावत्यो हि स्थिताः खलु

2.2.13.5

किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना ॥
तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः

2.2.13.6

ब्रह्मोवाच ॥
दक्ष प्रजापते तात शृणु मे परमं वचः ॥
तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति

2.2.13.7

या च पञ्चजनस्यांग सुता रम्या प्रजापतेः ॥
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम्

2.2.13.8

वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ॥
तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि

2.2.13.9

ब्रह्मोवाच ॥
ततस्समुत्पादयितुं प्रजा मैथुनधर्मतः ॥
उपयेमे वीरणस्य निदेशान्मे सुतां ततः

2.2.13.2.2.13.10

अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ॥
हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत्

2.2.13.11

अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ॥
पितृभक्तिरता नित्यं वेदमार्गपरायणाः

2.2.13.12

पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ॥
प्रतीचीं तपसे तात सर्वे दाक्षायणास्सुताः

2.2.13.13

तत्र नारायणसरस्तीर्थं परमपावनम्॥
गमो यत्र संजातो दिव्यसिन्धुसमुद्रयोः

2.2.13.14

तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन् ॥
धर्मे पारमहंसे च विनिर्द्धूतमलाशयाः

2.2.13.15

प्रजाविवृद्धये ते वै तेपिर तत्र सत्तमाः ॥
दाक्षायणा दृढात्मानः पित्रादेश सुयंत्रिताः

2.2.13.16

त्वं च तान् नारद ज्ञात्वा तपतस्सृष्टि हेतवे ॥
अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः

2.2.13.17

अदृष्ट्वा तं भुवस्सृष्टि कथं कर्तुं समुद्यताः ॥
हर्यश्वा दक्षतनया इत्यवोचस्तमादरात्

2.2.13.18

ब्रह्मोवाच ॥
तन्निशम्याथ हर्यश्वास्ते त्वदुक्तमतंद्रिताः ॥
औत्पत्तिकधियस्सर्वे स्वयं विममृशुर्भृशम्

2.2.13.19

सुशास्त्रजनकादेशं यो न वेद निवर्तकम्॥
स कथं गुणविश्रंभी कर्तुं सर्गमुपक्रमेत्

2.2.13.2.2.13.20

इति निश्चित्य ते पुत्रास्सुधियश्चैकचेतसः ॥
प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम्

2.2.13.21

नारद त्वं मनश्शंभोर्लोंकानन्यचरो मुने ॥
निर्विकारो महेशानमनोवृत्तिकरस्तदा

2.2.13.22

काले गते बहुतरे मम पुत्रः प्रजापतिः ॥
नाशं निशम्य पुत्राणां नारदादन्वतप्यत

2.2.13.23

मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम् ॥
शुशोच बहुशो दक्षश्शिवमायाविमोहितः

2.2.13.24

अहमागत्य सुप्रीत्या सांत्वयं दक्षमात्मजम् ॥
शांतिभावं प्रदर्श्यैव देवं प्रबलमित्युत

2.2.13.25

अथ दक्षः पंचजन्या मया स परिसांत्वितः ॥
सबलाश्वाभिधान् पुत्रान् सहस्रं चाप्यजीजनत्

2.2.13.26

तेपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ॥
प्रजासर्गे अत्र सिद्धास्स्वपूर्वभ्रातरो ययुः

2.2.13.27

तदुपस्पर्शनादेव नष्टाघा विमलाशयाः ॥
तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ॥

2.2.13.28

प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद ॥
पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम्

2.2.13.29

भ्रातृपंथानमादिश्य त्वं मुने मोघदर्शनः ॥
अयाश्चोर्द्ध्वगतिं तेऽपि भ्रातृमार्गं ययुस्सुताः

2.2.13.2.2.13.30

उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः ॥
विस्मितोभूत्स मे पुत्रो दक्षो मनसि दुःखितः

2.2.13.31

पूर्ववत्त्वत्कृतं दक्षश्शुश्राव चकितो भृशम् ॥
पुत्रनाशं शुशोचाति पुत्रशोक विमूर्छितः

2.2.13.32

चुक्रोध तुभ्यं दक्षोसौ दुष्टोयमिति चाब्रवीत् ॥
आगतस्तत्र दैवात्त्वमनुग्रहकरस्तदा

2.2.13.33

शोकाविष्टस्स दक्षो हि रोषविस्फुरिताधरः ॥
उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन्

2.2.13.34

दक्ष उवाच ॥
किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिंगतः ॥
भिक्षोमार्गोऽर्भकानां वै दर्शितस्साधुकारि नो

2.2.13.35

ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः ॥
विघातश्श्रेयसोऽमीषां निर्दयेन शठेन ते

2.2.13.36

ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान्॥
मातरं पितरं त्यक्त्वा मोक्षमिच्छन्व्रजत्यधः

2.2.13.37

निर्दयस्त्वं सुनिर्लज्जश्शिशुधीभिद्यशोऽपहा॥
हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः

2.2.13.38

मुहुर्मुहुरभद्रं त्वमचरो मेऽधमा ऽधम ॥
विभवेद्भ्रमतस्तेऽतः पदं लोकेषु स्थिरम्

2.2.13.39

शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम्॥
बुबोध नेश्वरेच्छां स शिवमायाविमोहितः

2.2.13.2.2.13.40

शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः ॥
एष एव ब्रह्मसाधो सहते सोपि च स्वयम्

2.2.13.13

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वि० सतीखंडे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc