भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.14

2.2.14.1

ब्रह्मोवाच ॥ ॥
एतस्मिन्नन्तरे देवमुने लोकपितामह ॥
तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम्

2.2.14.2

असांत्वयमहं दक्षं पूर्ववत्सुविचक्षणः ॥
अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन्

2.2.14.3

स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम्॥
समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह

2.2.14.4

ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ॥
जनयामास दुहितॄस्सुभगाः षष्टिसंमिताः

2.2.14.5

तासां विवाहकृतवान्धर्मादिभिरतंद्रितः ॥
तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर

2.2.14.6

ददौ दश सुता दक्षो धर्माय विधिवन्मुने ॥
त्रयोदश कश्यपाय मुनये त्रिनवेंदवे

2.2.14.7

भूतांगिरः कृशाश्वेभ्यो द्वेद्वे पुत्री प्रदत्तवान् ॥
तार्क्ष्याय चापरः कन्या प्रसूतिप्रसवैर्यतः

2.2.14.8

त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात्

2.2.14.9

केचिद्वदंति तां ज्येष्ठां मध्यमां चापरे शिवाम् ॥
सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत

2.2.14.2.2.14.10

अनंतरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ॥
दक्षो दधौ सुप्रीत्मा तां मनसा जगदम्बिकाम्

2.2.14.11

अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ॥
भूयोभूयो नमस्कृत्य सांजलिर्विनयान्वितः

2.2.14.12

सन्तुष्टा सा तदा देवी विचारं मनसीति च ॥
चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये

2.2.14.13

अथ सोवास मनसि दक्षस्य जगदम्बिका ॥
विललास तदातीव स दक्षो मुनिसत्तम

2.2.14.14

सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा ॥
दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता

2.2.14.15

आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै

2.2.14.15

विरेजे वीरिणी तात हृष्टचित्ताधिका च सा ॥
शिवावासप्रभावात्तु महामंगल रूपिणी

2.2.14.17

कुलस्य संपदश्चैव श्रुतेश्चित्तसमुन्नतेः ॥
व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः

2.2.14.18

उत्सवोतीव संजातस्तदा तेषु च कर्मसु ॥
वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः

2.2.14.19

अथ तस्मिन्नवसरे सर्वे हर्यादयस्सुराः ॥
ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः

2.2.14.2.2.14.20

तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ॥
लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः

2.2.14.21

कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ॥
दक्षप्रजापतेश्चैव वीरिण्यास्स्वगृहं ययुः

2.2.14.22

गतेषु नवमासेषु कारयित्वा च लौकिकीम् ॥
गतिं शिवा च पूर्णे सा दशमे मासि नारद

2.2.14.23

आविर्बभूव पुरतो मातुस्सद्यस्तदा मुने॥
मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके

2.2.14.24

तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ॥
सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम्

2.2.14.25

तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ॥
दिशश्शांता द्रुतं तस्यां जातायां च मुनीश्वर

2.2.14.26

अवादयंत त्रिदशाश्शुभवाद्यानि खे गताः॥
जज्ज्वलुश्चाग्नयश्शांताः सर्वमासीत्सुमंगलम्

2.2.14.27

वीरिणोसंभवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् ॥
नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः

2.2.14.28

दक्ष उवाच ॥
महेशानि नमस्तुभ्यं जगदम्बे सनातनि ॥
कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि

2.2.14.29

शिवा शांता महामाया योगनिद्रा जगन्मयी॥
या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम्

2.2.14.2.2.14.30

यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ॥
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम्

2.2.14.31

यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ॥
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम्

2.2.14.32

यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत्॥
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम्

2.2.14.33

रजस्सत्त्वतमोरूपां सर्वकार्यकरीं सदा ॥
त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम्

2.2.14.34

यस्त्वां विचिंतयेद्देवीं विद्याविद्यात्मिकां पराम् ॥
तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता

2.2.14.35

।
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ॥
तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका

2.2.14.36

।
ये स्तुवंति जगन्मातर्भवानीमंबिकेति च ॥
जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति

2.2.14.37

ब्रह्मोवाच ॥
इति स्तुता जगन्माता शिवा दक्षेण धीमता ॥
तथोवाच तदा दक्षं यथा माता शृणोति न

2.2.14.38

सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् ॥
नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी

2.2.14.39

देव्युवाच ॥
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ॥
ईप्सितं तव सिद्धं तु तपो धारय संप्रति

2.2.14.2.2.14.40

ब्रह्मोवाच ॥
एवमुक्त्वा तदा देवी दक्षं च निजमायया ॥
आस्थाय शैशवं भावं जनन्यंते रुरोद सा

2.2.14.41

अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससंभ्रमाः॥
आगतास्तत्र सुप्रीत्या दास्योपि च ससंभ्रमाः

2.2.14.42

दृष्ट्वासिक्नीसुतारूपं ननन्दुस्सर्वयोषितः ॥
सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा

2.2.14.43

उत्सवश्च महानासीद्गानवाद्यपुरस्सरम् ॥
दक्षोसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम्

2.2.14.44

दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ॥
दानं ददौ द्विजातिभ्योन्येभ्यश्च द्रविणं तथा

2.2.14.45

बभूव सर्वतो गानं नर्तनं च यथोचितम् ॥
नेदुर्वाद्यानि बहुशस्सुमंगलपुरस्सरम्

2.2.14.46

अथ हर्यादयो देवास्सर्वे सानुचरास्तदा ॥
मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि

2.2.14.47

दृष्ट्वा दक्षसुतामंबां जगतः परमेश्वरीम् ॥
नेमुः सविनयास्सर्वे तुष्टुवुश्च शुभैस्तवैः

2.2.14.48

ऊचुस्सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ॥
प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः

2.2.14.49

तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ॥
प्रशस्तायास्सर्वगुणसत्त्वादपि मुदान्वितः

2.2.14.2.2.14.50

नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ॥
महामंगलदान्येव दुःखघ्नानि विशेषतः

2.2.14.51

दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ॥
मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः

2.2.14.52

अथ विष्ण्वादयस्सर्वे सुप्रशस्याजनंदनम् ॥
प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम्

2.2.14.53

अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ॥
शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ

2.2.14.54

पालिता साथ वीरिण्या दक्षेण च महात्मना ॥
ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम्

2.2.14.55

तस्यां तु सद्गुणास्सर्वे विविशुर्द्विजसत्तम ॥
शैशवेपि यथा चन्द्रे कलास्सर्वा मनोहराः

2.2.14.56

आचरन्निजभावेन सखीमध्यगता यदा ॥
तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः

2.2.14.57

यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ॥
तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम्

2.2.14.58

ववृधेतीव दंपत्योः प्रत्यहं करुणातुला ॥
तस्या बाल्येपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः

2.2.14.59

सर्वबालागुणा क्रांतां सदा स्वालयकारिणीम्॥
तोषयामास पितरौ नित्यंनित्यं मुहुर्मुहुः

2.2.14.14

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सती खण्डे सतीजन्म बाललीलावर्णनंनाम चतुर्दशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc