शिव पुराण · अध्याय 2.2.12
नारद उवाच ॥
ब्रह्मन् शंभुवर प्राज्ञ सम्यगुक्तं त्वयानघ ॥
शिवाशिवचरित्रं च पावितं जन्म मे हितम्
इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः ॥
कं वरं प्राप देव्यास्तु कथं सा दक्षजाऽभवत्
ब्रह्मोवाच ॥
शृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोखिलैः ॥
यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः
मदाज्ञप्तस्सुधीर्दक्षस्समाधाय महाधिपः ॥
अपाद्यष्टुं च तां देवीं तत्कामो जगदंबिकाम्
क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् ॥
तपस्तप्तुं समारेभे द्रुष्टुं प्रत्यक्षतोम्बिकाम्
दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः ॥
तपश्चचार नियतस्सं यतात्मा दृढव्रतः ॥
मारुताशी निराहारो जलाहारी च पर्णभुक् ॥
एवं निनाय तं कालं चिंतयन्तां जगन्मयीम्
दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः ॥
नियमैर्बहुभिर्देवीमाराधयति सुव्रतः
ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम ॥
जगदम्बा पूजयतः प्रत्यक्षमभवच्छिवा
ततः प्रत्यक्षतो दृष्ट्वा जगदम्बां जगन्मयीम् ॥
कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः
सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् ॥
वरदाभयनीलाब्जखड्गहस्तां मनोहराम्
आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् ।
तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम्
दक्ष उवाच ॥
जगदेव महामाये जगदीशे महेश्वरि ॥
कृपां कृत्वा नमस्तेस्तु दर्शितं स्ववपुर्मम
प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणम् ॥
प्रसीद भक्तवरदे जगन्माये नमोस्तु ते
ब्रह्मोवाच ॥
इति स्तुता महेशानी दक्षेण प्रयतात्मना ॥
उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं मुने
देव्युवाच ॥
तुष्टाहं दक्ष भवतस्सद्भक्त्या ह्यनया भृशम् ॥
वरं वृणीष्व स्वाभीष्टं नादेयं विद्यते तव
ब्रह्मोवाच ॥
जगदम्बावचश्श्रुत्वा ततो दक्षः प्रजापतिः ॥
सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम्
दक्ष उवाच॥
जगदम्बा महामाये यदि त्वं वरदा मम॥
मद्वचः शृणु सुप्रीत्या मम कामं प्रपूरय
मम स्वामी शिवो यो हि स जातो ब्रह्मणस्तुतः ॥
रुद्रनामा पूर्णरूपावतारः परमात्मनः
तवावतारो नो जातः का तत्पत्नी भवेदतः ॥
तं मोहय महेशानमवतीर्य क्षितौ शिवे
त्वदृते तस्य मोहाय न शक्तान्या कदाचन ॥
तस्मान्मम सुता भूत्वा हरजायाभवाऽधुना
इत्थं कृत्वा सुलीला च भव त्वं हर मोहिनी ॥
ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः
केवलं स्वार्थमिति च सर्वेषां जगतामपि ॥
ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम्
ब्रह्मोवाच ॥
इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका ॥
प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम्
देव्युवाच॥
तात प्रजापते दक्ष शृणु मे परमं वचः॥
सत्यं ब्रवीमि त्वद्भक्त्या सुप्रसन्नाखिलप्रदा
अहं तव सुता दक्ष त्वज्जायायां महेश्वरी॥
भविष्यामि न संदेहस्त्वद्भक्तिवशवर्तिनी
तथा यत्नं करिष्यामि तपः कृत्वा सुदुस्सहम् ॥
हरजाया भविष्यामि तद्वरं प्राप्य चानघ
नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः ॥
विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः
अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि ॥
मम स्वामी स वै शंभुर्नानारूपधरोपि ह
वरप्रभावाद्भ्रुकुटेरवतीर्णो विधेस्म च ॥
अहं तद्वरतोपीहावतरिष्ये तदाज्ञया
गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका ॥
हरजाया भविष्यामि भूता ते तनयाचिरात्
इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि ॥
पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम्
परन्तु पण आधेयो मनसा ते प्रजापते ॥
श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा
यदा भवान् मयि पुनर्भवेन्मंदादरस्तपा ॥
देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथ वेतरम्
एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ॥
अहं तव सुता भूत्वा भविष्यामि हरप्रिया
ब्रह्मोवाच ॥ एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ॥
अंतर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः
अंतर्हितायां दुर्गायां स दक्षोपि निजाश्रमम् ॥
जगाम च मुदं लेभे भविष्यति सुतेति सा
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षवरप्राप्तिवर्णनो नाम द्वादशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0