भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.6

2.1.6.1

॥ब्रह्मोवाच॥
भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ॥
लोकोपकारिणा नित्यं लोकानां हितकाम्यया

2.1.6.2

यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ॥
तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम्

2.1.6.3

शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ॥
ज्ञातश्च परमं रूपमद्भुतं च परेण न

2.1.6.4

महाप्रलयकाले च नष्टे स्थावरजंगमे ॥
आसीत्तमोमयं सर्वमनर्कग्रहतारकम्

2.1.6.2

अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ॥
अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम्

2.1.6.6

अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ॥
अव्यक्तगंधरूपं च रसत्यक्तमदिङ्मुखम्

2.1.6.7

इत्थं सत्यंधतमसे सूचीभेद्यं निरंतरे ॥
तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते

2.1.6.8

इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ॥
योगिनोंतर्हिताकाशे यत्पश्यंति निरंतरम्

2.1.6.9

अमनोगोचरम्वाचां विषयन्न कदाचन ॥
अनामरूपवर्णं च न च स्थूलं न यत्कृशम्

2.1.6.2.1.6.10

अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ॥
न यत्रोपचयः कश्चित्तथा नापचयोऽपि च

2.1.6.12

अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ॥
सत्यं ज्ञानमनंतं च परानंदम्परम्महः ॥ १ १॥
अप्रमेयमनाधारमविकारमनाकृति ॥
निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम्

2.1.6.13

निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ॥
अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम्

2.1.6.14

यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै ॥
कियता चैव कालेन द्वितीयेच्छाऽभवत्किल

2.1.6.15

अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ॥
सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा

2.1.6.16

सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ॥
सर्वेकवंद्या सर्वाद्या सर्वदा सर्वसंस्कृतिः

2.1.6.17

परिकल्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ॥
अद्वितीयमनाद्यंतं सर्वाभासं चिदात्मकम् ॥
अंतर्दधे पराख्यं यद्ब्रह्म सर्वगमव्ययम्

2.1.6.18

अमूर्ते यत्पराख्यं वै तस्य मूर्तिस्सदाशिवः ॥
अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥

2.1.6.19

शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ॥
स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी

2.1.6.2.1.6.20

प्रधानं प्रकृति तां च मायां गुणवतीं पराम् ॥
बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम्

2.1.6.21

सा शक्तिरम्बिका प्रोक्ता प्रकृतिस्सकलेश्वरी॥
त्रिदेवजननी नित्या मूलकारणमित्युत

2.1.6.22

अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा ॥
राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः

2.1.6.23

नानाभरणसंयुक्ता नानागतिसमन्विता ॥
नानायुधधरा देवी फुल्लपंकजलोचना

2.1.6.24

अचिंत्यतेजसा युक्ता सर्वयोनिस्समुद्यता ॥
एकाकिनी यदा माया संयोगाच्चाप्यनेकिका

2.1.6.25

परः पुमानीश्वरस्स शिवश्शंभुरनीश्वरः ॥
शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः

2.1.6.26

पंचवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ॥
कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः

2.1.6.27

युगपच्च तया शक्त्या साकं कालस्वरूपिणा ॥
शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा

2.1.6.28

तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम् ॥
परं निर्वाणसंख्यानं सर्वोपरि विराजितम्

2.1.6.29

ताभ्यां च रममाणाभ्यां च तस्मिन्क्षेत्रे मनोरमे ॥
परमानंदरूपाभ्यां परमानन्दरूपिणी

2.1.6.2.1.6.30

मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन ॥
विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः

2.1.6.31

अस्यानन्दवनं नाम पुराकारि पिनाकिना ॥
क्षेत्रस्यानंदहेतुत्वादविमुक्तमनंतरम्

2.1.6.32

अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः॥
इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यपरः किल

2.1.6.33

यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ ॥
निर्वाणधारणं कुर्वः केवलं काशिशायिनौ

2.1.6.34

स एव सर्वं कुरुतां स एव परिपातु च ॥
स एव संवृणोत्वं ते मदनुग्रहतस्सदा

2.1.6.35

चेतस्समुद्रमाकुंच्य चिंताकल्लोललोलितम् ॥
सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम्

2.1.6.36

यस्य प्रसादात्तिष्ठावस्सुखमानंदकानने॥
परिक्षिप्तमनोवृत्तौ बहिश्चिंतातुरे सुखम्

2.1.6.37

संप्रधार्य्येति स विभुस्तया शक्त्या परेश्वरः ॥
सव्ये व्यापारयांचक्रे दशमेंऽगेसुधासवम्

2.1.6.38

ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः ॥
शांतस्सत्त्वगुणोद्रिक्तो गांभीर्य्यामितसागरः

2.1.6.39

तथा च क्षमया युक्तो मुनेऽलब्धोपमो ऽभवत् ॥
इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः

2.1.6.2.1.6.40

सुवर्णकृतिभृच्छ्रेष्ठ दुकूलयुगलावृतः ॥
लसत्प्रचंडदोर्दण्डयुगलोह्यपराजितः

2.1.6.41

ततस्स पुरुषश्शंभुं प्रणम्य परमेश्वरम् ॥
नामानि कुरु मे स्वामिन्वद कर्मं जगाविति

2.1.6.42

तच्छ्रुत्वा वचनम्प्राह शंकरः प्रहसन्प्रभुः ॥
पुरुषं तं महेशानो वाचा मेघगभीरया

2.1.6.43

शिव उवाच॥
विष्ण्वितिव्यापकत्वात्ते नाम ख्यातं भविष्यति॥
बहून्यन्यानि नामानि भक्तसौख्यकराणि ह

2.1.6.44

तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् ॥
इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः

2.1.6.49

ततोऽच्युतश्शिवं नत्वा चकार विपुलं तपः ॥
अंतर्द्धानं गतश्शक्त्या सलोकः परमेश्वरः

2.1.6.46

दिव्यं द्वादश साहस्रं वर्षं तप्त्वापि चाच्युतः ॥
न प्राप स्वाभिलषितं सर्वदं शंभुदर्शनम्

2.1.6.47

तत्तत्संशयमापन्नश्चिंतितं हृदि सादरम् ॥
मयाद्य किं प्रकर्तव्यमिति विष्णुश्शिवं स्मरन्

2.1.6.48

एतस्मिन्नंतरे वाणी समुत्पन्ना शिवाच्छुभा ॥
तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये

2.1.6.49

ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् ॥
बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि

2.1.6.2.1.6.50

ततस्स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः ॥
सुप्रीतो विस्मयं प्राप्तः किं यत्तव महा इति

2.1.6.51

परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च ॥
जलधारा हि संयाता विविधाश्शिवमायया

2.1.6.52

अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने ॥
ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम्

2.1.6.53

तदा श्रांतश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् ॥
सुष्वाप परम प्रीतो बहुकालं विमोहितः

2.1.6.54

नारायणेति नामापि तस्यसीच्छ्रुतिसंमतम् ॥
नान्यत्किंचित्तदा ह्यासीत्प्राकृतं पुरुषं विना

2.1.6.55

एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः ॥
तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते

2.1.6.56

प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः ॥
अहंकारस्ततो जातस्त्रिविधो गुणभेदतः

2.1.6.27

तन्मात्राश्च ततो जातः पञ्चभूतानि वै तता ॥
तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च

2.1.6.58

तत्त्वानामिति संख्यानमुक्तं ते ऋषिसत्तम ॥
जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना

2.1.6.59

तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसंख्यकम्॥
शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके

2.1.6.6

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सृष्टिव्याख्यने प्रथमखंडे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc