भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.5

2.1.5.1

सूत उवाच ॥
अंतर्हिते हरौ विप्रा नारदो मुनिसत्तमः ॥
विचचार महीं पश्यञ्छिवलिंगानि भक्तितः

2.1.5.2

पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ॥
ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः

2.1.5.3

अथ तं विचरंतं कौ नारदं दिव्यदर्शनम् ॥
ज्ञात्वा शंभुगणौ तौ तु सुचित्तमुपजग्मतुः

2.1.5.4

शिरसा सुप्रणम्याशु गणावूचतुरादरात् ॥
गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ

2.1.5.5

शिवगणावूचतुः ॥
ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्या वयोर्वचः ॥
तवापराधकर्तारावावां विप्रौ न वस्तुतः

2.1.5.6

आवां हरगणौ विप्र तवागस्कारिणौ मुने ॥
स्वयम्बरे राजपुत्र्या मायामोहितचेतसा

2.1.5.7

त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ॥
ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम्

2.1.5.8

स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ॥
सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ

2.1.5.9

सूत उवाच ॥
वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ॥
प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः

2.1.5.11

नारद उवाच ॥
शृणुतं मे महादेव गणा मान्यतमौ सताम् ॥
वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम्॥! 2.1.5.१०॥
पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशात् युवम् ॥
सर्वथा मोहमापन्नश्शप्तवान्वां कुशेमुषिः

2.1.5.12

यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ ॥
शापोद्धारमहं वच्मि क्षमथा मघमद्य मे

2.1.5.13

वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् ॥
स्यातां विभवसंयुक्तौ बलिनो सुप्रतापिनौ

2.1.5.14

सर्वब्रह्मांडराजानौ शिवभक्तौ जितेन्द्रियौ ॥
शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः

2.1.5.15

सूत उवाच ॥
इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ॥
उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा

2.1.5.16

नारदोऽपि परं प्रीतो ध्यायञ्छिवमनन्यधीः ॥
विचचार महीं पश्यञ्छिवतीर्थान्यभीक्ष्णशः

2.1.5.17

काशीं प्राप्याथ स मुनिः सर्वोपरि विराजिताम् ॥
शिवप्रियां शंभुसुखप्रदां शम्भुस्वरूपिणीम्

2.1.5.18

दृष्ट्वा काशीं कृताऽर्थोभूत्काशीनाथं ददर्श ह ॥
आनर्च परम प्रीत्या परमानन्दसंयुतः

2.1.5.19

स मुदः सेव्यतां काशीं कृतार्थो मुनिसत्तमः ॥
नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः ॥

2.1.5.2.1.5.20

ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ॥
शिवतत्त्वं विशेषेण ज्ञातुमिच्छुस्स नारदः

2.1.5.21

नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः ॥
पप्रच्छ शिवत्तत्वं शिवसंभक्तमानसः

2.1.5.22

नारद उवाच ॥
ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ॥
त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम्

2.1.5.23

भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ॥
दानमार्गञ्च तीर्थानां मार्गं च श्रुतवानहम्

2.1.5.24

न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ॥
चरित्रं विविधं तस्य निवेदय मम प्रभो

2.1.5.25

निर्गुणोऽपि शिवस्तात सगुणश्शंकरः कथम् ॥
शिवतत्त्वं न जानामि मोहितश्शिवमायया

2.1.5.26

सृष्टेः पूर्वं कथं शंभुस्स्वरूपेण प्रतिष्ठितः ॥
सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः

2.1.5.27

तदन्ते च कथं देवस्स तिष्ठति महेश्वरः ॥
कथं प्रसन्नतां याति शंकरो लोकशंकरः

2.1.5.28

संतुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः ॥
किं फलं यच्छति विधे तत्सर्वं कथयस्व मे

2.1.5.29

सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् ॥
भक्तप्रयासं स महान्न पश्यति दयापरः

2.1.5.2.1.5.30

ब्रह्मा विष्णुर्महेशश्च त्रयो देवाश्शिवांशजाः ॥
महेशस्तत्र पूर्णांशस्स्वयमेव शिवः परः

2.1.5.31

तस्याविर्भावमाख्याहि चरितानि विशेषतः ॥
उमाविर्भावमाख्याहि तद्विवाहं तथा विभो

2.1.5.32

तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि॥
एतत्सर्वं तथान्यच्च कथनीयं त्वयानघ

2.1.5.33

तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः॥
प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च

2.1.5.34

बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो॥
अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि

2.1.5.35

इति श्रुत्वा वचस्तस्य नारदस्यांगजस्य हि॥
उवाच वचनं तत्र ब्रह्मा लोकपितामहः

2.1.5.5

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदप्रश्नवर्णनोनाम पञ्चमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc