भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.7

2.1.7.1

ब्रह्मोवाच ॥
सुप्ते नारायणे देवे नाभौ पंकजमुत्तमम् ॥
आविर्बभूव सहसा बहव संकरेच्छया

2.1.7.2

अनंतयष्टिकायुक्तं कर्णिकारसमप्रभम् ॥
अनंतयोजनायाममनंतोच्छ्रायसंयुतम्

2.1.7.3

कोटिसूर्यप्रतीकाशं सुंदर वचxसंयुतम् ॥
अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम्

2.1.7.4

कृत्वा यत्नं पूर्ववत्स शंकरः परमेश्वरः ॥
दक्षिणांगान्निजान्मां कैसाशीxश्शंभुरजीजनत्

2.1.7.9

स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ॥
तन्नाभिपंकजादाविर्भावयामास लीलया

2.1.7.6

एष पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ॥
चतुर्मुखो रक्तवर्णस्त्रिपुड्रांकितमस्तकः

2.1.7.7

तन्मायामोहितश्चाहं नाविदं कमल विना ॥
स्वदेहजनकं तात पितरं ज्ञानदुर्बलः

2.1.7.8

कोहं वा कुत आयातः किं कार्य तु मदीयकम् ॥
कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना

2.1.7.9

इति संशयमापन्नं बुद्धिर्मां समपद्यत ॥
किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु

2.1.7.2.1.7.10

एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ॥
मत्कर्ता च स वै तत्र भविष्यति न संशयः

2.1.7.12

इति बुद्धिं समास्थाय कमलादवरोहयन् ॥
नाले नालेगतस्तत्र वर्षाणां शतकं मुने ॥१ १॥
न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ॥
संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः

2.1.7.13

आरुरोहाथ कमलं नालमार्गेण वै मुने ॥
कुड्मलं कमलस्याथ लब्धवान्न विमोहिताः

2.1.7.14

नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ॥
क्षणमात्र तदा तत्र ततस्तिष्ठन्विमोहितः

2.1.7.15

तदा वाणी समुत्पन्ना तपेति परमा शुभा ॥
शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने

2.1.7.16

तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ॥
पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा

2.1.7.17

तदा हि भगवान्विष्णुश्चतुर्बाहुस्सुलोचनः ॥
मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह

2.1.7.18

शंखचक्रायुधकरो गदापद्मधरः परः ॥
घनश्यामलसर्वांगः पीताम्बरधरः परः

2.1.7.19

मुकुटादिमहाभूषः प्रसन्नमुखपंकजः ॥
कोटिकंदर्पसंकाशस्सन्दष्टो मोहितेन सः

2.1.7.2.1.7.20

तद्दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः ॥
कालाभं कांचनाभं च सर्वात्मानं चतुर्भुजम्

2.1.7.21

तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना ॥
नारायणं महाबाहु हर्षितो ह्यभवं तदा

2.1.7.22

मायया मोहितश्शम्भोस्तदा लीलात्मनः प्रभोः ॥
अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः

2.1.7.23

ब्रह्मोवाच ॥
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ॥
तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु

2.1.7.24

प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ॥
ददर्श निद्राविक्लिन्ननीरजामललोचनः

2.1.7.25

मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ॥
आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत्

2.1.7.26

विष्णुरुवाच ॥
स्वागतं स्वागतं वत्स पितामह महाद्युते ॥
निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः

2.1.7.27

तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः ॥
रजसा बद्धवैरश्च तमवोचं जनार्दनम्

2.1.7.28

ब्रह्मोवाच ॥
भाषसे वत्स वत्सेति सर्वसंहारकारणम् ॥
मामिहाति स्मितं कृत्वा गुरुश्शिष्यमिवानघ

2.1.7.29

कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ॥
सनातनमजं विष्णुं विरिंचिं विष्णुसंभवम्

2.1.7.2.1.7.30

विश्वात्मानं विधातारं धातारम्पंकजेक्षणम् ॥
किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम्

2.1.7.31

वेदो मां वक्ति नियमात्स्वयंभुवमजं विभुम् ॥
पितामहं स्वराजं च परमेष्ठिनमुत्तमम्

2.1.7.32

इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः ॥
सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः

2.1.7.33

विष्णुरुवाच ॥ ॥
कर्तुं धर्त्तुं भवानंगादवतीर्णो ममाव्ययात् ॥
विस्मृतोऽसि जगन्नाथं नारायणमनामयम्

2.1.7.34

पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ॥
विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्

2.1.7.35

नारायणं महाबाहुं सर्वव्याप कमीश्वरम् ॥
मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः

2.1.7.36

तवापराधो नास्त्यत्र त्वयि मायाकृतं मम ॥
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम्

2.1.7.37

कर्ता हर्ता च भर्ता च न मयास्तिसमो विभुः ॥
अहमेव परं ब्रह्म परं तत्त्वं पितामह

2.1.7.38

अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ॥
अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिँश्चराचरम्

2.1.7.39

तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ॥
मया सृष्टं पुरा व्यक्तं चतुर्विंशतितत्त्वकम्

2.1.7.2.1.7.40

नित्यं तेष्वणवो बद्धास्सृष्टक्रोधभयादयः ॥
प्रभावाच्च भवानंगान्यनेकानीह लीलया

2.1.7.41

सृष्टा बुद्धिर्मया तस्यामहंकारस्त्रिधा ततः ॥
तन्मात्रं पंकजं तस्मान्मनोदेहेन्द्रियाणि च

2.1.7.42

आकाशादीनि भूतानि भौतिकानि च लीलया ॥
इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे

2.1.7.43

अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः ॥
ब्रह्मोवाच ॥
इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः ॥
को वा त्वमिति संभर्त्स्माब्रुवं मायाविमोहितः

2.1.7.44

।
किमर्थं भाषसे भूरि वह्वनर्थकरं वचः ॥
नेश्वरस्त्वं परब्रह्म कश्चित्कर्ता भवेत्तव

2.1.7.45

मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् ॥
हरिणा तेन वै सार्द्धं शंकरस्य महाप्रभोः

2.1.7.46

एवं मम हरेश्चासीत्संगरो रोमहर्षणः ॥
प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः

2.1.7.47

एतस्मिन्नंतरे लिंगमभवच्चावयोः पुरः॥
विवादशमनार्थं हि प्रबोधार्थं तथाऽऽवयोः

2.1.7.48

ज्लामालासहस्राढ्यं कालानलशतोपमम्॥
क्षयवृद्धि विनिर्मुक्तमादिमध्यांतवर्जितम्

2.1.7.49

अनौपम्यमनिर्देश्यमव्यक्तं विश्वसंभवम् ॥
तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः

2.1.7.2.1.7.50

मोहितं चाह मामत्र किमर्थं स्पर्द्धसेऽधुना ॥
आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः

2.1.7.51

कुत एवात्र संभूतः परीक्षावो ऽग्निसंभवम् ॥
अधो गमिष्याम्यनलस्तंभस्यानुपमस्य च

2.1.7.52

परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः ॥
भवानूर्द्ध्वं प्रयत्नेन गंतुमर्हति सत्वरम्

2.1.7.53

ब्रह्मोवाच ॥
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ॥
वाराहमहप्याशु हंसत्वं प्राप्तवान्मुने ॥

2.1.7.54

तदा प्रभृति मामाहुर्हंसहंसो विराडिति ॥
हंसहंसेति यो ब्रूयात्स हंसोऽथ भविष्यति

2.1.7.55

सुश्वे ह्यनलप्रख्यो विश्वतः पक्षसंयुतः ॥
मनोनिलजवो भूत्वा गत्वोर्द्ध्वं चोर्द्ध्वतः पुरा

2.1.7.56

नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा॥
दश योजनविस्तीर्णं शतयोजनमायतम्

2.1.7.57

मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् ॥
कालादित्यसमाभासं दीर्घघोणं महास्वनम्

2.1.7.58

ह्रस्वपादं विचित्रांगं जैत्रं दृढमनौपमम् ॥
वाराहाकारमास्थाय गतवांस्तदधौ जवात्

2.1.7.59

एवम्बर्षसहस्रं च चरन्विष्णुरधो गतः ॥
तथाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः

2.1.7.2.1.7.60

कल्पो बभूव देवर्षे नराणां कालसंज्ञकः ॥
बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः

2.1.7.61

नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥
तावत्कालं गतश्चोर्द्ध्वमहमप्यरिसूदन

2.1.7.62

सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ॥
श्रान्तो न दृष्ट्वा तस्यांतमहं कालादधोगतः

2.1.7.63

तथैव भगवान्विष्णुश्चांतं कमललोचनः ॥
सर्वदेवनिभस्तूर्णमुत्थितस्स महावपुः

2.1.7.64

समागतो मया सार्द्धं प्रणिपत्य भवं मुहुः ॥
मायया मोहितश्शंभोस्तस्थौ संविग्नमानसः

2.1.7.65

पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् ॥
प्रणिपत्य मया सार्द्धं सस्मार किमिदं त्विति

2.1.7.66

अनिर्देश्यं च तद्रूपमनाम कर्मवर्जितम् ॥
अलिंगं लिंगतां प्राप्तं ध्यानमार्गेप्यगोचरम्

2.1.7.67

स्वस्थं चित्तं तदा कृत्वा नमस्कार परायणो ॥
बभूवतुरुभावावामहं हरिरपि ध्रुवम्

2.1.7.68

जानीवो न हि ते रूपं योऽसियोऽसि महाप्रभो ॥
नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरन्

2.1.7.69

एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः ॥
आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा

2.1.7.7

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं हितायां प्रथमखंडे विष्णुब्रह्मविवादवर्णनोनाम सप्तमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc