भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.15

2.1.15.1

नारद उवाच ॥
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ॥
श्राविताद्याद्भुता शैवकथा परमपावनी

2.1.15.2

तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ॥
श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह

2.1.15.3

अनंतरं च यज्जातं माहात्म्यं चरितं तथा ॥
सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः

2.1.15.4

ब्रह्मोवाच ॥
सम्यक् पृष्टे च भवता यज्जातं तदनंतरम् ॥
कथयिष्यामि संक्षेपाद्यथा पूर्वं श्रुतं मया

2.1.15.5

अंतर्हिते तदा देवे शिवरूपे सनातने ॥
अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान्

2.1.15.6

मया च विष्णुना रूपं हंसवाराहयोस्तदा ॥
संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया

2.1.15.7

नारद उवाच ॥
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ॥
कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि

2.1.15.8

हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ॥
अन्यद्रूपं विहायैव किमत्र वद कारणम्

2.1.15.9

सूत उवाच ॥
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ॥
स्मृत्वा शिवपदांभोजं ब्रह्मा सादरमब्रवीत्

2.1.15.2.1.15.10

ब्रह्मोवाच ॥
हंसस्य चोर्द्ध्वगमने गतिर्भवति निश्चला ॥
तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत्

2.1.15.11

अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः॥
हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा

2.1.15.12

विवेको नैव लब्धश्च यतो हंसो व्यलीयत ॥
शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद

2.1.15.13

सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ॥
यतो लब्धो विवेकोऽपि न मया हंसरूपिणा

2.1.15.14

गमनेऽधो वराहस्य गतिर्भवति निश्चला ॥
धृतं वाराहरूपं हि विष्णुना वनचारिणा

2.1.15.15

अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ॥
विष्णुना च वराहस्य भुवनावनकारिणा

2.1.15.16

यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ॥
तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसंज्ञकः

2.1.15.17

तदिच्छा वा यदा जाता ताभ्यां रूपं हि धारणे ॥
तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञक्

2.1.15.18

इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद ॥
स्मृत्वा शिवपदांभोजं वक्ष्ये सृष्टिविधिं मुने

2.1.15.19

अंतर्हिते महादेवे त्वहं लोकपितामहः ॥
तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः

2.1.15.2.1.15.20

नमस्कृत्य तदा शंभुं ज्ञानं प्राप्य हरेस्तदा ॥
आनंदं परमं गत्वा सृष्टिं कर्तुं मनो दधे

2.1.15.21

विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ॥
उपदिश्य च मां तात ह्यंतर्धानमुपागतः

2.1.15.22

ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ॥
वैकुंठनगरं गत्वा तत्रोवास हरिस्सदा

2.1.15.23

अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ॥
पूर्वं सृष्टं जलं यच्च तत्रांजलिमुदाक्षिपम्

2.1.15.24

अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञ कम् ॥
विराड्रूपमभूद्विप्र जलरूपमपश्यतः

2.1.15.25

ततस्संशयमापन्नस्तपस्तेपे सुदारुणम् ॥
द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः

2.1.15.26

तस्मिंश्च समये तात प्रादुर्भूतो हरिस्स्वयम् ॥
मामुवाच महाप्रीत्या मदंगं संस्पृशन्मुदा

2.1.15.27

॥ विष्णुरुवाच ॥ ॥
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव ॥
ब्रह्मञ्छंभुप्रसादेन सर्वं दातुं समर्थकः

2.1.15.28

ब्रह्मोवाच ॥ ॥
युक्तमेतन्महाभाग दत्तोऽहं शंभुना च ते ॥
तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते

2.1.15.29

विराड्रूपमिदं ह्यंडं चतुर्विंशतिसंज्ञकम् ॥
न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते

2.1.15.2.1.15.30

प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे ॥
प्राप्तं शंकरसंभूत्या ह्यण्डं चैतन्यमावह

2.1.15.31

इत्युक्ते च महाविष्णुश्शंभोराज्ञापरायणः ॥
अनंतरूपमास्थाय प्रविवेश तदंडकम् ॥

2.1.15.32

सहस्रशीर्षा पुरुषस्सहस्राक्षः सहस्रपात् ॥
स भूमिं सर्वतस्पृत्वा तदण्डं व्याप्तवानिति

2.1.15.33

प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे ॥
सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम्

2.1.15.34

पातालादि समारभ्य सप्तलोकाधिपः स्वयम् ॥
राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः

2.1.15.35

कैलासनगरं रम्यं सर्वोपरि विराजितम् ॥
निवासार्थं निजस्यैव पंचवक्त्र श्चकार ह

2.1.15.36

ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च ॥
कदाचिदेव देवर्षे नाशो नास्ति तयोरिह

2.1.15.37

सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम ॥
सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम्

2.1.15.38

सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः।
अविद्यापंचकस्तात बुद्धिपूर्वस्तमोपमः

2.1.15.39

ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् ॥
मुख्यसर्गं च निस्संगमध्यायं शंभुशासनात्

2.1.15.2.1.15.40

तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः ॥
सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः

2.1.15.41

तं चासाधकमाज्ञाय पुनश्चिंतयतश्च मे ॥
अभवत्सात्त्विकस्सर्ग ऊर्ध्वस्रोता इति द्रुतम्

2.1.15.42

देवसर्गः प्रतिख्यातस्सत्योऽतीव सुखावहः ॥
तमप्यसाधकं मत्वाऽचिंतयं प्रभुमात्मनः

2.1.15.43

प्रादुरासीत्ततस्सर्गो राजसः शंकराज्ञया ॥
अवाक्स्रोता इति ख्यातो मानुषः परसाधकः

2.1.15.44

महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् ॥
इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया

2.1.15.45

त्रयस्सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः ॥
तत्राद्यो महतस्सर्गो द्वितीयः सूक्ष्मभौतिकः

2.1.15.46

वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः ॥
एवं चाष्टविधास्सर्गाः प्रकृतेर्वेकृतैः सह

2.1.15.47

कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः ॥
एषामवांतरो भेदो मया वक्तुं न शक्यते

2.1.15.48

अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् ॥
कौमारः सनकादीनां यत्र सर्गो महानभूत्

2.1.15.49

सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः ॥
महावैराग्यसंपन्ना अभवन्पंच सुव्रताः

2.1.15.2.1.15.50

मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः ॥
शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम्

2.1.15.51

प्रत्युत्तरं च तदनु श्रुत्वाहं मुनिसत्तम ॥
अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद

2.1.15.52

कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम ॥
क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिंदवः ॥

2.1.15.53

तस्मिन्नवसरे तत्र स्मृतेन मनसा मया ॥
प्रबोधितोहं त्वरितमागतेना हि विष्णुना

2.1.15.54

तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् ॥
तपोकारी महद्घोरं परमं मुनिसत्तम

2.1.15.55

तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः ॥
अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः

2.1.15.56

त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः ॥
आर्द्धनारीश्वरो भूत्वा पूर्णाशस्सकलेश्वरः

2.1.15.57

तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ॥
सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम्

2.1.15.58

दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः ॥
अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः

2.1.15.59

श्रुत्वा मम वचस्सोथ देवदेवो महेश्वरः ॥
ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून

2.1.15.2.1.15.60

अवोचं पुनरेवेशं महारुद्रं महेश्वरम् ॥
जन्ममृत्युभयाविष्टास्सृज देव प्रजा इति

2.1.15.61

एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः ॥
प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम

2.1.15.62

महादेव उवाच ॥
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे ॥
अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ

2.1.15.63

अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः ॥
सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः

2.1.15.64

त्वमेव सृज दुःखाढ्याः प्रजास्सर्वाः प्रजापते ॥
मदाज्ञया न बद्धस्त्वं मायया संभविष्यसि

2.1.15.65

ब्रह्मोवाच ॥
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः ॥
सगणः पश्यतो मे हि द्रुतमंतर्दधे हरः

2.1.15.15

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः॥

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc