भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.16

2.1.16.1

ब्रह्मोवाच ॥
शब्दादीनि च भूतानि पंचीकृत्वाहमात्मना ॥
तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम्

2.1.16.2

पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद ॥
कलादियुगपर्येतान्कालानन्यानवासृजम्

2.1.16.3

सृष्ट्यंतानपरांश्चापि नाहं तुष्टोऽभव न्मुने ॥
ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने

2.1.16.4

मरीचिं च स्वनेत्राभ्यां हृदयाद्भृगुमेव च ॥
शिरसोऽगिरसं व्यानात्पुलहं मुनिसत्तमम्

2.1.16.5

उदानाच्च पुलस्त्यं हि वसिष्ठञ्च समानतः ॥
क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः

2.1.16.6

असृजं त्वां तदोत्संगाच्छायायाः कर्दमं मुनिम् ॥
संकल्पादसृजं धर्मं सर्वसाधनसाधनम्

2.1.16.7

एवमेतानहं सृष्ट्वा कृतार्थस्साधकोत्तमान् ॥
अभवं मुनिशार्दूल महादेवप्रसादतः

2.1.16.8

ततो मदाज्ञया तात धर्मः संकल्पसंभवः ॥
मानवं रूपमापन्नस्साधकैस्तु प्रवर्तितः

2.1.16.9

ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् ॥
सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने

2.1.16.2.1.16.10

ततोऽहं शंकरेणाथ प्रेरितोंऽतर्गतेन ह ॥
द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने

2.1.16.11

अर्द्धेन नारी पुरुषश्चार्द्धेन संततो मुने ।
स तस्यामसृजद्द्वंद्वं सर्वसाधनमुत्तमम्

2.1.16.12

स्वायंभुवो मनुस्तत्र पुरुषः परसाधनम् ॥
शतरूपाभिधा नारी योगिनी सा तपस्विनी

2.1.16.13

सा पुनर्मनुना तेन गृहीतातीव शोभना ॥
विवाहविधिना ताताऽसृजत्सर्गं समैथुनम्

2.1.16.14

तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ॥
तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः

2.1.16.15

आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम्

2.1.16.16

ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताः ॥
तासां प्रसूतिप्रसवैस्सर्वं व्याप्तं चराचरम्

2.1.16.17

आकूत्यां च रुचेश्चाभूद्वंद्वं यज्ञश्च दक्षिणा ॥
यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश

2.1.16.18

देवहूत्यां कर्दमाच्च बह्व्यो जातास्सुता मुने ॥
दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः

2.1.16.19

धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ॥
शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर

2.1.16.2.1.16.20

श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ॥
वसुःर्बुद्धि लज्जा शांतिः सिद्धिः कीर्तिस्त्रयोदश

2.1.16.21

ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः ॥
ख्यातिस्सत्पथसंभूतिः स्मृतिः प्रीतिः क्षमा तथा

2.1.16.22

सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ॥
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः

2.1.16.23

पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥
अत्रिर्वासिष्ठो वह्निश्च पितरश्च यथाक्रमम्

2.1.16.24

ख्यातास्ता जगृहुः कन्या भृग्वाद्यास्साधका वराः ॥
ततस्संपूरितं सर्वं त्रैलोक्यं सचराचरम्

2.1.16.25

एवं कर्मानुरूपेण प्रणिनामंबिकापते॥
आज्ञया बहवो जाता असंख्याता द्विजर्षभाः

2.1.16.26

कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ॥
तासां दश च धर्माय शशिने सप्तविंशतिम्

2.1.16.27

विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश ॥
चतस्रः पररूपाय ददौ तार्क्ष्याय नारद

2.1.16.28

भृग्वंगिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् ॥
ताभ्यस्तेभ्यस्तु संजाता बह्वी सृष्टिश्चराचरा

2.1.16.29

त्रयोदशमितास्तस्मै कश्यपाय महात्मने ॥
दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम

2.1.16.2.1.16.30

तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ॥
स्थावरं जंगमं चैव शून्य नैव तु किंचन

2.1.16.31

देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे ॥
वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः

2.1.16.32

दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् ॥
पातालतलमारभ्य सत्यलोकावधि ध्रुवम्

2.1.16.33

ब्रह्मांडं सकलं व्याप्तं शून्यं नैव कदाचन ॥
एवं सृष्टिः कृता सम्यग्ब्रह्मणा शंभुशासनात्

2.1.16.34

सती नाम त्रिशूलाग्रे सदा रुद्रेण रक्षिता ॥
तपोर्थं निर्मिता पूर्वं शंभुना सर्वविष्णुना

2.1.16.35

सैव दक्षात्समुद्भूता लोककार्यार्थमेव च ॥
लीलां चकार बहुशो भक्तोद्धरणहेतवे॥

2.1.16.36

वामांगो यस्य वैकुंठो दक्षिणांगोऽहमेव च ॥
रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः

2.1.16.37

अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः॥
स्वयं सदा निर्गुणश्च परब्रह्माव्ययश्शिवः

2.1.16.38

विष्णुस्सत्त्वं रजोऽहं च तमो रुद्र उदाहृतः॥
लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा

2.1.16.39

अंतस्तमो बहिस्सत्त्वो विष्णूरुद्रस्तथा मतः ॥
अंतस्सत्त्वस्तमोबाह्यो रजोहं सर्वेथा मुने ॥

2.1.16.2.1.16.40

राजसी च सुरा देवी सत्त्वरूपात्तु सा सती ॥
लक्ष्मीस्तमोमयी ज्ञेया विरूपा च शिवा परा

2.1.16.41

एवं शिवा सती भूत्वा शंकरेण विवाहिता ॥
पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ

2.1.16.42

पुनश्च पार्वती जाता देवप्रार्थनया शिवा ॥
तपः कृत्वा सुविपुलं पुनश्शिवमुपागता

2.1.16.43

तस्या नामान्यनेकानि जातानि च मुनीश्वर॥
कालिका चंडिका भद्रा चामुंडा विजया जया

2.1.16.44

जयंती भद्रकाली च दुर्गा भगवतीति च ॥
कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला

2.1.16.45

नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च॥
गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती

2.1.16.46

गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः ॥
मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम्

2.1.16.47

एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम॥
शिवाज्ञया विरचितो ब्रह्मांडस्य मयाऽखिलः ॥

2.1.16.48

परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः ॥
अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः

2.1.16.49

शिवया रमते स्वैरं शिवलोके मनोरमे ॥
स्वतंत्रः परमात्मा हि निर्गुणस्सगुणोऽपि वै

2.1.16.2.1.16.50

तस्य पूर्णवतारो हिं रुद्रस्साक्षाच्छिवः स्मृतः ॥
कैलासे भवनं रम्यं पंचवक्त्रश्चकार ह ॥
ब्रह्मांडस्य तथा नाशे तस्य नाशोस्ति वै न हि

2.1.16.16

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खंडे सृष्ट्युपाख्याने ब्रह्मनारदसंवादे सृष्टिवर्णनो नाम षोडशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc