भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.14

2.1.14.1

ऋषय ऊचुः ॥ ॥
व्यासशिष्य महाभाग कथय त्वं प्रमाणतः ॥
कैः पुष्पैः पूजितश्शंभुः किं किं यच्छति वै फलम्

2.1.14.2

॥ सूत उवाच ॥ ॥
शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ॥
कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम्

2.1.14.3

एष एव विधिः पृष्टो नारदेन महर्षिणा ॥
प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम्

2.1.14.4

ब्रह्मोवाच॥
कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः ॥
शंखपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम्

2.1.14.5

एतैश्च लक्षसंख्याकैः पूजितश्चेद्भवेच्छिवः ॥
पापहानिस्तथा विप्र लक्ष्मीस्स्यान्नात्र संशयः

2.1.14.6

विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् ॥
बिल्वो दलसहस्रेण प्रस्थार्द्धं परिभाषितम्

2.1.14.7

शतपत्रसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥
पलैः षोडशभिः प्रत्थः पलं टंकदशस्मृतः

2.1.14.8

अनेनैव तु मानेन तुलामारोपयेद्यदा॥
सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत्

2.1.14.9

राज्यस्य कामुको यो वै पार्थिवानां च पूजया ॥
तोषयेच्छंकरं देवं दशकोष्ट्या मुनीश्वराः

2.1.14.2.1.14.10

लिंगं शिवं तथा पुष्पमखण्डं तंदुलं तथा ॥
चर्चितं चंदनेनैव जलधारां तथा पुनः

2.1.14.11

प्रतिरूपं तथा मंत्रं बिल्वीदलमनुत्तमम् ॥
अथवा शतपत्रं च कमलं वा तथा पुनः

2.1.14.12

शंखपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः ॥
सर्वकामफलं दिव्यं परत्रेहापि सर्वथा

2.1.14.33

धूपं दीपं च नैवेद्यमर्घं चारार्तिक तथा ॥
प्रदक्षिणां नमस्कारं क्षमापनविसर्जने

2.1.14.14

कृत्वा सांगं तथा भोज्यं कृतं येन भवेदिह ॥
तस्य वै सर्वथा राज्यं शंकरः प्रददाति च

2.1.14.15

प्रधान्यकामुको यो वै तदर्द्धेनार्चयेत्पुमान् ॥
कारागृहगतो यो वै लक्षेनैवार्चयेद्धनम्

2.1.14.16

रोगग्रस्तो यदा स्याद्वै तदर्द्धेनार्चयेच्छिवम् ॥
कन्याकामो भवेद्यो वै तदर्द्धेन शिवं पुनः

2.1.14.17

विद्याकामस्तथा यः स्यात्तदर्द्धेनार्चयेच्छिवम् ॥
वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम्

2.1.14.18

उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् ॥
मारणे वै तु लक्षेण मोहने तु तदर्धतः

2.1.14.19

सामंतानां जये चैव कोटिपूजा प्रशस्यते ॥
राज्ञामयुतसंख्यं च वशीकरणकर्मणि

2.1.14.2.1.14.20

यशसे च तथा संख्या वाहनाद्यैः सहस्रिका ॥
मुक्तिकामोर्चयेच्छंभुं पंचकोट्या सुभक्तितः

2.1.14.21

ज्ञानार्थी पूजयेत्कोट्या शंकरं लोक शंकरम् ॥
शिवदर्शनकामो वै तदर्धेन प्रपूजयेत्

2.1.14.22

तथा मृत्युंजयो जाप्यः कामनाफलरूपतः ॥
पंचलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः

2.1.14.23

लक्षेण भजते कश्चिद्द्वितीये जातिसंभवः ॥
तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति

2.1.14.24

पंचमं च यदा लक्षं फलं यच्छत्यसंशयम् ॥
अनेनैव तु मंत्रेण दशलक्षे फलं भवेत्

2.1.14.25

मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् ॥
लक्षसंख्या तु सर्वत्र ज्ञातव्या ऋषिसत्तम

2.1.14.26

आयुष्कामो भवेद्यो वै दूर्वाभिः पूजनश्चरेत् ॥
पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत्

2.1.14.27

रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः ॥
अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः

2.1.14.28

भुक्तिमुक्तिफलं तस्य तुलस्याः पूजयेद्यदि ॥
अर्कपुष्पैः प्रतापश्च कुब्जकल्हारकैस्तथा

2.1.14.29

जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता ॥
रोगोच्चाटनकानीह करवीराणि वै क्रमात्

2.1.14.2.1.14.30

बंधुकैर्भूषणावाप्तिर्जात्यावाहान्न संशयः ॥
अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात्॥

2.1.14.31

शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च ॥
मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः

2.1.14.32

यूथिकाकुसुमैश्शस्यैर्गृहं नैव विमुच्यते ॥
कर्णिकारैस्तथा वस्त्रसंपत्तिर्जायते नृणाम्

2.1.14.33

निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् ॥
बिल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात्

2.1.14.34

शृङ्गारहारपुष्पैस्तु वर्द्धते सुख सम्पदा ॥
ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः

2.1.14.35

राजिकाकुसुमानीह शत्रूणां मृत्युदानि च ॥
एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम्

2.1.14.36

विद्यते कुसुमं तन्न यन्नैव शिववल्लभम्॥
चंपकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत्

2.1.14.37

अतः परं च धान्यानां पूजने शंकरस्य च ॥
प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम

2.1.14.38

तंदुलारोपणे नॄणां लक्ष्मी वृद्धिः प्रजायते ॥
अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि

2.1.14.39

षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः ॥
पलद्वयं तथा लक्षमानेन समदाहृतम्

2.1.14.41

पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् ॥
शिवोपरि न्यसेत्तत्र तंदुलार्पणमुत्तमम् ॥2.1.14.४०
उपरि श्रीफलं त्वेकं गंधपुष्पादिभिस्तथा ॥
रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत्॥

2.1.14.42

प्रजापत्यद्वयं रौप्यमासंख्या च दक्षिणा ॥
देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता

2.1.14.43

आदित्यसंख्यया तत्र ब्राह्मणान्भोजयेत्ततः ॥
लक्षपूजा तथा जाता साङ्गश्च मन्त्रपूर्वकम्

2.1.14.44

शतमष्टोत्तरं तत्र मंत्रे विधिरुदाहृतः॥
तिलानां च पलं लक्षं महापातकनाशनम्

2.1.14.45

एकादशपलैरेव लक्षमानमुदाहृतम् ॥
पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया

2.1.14.46

भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि ॥
महापातकजं दुखं तत्क्षणान्नश्यति ध्रुवम्

2.1.14.47

यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे ॥
प्रस्थानामष्टकं चैव तथा प्रस्थार्द्धकं पुनः

2.1.14.48

पलद्वययुतं तत्र मानमेतत्पुरातनम् ॥
यवपूजा च मुनिभिः स्वर्गसौख्यविवर्द्धिनी

2.1.14.49

प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः ॥
गोधूमान्नैस्तथा पूजा प्रशस्ता शंकरस्य वै

2.1.14.2.1.14.50

संततिर्वर्द्धते तस्य यदि लक्षावधिः कृता ॥
द्रोणार्द्धेन भवेल्लक्षं विधानं विधिपूर्वकम्

2.1.14.51

मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् ॥
प्रस्थानां सप्तकेनैव प्रस्थार्द्धेनाथवा पुनः

2.1.14.52

पलद्वययुतेनैव लक्षमुक्तं पुरातनैः ॥
ब्राह्मणाश्च तथा भोज्या रुद्रसंख्याप्रमाणतः

2.1.14.53

प्रियंगुपूजनादेव धर्माध्यक्षे परात्मनि ॥
धर्मार्थकामा वर्द्धंते पूजा सर्वसुखावहा

2.1.14.54

प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः॥
ब्रह्मभोजं तथा प्रोक्तमर्कसंख्याप्रमाणतः

2.1.14.55

राजिकापूजनं शंभोश्शत्रोर्मृत्युकरं स्मृतम्॥
सार्षपानां तथा लक्षं पलैर्विशतिसंख्यया

2.1.14.56

तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः ॥
आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम्

2.1.14.57

वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च ॥
मरीचिसंभवा पूजा शत्रोर्नाशकरी स्मृता

2.1.14.58

आढकीनां दलैश्चैव रंजयि त्वार्चयेच्छिवम् ॥
नानासुखकरी ह्येषा पूजा सर्वफलप्रदा

2.1.14.59

धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम ॥
लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर

2.1.14.2.1.14.60

प्रस्थानां च तथा चैकं शंखपुष्पसमुद्भवम् ॥
प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना

2.1.14.61

प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् ॥
यूथिकायास्तथा मानं राजिकायास्तदर्द्धकम्

2.1.14.62

प्रस्थैर्विंशतिकैश्चैव मल्लिकामान मुत्तमम् ॥
तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च

2.1.14.63

ततश्च द्विगुणं मानं करवीरभवे स्मृतम् ॥
निर्गुंडीकुसुमे मानं तथैव कथितं बुधैः

2.1.14.64

कर्णिकारे तथा मानं शिरीषकुसुमे पुनः ॥
बंधुजीवे तथा मानं प्रस्थानं दशकेन च

2.1.14.65

इत्याद्यैर्विविधै मानं दृष्ट्वा कुर्याच्छिवार्चनम् ॥
सर्वकामसमृध्यर्थं मुक्त्यर्थं कामनोज्झितः

2.1.14.66

अतः परं प्रवक्ष्यामि धारापूजाफलं महत् ॥
यस्य श्रवणमात्रेण कल्याणं जायते नृणाम्

2.1.14.67

विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै ॥
पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः

2.1.14.68

ज्वरप्रलापशांत्यर्थं जल धारा शुभावहा ॥
शतरुद्रियमंत्रेण रुद्रस्यैकादशेन तु

2.1.14.69

रुद्रजाप्येन वा तत्र सूक्तेन् पौरुषेण वा ॥
षडंगेनाथ वा तत्र महामृत्युंजयेन च

2.1.14.2.1.14.70

गायत्र्या वा नमोंतैश्च नामभिः प्रणवादिभिः ॥
मंत्रैवाथागमोक्तैश्च जलधारादिकं तथा

2.1.14.71

सुखसंतानवृद्ध्यर्थं धारापूजनमुत्तमम् ॥
नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा

2.1.14.72

घृतधारा शिवे कार्या यावन्मंत्रसहस्रकम् ॥
तदा वंशस्य विस्तारो जायते नात्र संशयः ॥

2.1.14.73

एवं मदुक्तमंत्रेण कार्यं वै शिवपूजनम् ॥
ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः

2.1.14.74

केवलं दुग्धधारा च तदा कार्या विशेषतः ॥
शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत्

2.1.14.75

तस्या संजायते जीवसदृशी बुद्धिरुत्तमा ॥
यावन्मंत्रायुतं न स्यात्तावद्धाराप्रपूजनम्

2.1.14.76

यदा चोच्चाटनं देहे जायते कारणं विना ॥
यत्र कुत्रापि वा प्रेम दुःखं च परिवर्द्धितम्

2.1.14.77

स्वगृहे कलहो नित्यं यदा चैव प्रजायते ॥
तद्धारायां कृतायां वै सर्वं दुःखं विलीयते

2.1.14.78

शत्रूणां तापनार्थं वै तैलधारा शिवोपरि ॥
कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्धुवं भवेत्

2.1.14.79

मासि तेनैव तैलेन भोगवृद्धिः प्रजायते ॥
सार्षपेनैव तैलेन शत्रुनाशो -भवेद्ध्रुवम्

2.1.14.2.1.14.80

मधुना यक्षराजो वै गच्छेच्च शिवपूजनात ॥
धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे

2.1.14.81

धारा गंगाजलस्यैव भुक्तिमुक्तिफलप्रदा ॥
एतास्सर्वाश्च याः प्रोक्ता मृत्यंजयसमुद्भवाः

2.1.14.82

तत्राऽयुतप्रमाणं हि कर्तव्यं तद्विधानतः ॥
कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसंख्यया

2.1.14.83

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर ॥
एतद्वै सफलं लोके सर्वकामहितावहम्

2.1.14.84

स्कंदोमासहितं शंभुं संपूज्य विधिना सह ॥
यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम्

2.1.14.85

अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् ॥
ततो याति महेशस्य लोकं सर्वसुखावहम्

2.1.14.86

।
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः ॥
रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः

2.1.14.87

क्रीडते शिवभूतश्च यावदाभूतसंप्लवम् ॥
ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम्

2.1.14.14

इति श्रीशिवमहापुराणे प्रथम खंडे द्वितीयायां रुद्रसंहितायां सृष्ट्युपाख्याने शिवपूजाविधानवर्णनो नाम चतुर्दशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc