सेव्यसेवकोपदेशः · श्लोक 21-40
करोति सेवकः सेवां तावद् आशाम् इवायताम् ।
यावद् भोगरसज्ञेन यौवनेन वियुज्यते ॥
चक्षुर् द्वार्य् अञ्जलौ पाणिः स्तुतौ जिह्वा नतौ शिरः ।
अहो नु सेवकैः कायः परोपकरणीकृतः ॥
हन्त याच्ञावमानेन सेवको लघुतां गतः ।
सेवापङ्कपदे मग्नो यद् अन्विष्टो न लभ्यते ॥
अविश्रान्त्याविरक्तस्य दीर्घोच्छ्वासेन शुष्यतः ।
जरेव दुःसहा जन्तोः सेवा संकोचकारिणी ॥
त्रुट्यति क्लिन्नतन्त्रीव मालेव म्लायति क्षणात् ।
सेवा नारचयत्य् एव दिनच्छेदेन नश्यति ॥
सेवासंक्षपिताङ्गानां राजरथ्यासु शुष्यताम् ।
तीव्रतृष्णाविषार्तानां शरणम् शमवारिदः ॥
लोभस्य मोहाध्वनि वृद्धभावे जाता दुराशाशयितस्य सेवा ।
अधोमुखी सा सततं सलज्जा जरत्कुमारीव न कस्य शोच्या ॥
आशेव शून्येषु विवर्तमाना तृष्णेव संतोषपराङ्मुखीयम् ।
दिवानिशं कर्षणदीर्घरज्जुः सेवा सुराणाम् अपि दैन्यभूमिः ॥
निसर्गवन्ध्यासु फलाशया ये कुर्वन्ति सेवासु सदा प्रयत्नम् ।
कृषिप्रवृत्ताः शशशृङ्गकोट्या खनन्ति मूर्खाः खलु स्वस्थलीं ते ॥
अन्तःस्थिते ऽप्य् आत्मनि यैः क्रियन्ते सेवाप्रवृत्तैः पुरुषैः प्रणामाः ।
दुग्धाब्दिकल्लोलिनि कूलकच्छे तृष्णातुरास् ते जलम् अर्थयन्ते ॥
भागीरथीतीरवनान्तरेषु फलावनम्रेषु महाद्रुमेषु ।
क्षुत्तापतृष्णाशमनेषु सत्सु किं दैन्यसेवाव्यसनावमानैः ॥
नित्यप्रसक्त्या न सृजत्य् अवज्ञां न लौल्यगर्हागणनां करोति ।
अत्यन्तयाच्ञासु न याति खेदं भिक्षाभुजाम् पात्रम् अतो नु सेव्यम् ॥
जयन्ति ते स्वस्ति नमो ऽस्तु तेभ्यः प्रभूप्रणामच्युतमानरत्नम् ।
सेवाप्रयासव्यसनेषु मिथ्या रथ्यारजोभागि शिरो न येषाम् ॥
किं राजभिर् दुर्जनजन्मजालव्याप्तैर् अवाप्तैर् अपि कष्टदृष्टैः ।
सन्त्य् एव सेव्या भुवि भूभृतस् ते तटेषु येषां मुनयो निविष्टाः ॥
तृष्णातुराणां रजसा वृतानां सेवाकुकूलानलतापितानाम् ।
शान्त्यै हितं चन्द्रकिरीटजूटमैत्रीपवित्रं त्रिदशापगाम्भः ॥
उत्सृज्य तीव्रं विषयाभिलाषं संतोषपोषं कुशलो भजस्व ।
इत्य् अर्थ्यमानः सुखसेवयायम् आत्माइव सर्वं सुधियां ददाति ॥
एकस्य जाने सुखभोगभाजः श्लाघ्यस्य सेवाव्यसनं निवृत्तम् ।
सदैव शिश्नोदरवर्जितत्वाद् अयाच्ययाच्ञारहितस्य रहोः ॥
सेवाव्रते प्राय इवापविष्टः सर्वात्मना निश्चितजीवनाशः ।
द्वाःस्थैः प्रयत्नेन निवारितो ऽपि न दुर्ग्रहं मुञ्चति नष्टसंज्ञः ॥
तमोऽध्वतापेन च चिन्तया च शितेन दैन्येन च पिण्डिताङ्गः ।
सुखाशया दुःखसहस्रभागी सेवाव्रतं मुग्धमतिर् बिभर्ति ॥
गच्छामि गच्छामि दिनं गतं मे दिने गतो ऽहं न नृपो ऽद्य दृष्टः ।
इति ब्रुवाणस्य सदा जनस्य जीर्णातरां तस्य तनुर् न तृष्णा ॥
मूल पाठ: Sevyasevakopadeśaḥ · Edition: kṣemendrakṛtaḥ sevyasevakopadeśaḥ Paṇḍit Durgāprasād Kāśīnāth Pāṇḍuraṅg Parab Vāsudev Laxman Shāstrī Panshīkar Kāvyamālā Part 2 Bombay Nirnaya Sagar Press 79-85 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0