सेव्यसेवकोपदेशः · श्लोक 41-60
विच्छेदकारी सहसा कथानाम् अनीप्सितो दीप इव प्रविष्टः ।
संसक्तवस्त्रान्तरमक्षिकेव न सेवकः कस्य करोति दुःखम् ॥
धूमायमानो ऽक्षिविपक्षभूतश् चाटुक्रमोत्पादितकर्णशूलः ।
कुसेवकः पादतले ऽवलग्नः पदे पदे कण्टकताम् उपैति ॥
एकः खम् एव क्षितिम् ईक्षते ऽन्यः स निर्जनार्थी स च गाढलग्नः ।
स्वस्वार्थिता तस्य भृशं स चार्थी कथं स सेव्यः स च सेवको ऽस्तु ॥
छायाग्रहो मूर्त इवानुयायी स्थितश् चिरं वृश्चिकनिश्चलश् च ।
अकालपाती सुखकेलिलीलायन्त्रोत्पलः सेवकदुर्विदग्धः ॥
विसृज्यमानो ऽप्य् अनिशं न याति तीव्रोपरोधप्रणयेन मूर्खः ।
भर्तुः प्रसादे विहितप्रयत्नो जातः परं प्रत्युत कोपहेतुः ॥
शूत्कारिदीर्घश्वसितानुबन्धैर् निवेदितोद्वेगगतिप्रयासः ।
अतिप्रवेशात् खरमार्गणो ऽसौ निरस्यमानो विफलत्वम् एति ॥
श्रीरत्नचन्द्रवरवाजिगजोर्जिते ऽस्मिन् गम्भीरराजकुलनाम्नि महासमुद्रे ।
अश्नाति मूढमतिर् ईश्वरताम् अवाप्तुम् आशावशात् क्षितिपतेर् बहु कालकूटम् ॥
विरम विरम नेयं पान्थ नम्राम्रमाला बधिर खदिरपाली निष्फलैषा प्रयाहि ।
इति बहुविधम् उक्तः सेवको ऽन्यापदेशैस् त्यजति न विपुलाशापाशबद्धः कुसेवाम् ॥
प्रम्लाना सरसत्वम् एति न पुनर् मालेव लग्नातपा भग्ना काचमयीव संधिघटना योगेन न श्लिष्यति ।
सेवा दीपशिखेव दुर्गतगृहे संधार्यमाणा परं निःस्नेहा क्षयम् एति खेदजनितैर् उच्छ्वासमालानिलैः ॥
कस् त्वं गत्वर सेवकस् त्वरितता कस्मात् प्रभुर् दृश्यते लाभः कस् तव तत्र वेत्रिविपुलाघातैः शिरस्ताडनम् ।
किं मृद्गासि मुदा विशालचरणैर् मिथ्यैव रथ्याम् इमाम् बन्धो वन्ध्यनरेन्द्रभव्यभवनभ्रान्त्या विडम्ब्यामहे ॥
सुप्ताकर्षणदाम धाम महतो मोहस्य दैन्यस्य वा सेवाक्लेशम् अहर्निशं विषहते यो वित्तलेशाशया ।
प्रस्फूर्जद्वडवाग्निगर्भगहनोद्भूतोर्मिमालाकुलं संक्षुब्धं मकराकरं प्रविशति श्रीरत्नलब्ध्यै न किम् ॥
व्यर्थात्यर्थगतागतव्यतिकरैर् अश्रान्ततीव्रत्वरो द्वारालोकनतत्परः परिजनैर् उत्सार्यमाणः परम् ।
यत्नेनैव पुरः प्रवेशकलनैः क्लेशावमानाश्रयः सर्वापत्पिशुनः शुनः सदृशताम् आलप्स्यते सेवकः ॥
कूजत्क्रूरकपाटपीडनरुषा दत्तप्रहारैः परं द्वारावस्थगनाय सुस्थिरभुजैर् द्वाःस्थैर् भृशं भर्त्सितः ।
कुब्जीभूय जनस्य जानुविवरैः क्षिप्रप्रवेशोत्सुकः पृच्छत्य् अन्तरनिर्गतानवसरं मौनव्रतान् सेवकः ॥
द्वारे रुद्धम् उपेक्षते कथम् अपि प्राप्तं पुरो नेक्षते विज्ञप्तौ गजमीलनानि कुरुते गृह्णाति वाक्यच्छलम् ।
निर्यातस्य करोति दोषगणनां स्वल्पापराधे यमः स स्वामी यदि सेव्यते मरुतटे किं नः पिशाचैः कृतम् ॥
नित्यं राजकुले न पूज्ययजने तद्द्वारपालार्चनं भक्तिं भूतिसमुद्भवे न तु भवे ध्यानं धने नात्मनि ।
दृष्टादृष्टविचिन्तनं नरपतौ न स्वोचिते कर्मणि श्रीहेतोर् बत निष्फलं प्रकुरुते सर्वं जडः सेवकः ॥
सा तीव्रं जडनिम्नपातनरता नो नित्यसक्ता त्वरा रथ्यापङ्ककलङ्कितं न वदनं न द्वारपालैः कलिः ।
यस्मिंस् तच्चिरसेवकः प्रविततं पुण्यं वनं गम्यतां क्रूरास् ते न भवन्ति तत्र विकृतक्रोधोद्धताः पार्थिवाः ॥
हंहो कष्टविनष्ट सेवक सखे खिन्नो ऽसि पोषाशया रागश् चेद् विभवे तद् एष कुपतिः क्लीबः किम् आसेव्यते ।
सेव्यः को ऽपि महेश्वरः स भगवान् यस्य प्रसादेक्षणैर् अक्षुण्णैः करुणास्पदीकृतमरुन्नाथो मरुत्तः कृतः ॥
राज्ञाम् अज्ञतया कृतं यद् अनिशं दैन्यं तद् उत्सृज्यतां संतोषम्भसि मृज्यताम् अपि रजः पादप्रणामार्जितम् ।
संतोषः परमः पुराणपुरुषः संविन्मयः सेव्यतां यत्स्मृत्या न भवन्ति ते सुमनसां भूयो भवग्रन्थयः ॥
उत्सृज्य प्राज्यसेवां विजनसुखजुषां भूभुजां व्याजभाजां छित्त्वाशापाशबन्धान् विमलशमजलैस् तीव्रतृष्णां निवार्य ।
स्थित्व शुद्धे समाधौ किम् अपरम् अमृतं मृग्यतां ज्योतिर् अन्तर् यस्मिन् दृष्टे विनष्टोत्कटतिमिरभरे लभय्ते मोक्षलक्ष्मीः ॥
वृत्त्या जीवति लोकः सेवावृत्तिर् निजैव केषांचित् ।
अस्थाने तीव्रतरा निन्द्या तु तदर्थिनां सेवा ॥
मूल पाठ: Sevyasevakopadeśaḥ · Edition: kṣemendrakṛtaḥ sevyasevakopadeśaḥ Paṇḍit Durgāprasād Kāśīnāth Pāṇḍuraṅg Parab Vāsudev Laxman Shāstrī Panshīkar Kāvyamālā Part 2 Bombay Nirnaya Sagar Press 79-85 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0