भाषा

ENहिગુ
ग्रंथ पाठ

सेव्यसेवकोपदेशः · श्लोक 1-20

1

विभूषणाय महते तृष्णातिमिरहारिणे ।
नमः संतोषरत्नाय सेवाविषविनाशिने ॥

2

उत्सृज्य निजकार्याणि सद्भिर् बाष्पाकुलेक्षणम् ।
सेव्यसेवकसेवानां क्रियताम् अनुशासनम् ॥

3

दर्पाद् एकः परो लोभाद् द्वाव् अन्धौ सेव्यसेवकौ ।
धनोष्मदैन्यविकृती मुखे कः कस्य पश्यति ॥

4

दुर्वारमोहलोभान्धो यदि न स्याद् अयं जनः ।
कः क्रूरक्रोधविधुरं सहेत धनिनां मुखम् ॥

5

यः पृथ्वीम् अपि दर्पान्धो न पश्यति पुरःस्थिताम् ।
स दैन्यलघुतां यातं कथं सेवकम् ईक्षते ॥

6

अगतिं वाहयत्य् एको बधिरं स्तौति चापरः ।
अहो जगति हास्याय निर्लज्जौ सेव्यसेवकौ ॥

7

दूरं हुंकारमात्रेण विसृष्टो मार्गणः सदा ।
गुणभ्रष्टः क्रियाहीनो नोद्वेगं याति सेवकः ॥

8

मन्ये सुकृतिना तेन भागीरथ्यां कृतं तपः ।
वैराग्यभागी रथ्यां यः सेवासु न विगाहते ॥

9

कथितक्लेशवापेन शापेनेव विपाकिना ।
सेवातापेन पच्यन्ते न ह्य् अदुष्कृतिनो नराः ॥

10

अदैन्यपुण्यमनसां यशस् तेषां विराजते ।
सेवापङ्ककलङ्कानां यैर् न पात्रीकृतं शिरः ॥

11

प्रभुप्रणामे जठरं दैन्यमूकं विलोकयन् ।
प्रवेष्टुं सेवकः शङ्के विलक्षः क्षितिम् ईक्षते ॥

12

सेवाध्वजो ऽञ्जलिर् मूर्ध्नि हृदि दैन्यं मुखे स्तुतिः ।
आशाग्रहगृहीतानां कियतीयं विडम्बना ॥

13

अकालागमनक्रोधविधुरेश्वरचक्षुषा ।
क्षिप्रं स्मर इवायाति सेवको दुग्धभूतिताम् ॥

14

पुनः सेवावमानानां तेन दत्तं तिलोदकम् ।
प्रविश्य वाहिनीं येन खड्गपात्रीकृतं वपुः ॥

15

कणवृत्तिपरिक्लिष्टः कष्टं सेवकचातकः ।
घनाशानिरतो नित्यम् उद्ग्रीवः परिशुष्यति ॥

16

निःसंतोषः परित्यज्य भ्रमरः पुष्पितं वनम् ।
सेवते दानलोभेन मातङ्गम् अपि सेवकः ॥

17

जडसेवापरिक्लिष्टस् तीव्रदम्भबकव्रतः ।
कृच्छ्रेण क्षणिकां प्रीतिम् आसादयति सेवकः ॥

18

नित्यम् उन्नतिकामो ऽपि मानभङ्गाद् अधोमुखः ।
यत् सत्यम् उभयभ्रष्टस् त्रिशङ्कुर् इव सेवकः ॥

19

स्वमांसविक्रयासक्तः प्रभुवेतालघट्टितः ।
निःसत्त्वः प्रलयं याति रात्रिसेवासु सेवकः ॥

20

भूमिशायी निराहारः शीतवातातपक्षतः ।
मुनिव्रतो ऽपि नरकक्लेशम् अश्नाति सेवकः ॥

मूल पाठ: Sevyasevakopadeśaḥ · Edition: kṣemendrakṛtaḥ sevyasevakopadeśaḥ Paṇḍit Durgāprasād Kāśīnāth Pāṇḍuraṅg Parab Vāsudev Laxman Shāstrī Panshīkar Kāvyamālā Part 2 Bombay Nirnaya Sagar Press 79-85 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc