भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दर्यलहरी · श्लोक 21-40

21

तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णाम् अप्य् उपरि कमलानां तव कलाम्
महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥

22

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां इति स्तोतुं वाञ्छन् कथयति भवानि त्वम् इति यः
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् ॥

23

त्वया हृत्वा वामं वपुर् अपरितृप्तेन मनसा शरीरार्धं शंभोर् अपरम् अपि शङ्के हृतम् अभूत्
तथा हि त्वद्रूपं सकलम् अरुणाभं त्रिनयनं कुचाभ्याम् आनम्रं कुटिलशशिचूडालमुकुटम् ॥

24

जगत् सूते धाता हरिर् अवति रुद्रः क्षपयते तिरस् कुर्वन्न् एतत् स्वम् अपि वपुर् ईशस् तिरयति
सदापूर्वः सर्वं तद् इदम् अनुगृह्णाति च शिवस् तवाज्ञाम् आलम्ब्य क्षनचलितयोर् भ्रूलतिकयोः ॥

25

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर् या विरचिता
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्य् एते शश्वन् मुकुलितकरोत्तंसमुकुटाः ॥

26

विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम्
वितन्द्री माहेन्द्री विततिर् अपि संमीलितदृशा महासंहारे +अस्मिन् विहरति सति त्वत्पतिर् असौ ॥

27

जपो जल्पः शिल्पं सकलम् अपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणम् अशनाद्य् आहुतिविधिः
प्रणामः संवेशः सुखम् अखिलम् आत्मार्पणदृशा सपर्यापर्यायस् तव भवतु यन् मे विलसितम् ॥

28

ददाने दीनेभ्यः श्रियम् अनिशम् आशानुसदृशीं अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन् मज्जीवः करणचरणैः ष.च्चरणताम् ॥

29

सुधाम् अप्य् आस्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः
करालं यत् क्ष्वेडं कवलितवतः कालकलना न शंभोस् तन्मूलं तव जननि ताटङ्कमहिमा ॥

30

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम्
प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर् विजयते ॥

31

चतुःषष्ट्या तन्त्रैः सकलम् अभिसंधाय भुवनं स्थितस् तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः
पुनस् त्वन्निर्बन्धाद् अखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रं क्षितितलम् अवातीतरद् इदम् ॥

32

शिवः शक्तिः कामः क्षितिर् अथ रविः शीतकिरणः स्मरो हंसः शक्रस् तद् अनु च परामारहरयः
अमी हृल्लेखाभिस् तिसृभिर् अवसानेषु घटिता भजन्ते वर्णास् ते तव जननि नामावयवताम् ॥

33

स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ तव मनोर् निधायैके नित्ये निरवधिमहाभोगरसिकाः
जपन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥

34

शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति भवात्मानम् अनघम्
अतः शेषः शेषीत्य् अयम् उभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥

35

मनस् त्वं व्योम त्वं मरुद् असि मरुत्सारथिर् असि त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम्
त्वम् एव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥

36

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् परं शंभुं वन्दे परिमिलितपार्श्वं परचिता
यम् आराध्यन् भक्त्या रविशशिशुचीनाम् अविषये निरालोके लोको निवसति हि भालोकभवने ॥

37

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीम् अपि शिवसमानव्यसनिनीम्
ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥

38

समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वंद्वं किम् अपि महतां मानसचरम्
यदालापाद् अष्टादशगुणितविद्यापरिणतिर् यद् आदत्ते दोषाद् गुणम् अखिलम् अद्भ्यः पय इव ॥

39

तव स्वाधिष्ठाने हुतवहम् अधिष्ठाय निरतं तम् ईडे संवर्तं जननि महतीं तां च समयाम्
यदालोके लोकान् दहति महति क्रोधकलिले दयार्द्रा दृष्टिस् ते शिशिरम् उपचारं रचयति ॥

40

तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम्
तव श्यामं मेघं कम् अपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥

मूल पाठ: Saundaryalaharī · Edition: W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc