सौन्दर्यलहरी · श्लोक 41-60
तवाधारे मूले सह समयया लास्यपरया नवात्मानं वन्दे नवरसमहाताण्डवनटम्
उभाभ्याम् एताभ्याम् उभयविधिम् उद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमद् जगद् इदम् ॥
गतैर् माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनुः शौनासीरं किम् इति न निबध्नाति धिषणाम् ॥
धुनोतु ध्वान्तं नस् तुलितदलितेन्दीवरवनं घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे
यदीयं सौरभ्यं सहजम् उपलब्धुं सुमनसो वसन्त्य् अस्मिन् मन्ये बलमथनवाटीविटपिनाम् ॥
वहन्ती सुन्दूरं प्रबलकबरीभारतिमिर त्विषां बृन्दैर् बन्दीकृतम् इव नवीनार्ककिरणम्
तनोतु क्षेमं नस् तव वदनसौन्दर्यलहरी परीवाहस्रोतःसरणिर् इव सीमन्तसरणिः ॥
अरालैः स्वाभाव्याद् अलिकलभसश्रीभिर् अलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम्
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः ॥
ललाटं लावण्यद्युतिविमलम् आभाति तव यद् द्वितीयं तन् मन्ये मुकुटशशिखण्डस्य शकलम्
विपर्यासन्यासाद् उभयम् अपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥
भ्रुवौ भुग्ने किंचिद् भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणे
धनुर् मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरम् उमे ॥
अहः सूते सव्यं तव नयनम् अर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकमयम्
तृतीया ते दृष्तिर् दरदलितहेमाम्बुजरुचिः समाधत्ते संध्यां दिवसनिशयोर् अन्तरचरीम् ॥
विशाला कल्याणी स्फुटरुचिर् अयोध्या कुवलयैः कृपाधाराधारा किम् अपि मधुरा भोगवतिका
अवन्ती दृष्टिस् ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥
कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम्
अमुञ्चन्तौ दृष्ट्वा तव न्वरसास्वादतरलाव् असूयासंसर्गाद् अलिकनयनं किंचिद् अरुणम् ॥
शिवे शृङ्गारार्द्रा तदितरमुखे कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती
हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश् चित्तप्रशमरसविद्रावणफले
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवा-कर्णाकृष्टस्मरशरविलासं कलयतः ॥
विभक्तत्रैवर्ण्यं व्यतिकरितनीलाञ्जनतया विभाति त्वन्नेत्रत्रितयम् इदम् ईशानदयिते
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रान् उपरतान् रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयम् इव ॥
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर् नेत्रैर् अरुणधवलश्यामरुचिभिः
नदः शोणो गङ्गा तपनतनयेति ध्रुवम् अमुं त्रयाणां तीर्थानाम् उपनयसि संभेदम् अनघे ॥
तवा-पर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतम् अनिमेषाः शफरिकाः
इयं च श्रीर् बद्धच्छदपुटकपाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥
निमेषोन्मेषाभ्यां प्रलयम् उदयं याति जगती तवेत्य् आहुः सन्तो धरणिधरराजन्यतनये
त्वदुन्मेषाज् जातं जगद् इदम् अशेषं प्रलयतः परित्रातुं शङ्के परिहृतनिमेषास् तव दृशः ॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया माम् अपि शिवे
अनेनायं धन्यो भवति न च ते हानिर् इयता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥
अरालं ते पालीयुगलम् अगराजन्यतनये न केषाम् आधत्ते कुसुमशरकोदण्डकुतुकम्
तिरश्चीनो यत्र श्रवणपथम् उल्लङ्घ्य विलसन् अपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखम् इदं मन्मथरथम्
यम् आरुह्य द्रुह्यत्य् अवनिरथम् अर्केन्दुचरणं महावीरो मारः प्रमथपतये स्वं जितवते ॥
सरस्वत्याः सूक्तीर् अमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्याम् अविरतम्
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस् तारैः प्रतिवचनम् आचष्टए इव ते ॥
मूल पाठ: Saundaryalaharī · Edition: W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0