भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दर्यलहरी · श्लोक 1-20

1

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेद् एवं देवो न खलु कुशलः स्पन्दितुम् अपि
अतस् त्वाम् आराध्यां हरिहरविरञ्च्यादिभिर् अपि प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति ॥

2

तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरञ्चिः संचिन्वन् विरचयति लोकान् अविकलम्
वहत्य् एनं शौरिः कथम् अपि सहस्रेण शिरसां हरः संक्षुभ्यैनं भजति भसितोद्धूलनविधिम् ॥

3

अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ॥

4

त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणस् त्वम् एका नैवासि प्रकटितवराभीत्यभिनया
भयात् त्रातुं दातुं फलम् अपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणाव् एव निपुणौ ॥

5

हरिस् त्वाम् आराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत्
स्मरो ऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनाम् अप्य् अन्तः प्रभवति हि मोहाय महताम् ॥

6

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः
तथाप्य् एकः सर्वं हिमगिरिसुते काम् अपि कृपां अपाङ्गात् ते लब्ध्वा जगद् इदम् अनङ्गो विजयते ॥

7

क्वणत्काञ्चीदामा करिकलभकुम्भस्तनभरा परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना
धनुर् बाणान् पाशं सृणिम् अपि दधाना करतलैः पुरस्ताद् आस्तां नः पुरमथितुर् आहोपुरुषिका ॥

8

सुधासिन्धोर् मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कति चन चिदानन्दलहरीम् ॥

9

महीं मूलाधारे कम् अपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतम् आकाशम् उपरि
मनो ऽपि भ्रूमध्ये सकलम् अपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसि ॥

10

सुधाधारासारैश् चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनर् अपि रसआम्नायमहसा
अवाप्य स्वां भूमिं भुजगनिभम् अध्युष्टवलयं स्वम् आत्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥

11

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिर् अपि प्रभिन्नाभिः शंभोर् नवभिर् इति मूलप्रकृतिभिः
त्रयश् चत्वारिंशद् वसुदलकलाश्रत्रिवलय त्रिरेखाभिः सार्धं तव चरणकोणाः परिणताः ॥

12

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथम् अपि विरिञ्चिप्रभृतयः
यद् आलोक्यौत्सुक्याद् अमरललना यान्ति मनसा तपोभिर् दुष्प्रापाम् अपि गिरिशसायुज्यपदवीम् ॥

13

नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितम् अनुधावन्ति शतशः
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥

14

क्षितौ षत्पञ्चाशद् द्विसमधिकपञ्चाशद् उदके हुताशे द्वाषष्टिश् चतुरधिकपञ्चाशद् अनिले
दिवि द्विःषत्त्रिंशन् मनसि च चतुःषष्टिर् इति ये मयूखास् तेषाम् अप्य् उपरि तव पादाम्बुजयुगम् ॥

15

शरज्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां वरत्रासत्राणस्फटिकगुटिकापुस्तककराम्
सकृन् न त्वा नत्वा कथम् इव स्तां संनिदधते मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः ॥

16

कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कति चिद् अरुणाम् एव भवतीम्
विरञ्चिप्रेयस्यास् तरुणतरशृङ्गारलहरी गभीराभिर् वाग्भिर् विदधति सतां रञ्जनम् अमी ॥

17

सवित्रीभिर् वाचां शशिमणिशिलाभङ्गरुचिभिर् वशिन्याद्याभिस् त्वां सह जननि संचिन्तयति यः
स कर्ता काव्यानां भवति महतां भङ्गिसुभगैर् वचोभिर् वाग्देवीवदनकमलामोदमधुरैः ॥

18

तनुच्छायाभिस् ते तरुणतरणिश्रीसरणिभिर् दिवं सर्वाम् उर्वीम् अरुणिमनिग्मग्नां स्मरति यः
भवन्त्य् अस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कतिकति न गीर्वाणगणिका ॥

19

मुखं बिन्दुं कृत्वा कुचयुगम् अधस् तस्य तदधो हरार्धं ध्यायेद् यो हरमहिषि ते मन्मथकलाम्
स सद्यः संक्षोभं नयति वनिता इत्य् अतिलघु त्रिलोकीम् अप्य् आशु भ्रमयति रवीन्दुस्तनयुगाम् ॥

20

किरन्तीम् अङ्गेभ्यः किरणनिकुरम्बामृतरसं हृदि त्वाम् आधत्ते हिमकरशिलामूर्तिम् इव यः
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥

मूल पाठ: Saundaryalaharī · Edition: W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc