सौन्दरानन्द · अध्याय 3
सौन्दरनन्दे महाकाव्ये राजवर्णनो नाम द्वितीयः सर्गः ।
चन्तो इइइ
तपसे ततः कपिलवास्तु हयगरथौघसंकुलम् ।
श्रीमद् अभयम् अनुरक्तजनं स विहाय विश्चितमना वनं ययौ
विविधाग्मांस् तपसि तांश् च विविधनियमाश्रयान् मुनीन् ।
प्रेक्ष्य स विषयतृआकृपणान् अनवस्थितं तप इति न्यवर्तत
अथ मोक्षवादिनम् अराडम् उपशममतिं तथोड्रकम् ।
तत्त्वकृतमतिर् उपास्य जहावयम् अप्य् अमार्ग इति मागकोविदः
स विचारयन् जगति किं नु परमम् इति तं तम् आगमम् ।
निश्चयम् अनधिगतः परतः परमं चचार तप एव दुष्करम्
अथ नैष मार्ग इति विक्ष्य तद् अपि विपुलं जहौ तपः ।
ध्यानविषयम् अवगम्य परं बुभुजे वरान्नम् अमृतत्वबुद्धये
स सुवर्णपीनयुगबाहुर् ऋषभगतिर् आयतेक्षणः ।
प्लक्षम् अवनिरुहम् अभ्यगमत् परमस्य निश्चयविधेर् बुभुत्सया
उपविश्य तत्र कृतबुद्धिर् अचल्धृतिर् अद्रिराजवत् ।
मारबलम् अजयद् उग्रम् अथो बुबुधे पदं शिवम् अहार्यम् अव्ययम्
अवगम्य तं च कृतकार्यम् अमृतमनसो दिवौकसः ।
हर्षम् अतुलम् अगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे
सनगा च भूः प्रविचाल हुतवहसकः शिवो ववौ ।
नेदुर् अपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः
अवबुध्य चैव परमार्थम् अजरम् अनुकम्पया विभुः ।
नित्यम् अमृतम् उपदर्श्यितुं स वराञसीपरिकराम् अयात् पुरीम्
अथ धर्मचक्रम् ऋतनाभि धृतिमतिसमाधिनेमिमत् ।
तत्र विनयनिमारम् ऋषिर् जगतो हिताय परिषद्य् अवर्तयत्
इति दुःखम् एतद् इयम् अस्य समुदयलता प्रवर्तिका ।
शान्तिर् इयम् अयम् उपाय इति प्रविभागशः परम् इदं चतुष्टयम्
अभिधाय च त्रिपरिवर्तम् अतुलम् अनिवर्त्यम् उत्तमम् ।
द्वादशनियतविकल्पम् ऋषिर् विनिनाय कौण्डिनसगोत्रम् आदितः
स हि दोषसागरम् अगाधम् उपधिजलम् आधिजनुत्कम् ।
क्रोधमदभयतर्ङ्गचलं प्रततार लोकम् अपि व्यतारयत्
स विनीय काशिषु गयेषु बहुजनम् अथो गिरिव्रजे ।
पित्र्यम् अपि परमकारुणिको नगरं ययाव् अनुजिघृक्षया तदा
विषयात्मकस्य हि इअनस्य बहुविविधमार्गसेविनः ।
सूर्यसदृशवपुर् अभ्युदितो विजहार सूर्य इव गौतमस् तमः
अभितस् ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् ।
वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनम्
अपरिग्रहः स हि बभूव नियतमतिर् आत्मनीश्वरः ।
नैकविधभयकरेषु किम्-उ स्वजनस्वदेशजनमित्रवस्तुषु
प्रतिपूजया न स जहर्ष न च शुचम् अवज्ञयागमत् ।
निश्चितमतिर् असिचन्दनयोर् न जगाम दुःखसुखयोश् च विक्रियाम्
अथ पार्थिवः समुपलभ्य सुतम् उपगतं तथागतम् ।
तूर्णम् अबभुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ
सुगतस् तथागतम् अवेक्ष्य नरपतिम् अधीरम् आशया ।
शेषम् अपि च जनम् अश्रुमुखं विनीषय गगनम् उत्पपात ह
स विचक्रमे दिवि भुवीव पुनर् उपविवेश तस्थिवान् ।
निश्चलमतिर् अशयिष्ट पुनर् बहुधाभवत् पुनर् अभूत् तथैकधा
सलिले क्षिताव् इव चचार जलम् इव विवेष मेदिनीम् ।
मेघ इव दिवि ववर्ष पुनः पुनर् अज्वलन् नव इवोदितो रविः
युगपज् ज्वलन् ज्वलनवच् च जलम् अवसृहंश् च मेघवत् ।
तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः
तम् उदीक्ष्य हेममणिजालवलयिनम् इवोत्थितं ध्वजम् ।
प्रीतिम् अगमद् अतुलां नृपतिर् जनता नताश् च बहुमानम् अभ्ययुः
अथ भाजनीकृतम् अवेक्ष्य मनुजपतिम् ऋद्धिसंपदा ।
पौरजनम् अपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः
नृपतिस् ततः प्रथमम् आप फलम् अमृतधर्मसिद्धयोः ।
धर्मम् अतुलम् अधिगम्य मुनेर् मुनये ननाम स यतो गुराव् इव
बहवः प्रसन्नमनसो ऽथ जननमरणार्तिभीरवः ।
शाक्यतनयवृषभाः कृतिनो वृषभा इन्वानलभयात् प्रवव्रजुः
विजहुस् तु ये ऽपि न गृहाणि तनयपितृमात्रपेक्षया ।
ते ऽपि नियमविधिमामरणाज् जगृहुश् च युक्तमनसश् च दघ्रिरे
न जिहिंस सूक्ष्मम् अपि जन्तुम् अपि परवधोपजीवनः ।
किं बत विपुलगुञः कुलजः सदयः सदा किमु मुनेर् उपासया
अकृशोध्यमः कृशधनो ऽपि परपरिभवासहो ऽपि सन् ।
नान्यधनम् अपजहार तथा भुजगाद् इवान्यविभवाद् धि विव्यथे
विभवान्वितो ऽपि तरुणो ऽपि विषयचपलेन्द्रियो ऽपि सन् ।
नैव च परयुवतीर् अगमत् परमं हि ता धनतो ऽप्य् अमन्यत
अनृतं जगाद न च कश् चिद् ऋतम् अपि जजल्प नाप्रियम् ।
श्लक्ष्णम् अपि च न जगाव् अहितं हितम् अप्य् उवाच न च पैशुनाय यत्
मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः ।
कामसुखम् असुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः
न परस्य कश् चिद् अपघातम् अपि च स्गृणो व्यचिन्तयत् ।
मातृपिऋसुतसुहृसदृशं स ददर्श तत्र हि परस् परं जनः
नियतं भविष्यति परत्र भवद् अपि च भूतम् अप्य् अथो ।
कर्मफलम् अपि च लोकगतिर् नियतेति दर्शनम् अवाप साधु च
इति कर्मञा दशविधेन परमकुशलेन भूरिणा ।
भ्रंशिनि शितहिलगुणो ऽपि युगे विजहार तत्र मुन्संश्रयज् जनः
न च तत्र कश् चिद् उपपत्तिसुखम् अभिललाष तैर् गुणैः ।
सर्वम् अशिवम् अवगम्य भवं भवसंक्षयाय ववृते न जन्मने
अकथङ्कथा गृहिण एव परमपरिशुद्धदृष्तयः ।
स्रोतसि हि ववृतिरे बहवो रजसस् तनुत्वम् अपि चक्रिरे परे
ववृते ऽत्र यो ऽपि विषमेषु विभवदृशेषु कश् चन ।
त्यागविनयनियमाभिरतो विजहार सो ऽपि न चचाल सत्पथात्
अपि च स्वतो ऽपि परतो ऽपि न भयम् अभवन् न दैवतः ।
तत्र च सुसुखसुभिक्षगुणैर् जहृषुः प्रजाः कृतयुगे मनोर् इव
इति मुदितम् अनामयं निरापत् कुरुरघुपुरुपुरोपमं पुरं तत् ।
अभवद् अभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे
मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0