भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 2

2.1

सौन्दरनद महाकाव्ये कपिलवास्तुवर्णनो नाम प्रथमः सर्गः ।
चन्तो इइ
ततः कदा चित् कालेन तद् अवाप कुलक्रमात् ।
राज शुद्धोधनो नाम शुद्धकर्मा जितेन्द्रियः

2.2

यः ससञ्जे न कामेषु श्रीपाप्तौ न विसिस्मिये ।
नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे

2.3

बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमान् अपि ।
विक्रान्तो नय्वांश् चैव धीरः सुमुख एव च

2.4

वपुष्मांश् च न च स्तब्धो दक्षिणो न च नारजवः ।
तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः

2.5

आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश् च व्यपाश्रितः ।
अभवद् यो न विमुखस् तेजसा दित्सयैव च

2.6

यः पूर्वै राजभिर् यातां यियासुर् धर्मपद्धतिम् ।
राज्यं दीक्षाम् इव वहन् वृत्तेतान्वगमत् पितॄन्

2.7

यस्य सुव्यहाराच् च रक्षनाच् च सुखं प्रजाः ।
शिश्यिरे विगतोद्वेगाः पितुर् अङ्कगता इव

2.8

कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले ।
अकृतार्थो न ददृशे यस्य दर्शनमेयिवान्

2.9

हितं विप्रियम् अप्य् उक्तो यः शुश्राव न चुक्षुभे ।
दुष्कृतं बह्व् अपि त्यक्त्वा सस्मार कृतम् अण्व् अपि

2.10

प्रणतान् अनुजग्राह विजग्राह कुलद्विषः ।
आपन्नान् परिजग्राह निजग्राहास्थितान् पथि

2.11

प्रायेण विषये यस्य तच्छीलम् अनुवर्तिनः ।
अर्जयन्तो ददृशिरे धनानीव गुणान् अपि

2.12

अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः ।
दानान् यदित पात्रेभ्यः पापं नाकृत किं चन

2.13

धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजिवोद्यतां धुरम् ।
न ह्य् अवान्छीच् एयुतः सत्यान् मुहूर्तम् अपि जीवितम्

2.14

विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया ।
व्यरोचिष्त च शिष्टेभ्यो मासीषे चन्द्रमा इव

2.15

अवेदीद् बुद्धिशास्त्राभ्याम् इह चामुत्र च क्षमम् ।
अरक्षीद् धैर्यवीर्याभ्याम् इन्द्रियाण्य् अपि च प्रजाः

2.16

अहार्षीद् दुःखम् आर्तानां द्विषतां चोर्जितं यशः ।
अचैष्ते च नयैर् भूमिं भूयसा यशसैव च

2.17

अप्य् आसीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः ।
नाहौष्ते च यशो लोभाद् अन्यायाधिगतैर् धनैः

2.18

सौहार्दऋढभक्तित्वान् मैत्रेषु विगुणेष्व् अपि ।
नादिदासीददित्सीत् तु सौमुख्वात् स्वं स्वम् अर्थवत्

2.19

अनिवेद्याग्रम् अर्हद्भ्यो नालिक्षत् हिं चिद् अप्लुतः ।
गाम् अधर्मेण नाधुक्षत् क्षीरतर्षेण गाम् इव

2.20

नासृक्षद् बलिम् अप्राप्तं नारुक्षन् मानम् ऐश्वरम् ।
आगमैर् बुद्धिम् आहिक्षद् धर्माय न तु कीर्तये

2.21

क्लेशार्हान् अपि कांश् चि तु नाक्लिष्ट क्लिष्टकर्मणः ।
आर्यभावाच् च नाघुक्षद् द्विषतो ऽपि सतो गुणान्

2.22

आकृषद् वपुषा दृष्टीः प्रजानां चन्द्रमा इव ।
परस्वं भुवि नामृक्षन् महाविषम् इवोरगम्

2.23

नाक्रुक्षद् विषये तस्य कश् चित् कैश् चित् क्व चित् क्षतः ।
अदिक्षत् तस्य हस्तस्थम् आर्तेभ्यो ह्य् अभयं धनुः

2.24

कृतागसो ऽपि प्रणतान् प्राग् एव प्रियकारिणः ।
अदर्शत् स्निघया दृष्ट्या श्लक्ष्णेन वचसासिचत्

2.25

बह्वीर् अध्यगमद् विद्या विषयेष्व् अकुतूहलः ।
अदर्शत् कार्तयुगे धर्मे धर्मात् कृच्छ्रे ऽपि नास्रसत्

2.26

अवर्धिष्ट गुञैः शश्वद् अवृधन् मित्रसंपदा ।
अवर्तिष्ट च वृद्धेषु नावृतद् गर्हिते पथि

2.27

शरैर् अशीशम् अच्छत्रून् गुणैर् बन्धून् अरीरमत् ।
रन्ध्रैर् नाचूचुदद् भृत्यान् करैर् नापीपिडत् प्रजाः

2.28

रक्षणाच् चैव शौर्याच् च निखिलां गाम् अवीवपत् ।
स्पष्टया दण्डनीत्या च रात्रिसत्त्रान् अवीवपत्

2.29

कुलं राजर्षिवृत्तेन यशोगन्धम् अवीवपत् ।
दीप्त्या तम इवादित्यस् तेजसारीन् अवीवपत्

2.30

अपप्रथत् पितॄंश् चैव सत्पुत्रदऋशैर् गुणैः ।
सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत् प्रजाः

2.31

दानैर् अजस्रविपुलैः सोमं विप्रान् असूषवत् ।
राजधर्मस्थिअत्वाच् च काले सस्यम् असूषवत्

2.32

अधर्मिष्ठाम् अचकथन् न कथाम् अकथङ्कतः ।
चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत्

2.33

राष्ट्रम् अन्यत्र च बलेर् न स किङ् चिद् ददीदपत् ।
भृत्यैर् एव च सोद्योगं द्विषद्दर्पम् अदीदपत्

2.34

स्वैर् एवादीदपच् चापि भूयो भूयो गुणैः कुलम् ।
प्रजा नादीदपच् चैव सर्वधर्मव्यवस्थया

2.35

अश्रान्तः समये यज्वा वज्ञभूमिम् अमीमपत् ।
पालनाच् च च्विजान् ब्रह्म निर्दुविग्नान् अमीमपत्

2.36

गुरुभिर् विधिवत्काले सौम्यः सोमम् अमीमपत् ।
तपसा तेजसा चैव द्विषत्सैन्यम् अमीमपत्

2.37

प्रजाः परमधर्म्ज्ञः सूक्ष्मं धर्मम् अवीवसत् ।
दर्शनाच् चैव धर्मस्य काले स्वर्गम् अवीवसत्

2.38

व्यक्तम् अप्य् अर्थकृच्छ्रेषु नाधर्मिष्ठम् अतिष्ठिपत् ।
प्रिय इत्य् एव चाशक्तं न संरागाद् अवीवृधत्

2.39

तेजसा च त्विषा चैव रिपून् दृप्तान् अभीभसत् ।
यशोदीपेन दीप्तेन पृथिवीं च व्यभीभसत्

2.40

आनृशंस्यान् न यशसे तेनादायि सदार्थिने ।
द्रव्यं महद् अपि त्यक्त्वा न चैवाकीर्ति किं चन

2.41

तेनारिर् आपि दुःखार्तो नात्याजि शरणागतः ।
जित्वा दृप्तान् अपि रिपून् न तेनाकारि विस्मयः

2.42

न तेनाभेदि मार्यादा कामाद् द्वेषाद् भयाद् अपि ।
तेन सत्स्व् अपि भोगेषु नासेवीन्द्रियवृत्तिता

2.43

न तेनार्दर्शि विषमं कार्यङ् क्व चन किं चन ।
विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः

2.44

तेनापायि यथाकल्पं सोमश् च यश एव च ।
वेदश् चाम्नायि सततं वेदोक्तो धर्म एव च

2.45

एवमादिभिर् अत्यक्तो बभूवासुलभैर् गुणैः ।
अशक्यशक्यसामन्तः शाक्यराजः स शक्रवत्

2.46

अथ तस्मिन् तथा काले धर्मकामा दिवौकसः ।
विचेरुर् दिशि लोकस्य धर्मचर्या दिदृक्षवः

2.47

धर्मात्मानश् चरन्तस् ते धर्मजिज्ञासया जगत् ।
ददृशुस् तं विशेषेण धर्मात्मानं नराधिपम्

2.48

देवेभ्यस् तुषितेभ्यो ऽथ बोधिसत्त्वः क्षितिं व्रजन् ।
उपपत्तिं प्रणिदधे कुले तस्य महीपतेः

2.49

तस्य देवी नृदेवस्य माया नाम तदाभवत् ।
वीतक्रोधतमोमाया मायेव दिवि देवता

2.50

स्वप्ने ऽथ समये गर्भम् आविशन्तं ददर्श सा ।
षड्दन्तं वारणं श्वेतम् ऐरावतम् इवौजसा

2.51

तं विनिर्दिदिषुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः ।
तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः

2.52

तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिनः ।
साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः

2.53

सूर्यरश्मिभिर् अक्लिष्टं पुष्पवर्षं पपात खात् ।
दिग्वारणकराधूताद् वनाच् चैत्ररथाद् इव

2.54

दिवि दुन्दुभयो नेदुर् दीव्यतां मरुताम् इव ।
दिदीपे ऽभ्यधिअं सूर्यः शिवश् च पवनो ववौ

2.55

तुतुषुस् तुषिताश् चैव शुद्धावासाश् च देवताः ।
सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया

2.56

समाययौ यशःकेतुं श्रेयःकेतुकरः परः ।
बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवान् इव

2.57

देव्याम् अपि यवीयस्याम् अरण्याम् इव पावकः ।
नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले

2.58

दीर्घबाहुर् महावक्षाः सिंहांसो वृसभेक्षनः ।
वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे

2.59

मधुमास इव प्राप्तश् चन्द्रो नअ इवोदितः ।
अङ्गवान् इव चानङ्गः स बभौ कान्तया श्रिया

2.60

स तौ संवर्धयामास नरेन्द्रः परया मुदा ।
अर्थः सज्जनहस्तस्थो धर्मकामौ महान् इव

2.61

तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ ।
आर्यस्यारम्भमहतो दर्मार्थाव् इव भूतये

2.62

तयोः सत्पुत्रयोर् मध्ये शाक्यराजो रराज सः ।
मध्यदेश इव व्यक्तो हिमवत्पारिपात्रयोः

2.63

ततस् तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश् च ।
कामेष्व् अजस्रङ् प्रममाद नन्दः सर्वार्थसिद्धस् तु न संररञ्ज

2.64

स प्रेक्श्यैव हि जीर्णम् आतुरङ् च मृतङ् च विमृशन् जगदन्भिज्ञम् आर्तचित्तः ।
हृदयगतपरघृणो न विषयरतिम् अगमज् जननमरणभयम् अभितो विजिघांसुः

2.65

उद्वेगाद् अपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः ।
निशि नृपतिनिलयनाद् वनगमन्कृत्मनाः सरस इव मथितनलिनात् कलहंसः

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc