सौन्दरानन्द · अध्याय 4
चन्तो इव्
मुनौ ब्रुवाञे ऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु ।
प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः
स चक्रवाक्येव हि चक्रवाकस् तया समेतः प्रियया प्रियार्हः ।
नाचिन्तयद् वैश्र्मणं न शक्रं तस्थानहेतोः कुत एव धर्मम्
लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति ।
दीप्त्या च मानेन च भामिनीति यतो बभाषे त्रिविधेन नाम्ना
सा हासहंसा नयन्द्विरेफा पीनस्तनात्युन्नतपद्मकोशा ।
भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण
रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन ।
मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः
सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश् च नन्दः ।
अतीत्य मर्त्यान् अनुपेत्य देवान् सृष्टाव् अभूताम् इव भूतधात्रा
तां सुन्दरीं चेन् न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः ।
द्वन्दं ध्रुवं तद् विकलं न शोभेतान्योन्यहीनाव् इव रात्रिचन्द्रौ
कन्दर्परत्योर् इव लक्ष्यभूतं प्रमोदनान्द्योर् इव नीडभूतम् ।
प्रहर्षतुष्ट्योर् इव पात्रभूतं द्वन्दं सहारंस्त मदान्धभूतम्
परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् ।
परस्पराश्लेषहृताण्गरागं परस्परं तन् मिथुनं जहार
भावानुरक्तौ गिरिनिर्झरस्थौ तौ किंनरीकिंपुरुषाव् इवोभौ ।
चिक्रीडतुश् चाभिविरेजतुश् च रूपश्रियान्योन्यम् इवाक्षिपन्तौ
अन्योन्यसंरागविवर्धनेन तद् द्वन्द्वम् अन्योन्यम् अरीरमच् च ।
क्लमान्तरे ऽन्योन्यविनोदनेन सलीलम् अन्योन्यम् अमीमदच् च
विभूषयाम् आस ततः प्रियां स सिषेविषुस् तां न मृजावहार्थम् ।
स्वेनैव रूपेण विभूषिता हि विभूषणानाम् अपि भुषणं सा
दत्त्वाथ सा दर्पणम् अस्य हस्ते ममाग्रतो धारय तावद् एनम् ।
विशेषकं यावद् अहं करोमीत्य् उवाच कान्तं स च तं बभार
भर्तुस् ततः श्मश्रु निरीक्षमाणा विशेषकङ् सापि चकार तादृक् ।
निश्वासवातेन च दर्पञस्य चिकित्सयित्वा निजघान नन्दः
सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास ।
भवेच् च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार
चिक्षेप कर्णोत्पलम् अस्य चांसे करेञ सव्येन मदालसेन ।
पत्त्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रे ऽस्य ताम् एव विनिर्दुधाव
ततश् चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोधासितराङ्गुलिभ्याम् ।
पध्यां प्रियाया नलिनोपमाभ्यां मूर्ध्ना भयान् नाम ननाम नदः
स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे ।
सुवर्णवेद्याम् अनिलावभग्नः पुष्पातिभाराद् इव नागवृक्षः
सा तं स्तनोद्वर्तितहारष्टिर् उत्थापयाम् आस निपीड्य दोर्भ्याम् ।
कथं कृतो ऽसीति जहास चोच्चैर् मुखेन साचीकृतकुण्डलेन
पत्युस् ततो दर्पणसक्तपाणेर् मुहुर्मुहुर् वक्त्रम् अवेक्षमाणा ।
तमालपत्त्रार्द्रतले कपोले समापयामास विशेषकं तत्
तस्या मुखङ् तत् सतमालपत्त्रङ् ताम्राधरौष्ठं चिकुरायताक्षम् ।
रक्ताधिकाग्रं पतितद्विरेफङ् सशैवलङ् पद्मम् इवाबभासे
नन्दस् ततो दर्पणम् आदरेण बिभ्रत् तदामण्डनसाक्षिभूतम् ।
विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श
तत् कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टम् इवारविन्दम् ।
नन्दः प्रियाया मुखम् ईक्षमाणो भूयः प्रियानन्दकरो बभूव
विमानकल्पे स विमानगर्भे ततस् तथा चैव नन्दन नन्दः ।
तथागतश् चागतभैक्षकालो भैक्षाय तस्य प्रविवेष वेश्म
अवाङ्मुखो निष्प्रणयश् च तस्थौ भ्रातु गृहे ऽन्यस्य गृहे यथैव ।
तस्माद् अथो प्रेष्यजनप्रमादाद् भिक्षाम् अलब्धैव पुनर् जगाम
का चित् पिपेषाङ्गविलेपनं हि वासो ऽङ्गना का चिद् अवासयच् च ।
अयोजयत् स्नानविधिं तथान्या जग्रन्थुर् अन्याः सुरभीः स्रजश् च
तस्मिन् गृहे भर्तुर् अतश् चरन्त्यः क्रीडानुरूपं ललितं नियोगम् ।
काश् चिन् न बुद्धं ददृशुर् युवत्यो बुद्धस्य वैषा नियतङ् मनीषा
का चित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः ।
विनिष्पतन्तं सुगतं ददर्श पयोदगर्भाद् इव दीप्तम् अर्कम्
सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश् च ।
नन्दस्य तस्थौ पुरतो विवक्षुस् तदाज्ञया चेति तदाचचक्षे
अनुग्रहायास्य जनस्य शङ्के गुरुर् गृहं नो भगवान् प्रविष्टः ।
भिक्षाम् अलब्ध्वा गिरम् आसनं वा सून्याद् अरण्याद् इव याति भूयः
श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनःप्रयाणम् ।
चचाल चित्राभरणाम्बरस्रक् कल्पद्रुमो धूत इवानिलेन
कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे ।
कर्तुं गमिष्यामि गुरौ प्रणामं माम् अभ्यनुज्ञातुम् इहार्हसीति
सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव ।
ददर्श चाशुप्लुतलोलनेत्रा दीर्घं च निश्वस्य वचो ऽभ्युवाच
नाहं यियासोर् गुरुदर्शनार्थम् अर्हामि कर्तुं तव धर्मपीडाम् ।
गच्छार्यपुत्रैहि च शीघ्रम् एव विशेषको यावद् अयङ् न शुष्कः
सचेद् भवेस् त्वं खलु दीर्घसूत्रो दण्दं महान्तं त्वयि पातयेयम् ।
मुहुर्मुहुस् त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम्
अथाप्य् अनाश्यानविशेषकायां मय्य् एष्यसि त्वं त्वरितं ततस् त्वाम् ।
निपीडयिष्यामि भुजद्वयेन निर्भूषञेनार्द्रविलेपनेन
इत्य् एवम् उक्तश् च निपीडितश् च तयासवर्णस्वनया जगाद ।
एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर् दूरगतो न मे सः
ततः स्तनोद्वर्तितचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन ।
विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर् बभार
सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी ।
स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तस्ं मृगं भ्रान्तं मृगङ् भ्रान्तं मुखी मृगीव
दिदृक्षयाक्षिप्तमना मुनेस् तु नन्दः प्रयाणं प्रति तत्वरे च ।
विवृत्तदृष्टिश् च शनैर् ययौ तां करीव पश्यन् स लडत्करेञुम्
छातोदरिं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीम् इवाद्रेः ।
काक्षेण पश्यन् न ततर्प नन्दः पिबन्न् इवैकेन जलं करेण
तङ् गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनर् आचकर्ष ।
स ऽनिश्चयान् नापि ययौ न तस्थौ तुरंस् तरङ्गेष्व् इव राजहंसः
अदर्शनं तूपगतश् च तस्या हर्म्यात् ततश् चावततार तूर्णम् ।
श्रुत्वा ततो नूपुरनिस्वनं स पुनर् ललम्बे हृदये गृहीतः
स कामरागेञ निगृह्यमाणो धर्मानुरागेञ च कृष्यमाणः ।
जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्रोत इवापगायाः
ततः क्रमैर् दीर्घतमैः प्रचक्रमे कतं नु यातो न गुरुर् भवेद् इति ।
स्वजेय तां चैव विशेषकप्रियां कथं प्रियाम् आर्द्रविशेषकाम् इति
अथ स पथि ददर्श मुक्तमानं पितृनगरे ऽपि तथागताभिमानम् ।
दशबलम् अभितो विलम्बमानं ध्वजम् अनुयान इवैन्द्रम् अर्च्यमानम्
मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0