सौन्दरानन्द · अध्याय 1
चन्तो इ
ओं नमो बुद्धाय ॥
चन्तो इ
गौतमः कपिलो नाम मुनि धर्मभृतां वरः ।
बभूव तपसि श्रान्तः काक्षीवान् इव गौतमः
अशिश्रियद् यः सततं दीप्तं काश्यपवत् तपः ।
आशिश्राय च तद्वृद्धौ सिद्धिम् काश्यपवत् पराम्
हविःषु यश् च स्वात्मार्थं गाम् अधुक्षद् वसिष्ठवत् ।
तपःशिष्टेषु च शिष्येषु गाम् अधुक्षद् वसिष्ठवत् ।
माहात्म्याद् दीर्घतपसो यो द्वितीय इवाभवत्
तृतीय इव यश् चाभूत् कायाङ्गिरसयोर् धिया
तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे ।
क्षेत्रं चायतनं चैव तपसाम् आश्रमो ऽभवत्
चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः ।
हविर्धूमवितानेन यः सदाभ्र इवाबभौ
मृदुभिः सैकतैः स्निग्धैः केसरातरपाण्डुभिः ।
भूमिभागैर् असंकीर्णैः साङ्गराग इवाभवत्
शुचिभिस् तीर्थसंख्यातैः पावनैर् भावनैर् अपि ।
बन्धुमान् इव यस् तस्थौ सरोभिः ससरओरुहैः
पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः ।
शुशुभे ववृधे चैव नरः साधनवान् इव
नीवारफलसंतुष्टैः स्वस्थैः शान्तैर् अनुत्सुकैः ।
अकीर्णो ऽपि तपोभृधिभिः शून्यशून्य इवाभवत्
अग्नीनां हूयमानानां शिखिना कूजताम् अपि ।
तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निस्वनः
विरेजुर् हरिणा यत्र सुप्ता मेध्यासु वेदिषु ।
सलाजैर् माधवीपुष्पैर् उपहाराः कृता इव
अपि क्षुद्रमृगा यत्र सान्ताश् चेरुः समं मृगैः ।
शरञ्येभ्यस् तपस्विभ्यो विनयङ् शिक्षिता इव
संदिग्धे ऽप्य् अपुनर्भावे विदुध्हेष्व् आगमेष्व् अपि ।
प्रत्यक्षिण इवाकुर्वंस् तपो यत्र तपोधनाः
यत्र स्म मीयते ब्रह्म कैश् चित् कैश् चिन् न मीयते ।
काले निमीयते सोमो न चाकाले प्रमीयते
निरपेक्षाः शरिरेषु धर्मे यत्र स्वभुद्धयः ।
संहृष्टा इव यत्नेन तापसास् ते पिरे तपः ॥ सौन्द्_1.16
श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः ।
तपोरागेण धर्मस्य विलोपम् इव चक्रिरे
अथ तेजविसदनं तपःक्षेत्रं तम् आश्रमम् ।
केचिद् इक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः
सुवर्णस्तम्भवर्ष्माणः सिंहोरस्का महाभुजाः ।
पात्रं शब्दस्य महतः श्रियां च विनयस्य च
अर्हरूपा ह्य् अनर्हस्य महात्मानश् चलात्मनः ।
प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृयस्य यवीयसः
मातृशुल्काद् उपगतां ते श्रियं न विषेहिरे ।
ररक्षुश् च पितुः कौत्सास् ते भवन्ति स्म गौतमाः
एकपित्रोर् यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् ।
राम एवाभवद् गार्ग्यो वासुभद्रो ऽपि गौतमः
शाक्रवृक्षप्रतिच्छन्नं वासं यस्माच् च चक्रिरे ।
तस्माद् इक्ष्वाकुवंश्यास् ते भुवि शाक्य इति स्मृताः
स तेषां गौतमश् चक्रे स्ववंशसदृशीः क्रियाः ।
मुनिर् ऊर्ध्वं कुमारस्य सगरस्येव भार्गवः
कण्वः शाकुन्तलस्येव भरतस्य तरस्विअः ।
वाल्मीकिर् इव धीमांश् च धीमतोर् मैथिलेययोः
तद्वनं मुनिना तेन तैश् च क्षत्रियपुङ्गवैः ।
शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे
अथोदकलशं गृह्य तेषा वृद्धिचिकीर्षया ।
मुनिः स वियद् उत्पत्य तान् उवाच नृपात्मजान्
या पतेत् कलशाद् अस्माद् अक्षय्यसलिलान् महीम् ।
धारा ताम् अनतिक्रम्य माम् अन्वेत यथाक्रमम्
ततः परमम् इत्य् उक्त्वा शिरोभिः प्रणिपत्य च ।
रथान् आरुरुहुः सर्वे शीघ्रवाहान् अलङ्क्रृतान्
ततः स तैर् अनुगतः स्यन्दनस्थैर् नभोगतः ।
तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा
अष्टापदम् इवालिख्य निमित्तैः सुर्भीकृतम् ।
तान् उवाच मुनिः स्थित्वा भूमिपालसुतान् इदम्
अस्मिन् धारापरिक्षिप्ते नेमिचिह्नितलक्षणे ।
निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम्
ततः कदाचित् ते वीरास् तस्मिन् प्रतिगते मुनौ ।
बभ्रमुर् यौवनोद्दामा गजा इव निरङ्कुशाः
बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः ।
शराध्मातमहातूणा व्यायताबद्धवाससः
जिज्ञासमाना नागेषु कौशलं श्वापदेषु च ।
अनुचक्रुर् वनस्थस्य दौष्मन्तेर् देवक्रमणः
तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान् व्याघ्रशिशून् इव ।
तापसास् तद्वनर्ह् हित्वा हिमवन्तर्ह् सिषेविरे
ततस् तदाश्रमस्थानं शून्यर्ह् तैः शून्यचेतसः ।
पश्यन्तो तदाश्रमस्थानर्ं शून्यं तैः निशश्वसुः
अथ ते पुण्यकर्माणः प्रत्युपस्थिरवृद्धयः ।
तत्र तज्ज्ञैर् उपाख्यातान् अवापुर् महतो निधीन्
अलं धर्मार्थकामानां निखिलानाम् स्वाप्तये ।
निधयो नैकविधयो भूरयस् ते गतारयः
ततस् तत्प्रतिलम्भाच् च परिणामाच् च कर्मणः ।
तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन् न्यवेशयन्
सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथम् ।
शैलकल्पमहावप्रं गिविरजम् इवापरम्
पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् ।
हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेर् इव
वेदवेदाङ्गविदुषस् तस्थुषः षट्सु कर्मसु ।
शान्तये वृद्धये चैव यत्र विप्रान् अजीत्जपन्
तद्भूमेर् अभियोक्तॄणां प्रयुक्तान् विनिवृत्तये ।
यत्र स्वेन प्रभावेन भृत्यदण्डान् अजीत्जपन्
चारित्रधन्संपन्नान् सलज्जान् दीर्घदर्शिनः ।
अर्हतो ऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः
व्यस्तैस् तैस् तैर् गुञैर् युक्तान् मतिवाग्विक्रमादिभिः ।
कर्मसु पतिरूपेषु सैचांस् तान् न्ययूयुजन्
वसुमद्भिर् अविभ्रान्तैर् अलंविद्यैर् अविस्मितैः ।
यद् बभासे नरैः कीर्णं मन्दरः किन्नरैर् इव
यत्र ते हृष्टमनसः पौरप्रीतिच्कीर्षया ।
श्रीमन्त्य् उद्यानसंज्ञानि यशोधामान्य् अचीकरन्
श्वाः पुष्करिणीश् चैव परमाग्र्यगुणाम्भसः ।
नाज्ञाया चेतनोत्कर्षाद् दिक्षु सर्वास्व् अचीखनन्
मनोज्ञाः श्रीमतिः प्रश्ठीः पथिषूपवनेषु च ।
सभाः कूपवतीश् चैव समन्तात् प्रत्यतिष्ठिपन्
हस्त्यश्वरथसकीर्णम् असंकीर्णम् अनाकुलम् ।
अनिगूढार्थिविभवं निगूढज्ञानपौरुषम्
संनिधानम् इवार्थानाम् आधानम् इव तेजसाम् ।
निकेतम् इव विद्यानां संकेतम् इव संपदाम्
वासवृक्षं गुणवताम् आश्रयं शरणैषिआम् ।
आनर्तं कृतशास्त्राणाम् आलानं बाभुशालिनाम्
समाजैर् उत्सवैर् दायैः क्रियाविधिभिर् एव च ।
अलञ्चक्रुर् अलंवीर्यास् ते जगद्धाम तत्पुरम्
यस्माद् अन्यायतस् ते च कं चिन् नाचीकरन् करम् ।
तस्माद् अल्पेन कालेन तत् तदापूपुरन् पुरम्
कपिलस्य च तस्यर्षेस् तस्मिन्न् आश्रमवास्तुनि ।
यस्मात् ते तत्पुरं चक्रुस् तस्मात् कपिलवास्तु तत्
ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे ।
पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत्
आपुः पुरं तत्पुरुहूतकल्पास् ते तेजसार्येण न विस्मयेन ।
आपुर् यशोगन्धम् अतश् च शश्वत् सुता ययातेर् इव कीर्तिमन्तः
तन्नाथवृत्तैर् अपि राजपुत्रैर् अराजकं नैव रराज राष्ट्रम् ।
तारासहस्रैर् अपि दीप्यमानैर् अनुत्थिते चन्द्र इवान्तरीक्षम्
यो ज्यायान् अथ वयसा गुणैश् च तेषां भ्रातॄणां वृषभ इवौजसा वृषाणाम् ।
ते तत्र प्रियगुरुवस् तम् अभ्यषिञ्चन्न् आदित्या दशशतलोचनं दिवीव
आचारवान् विनयवान् नयवान् क्रियावान् धर्माय नेन्द्रियदुखाय धृतात्परः ।
तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रं संक्रन्दनो दिवम् इवानुष्र्तो मरुद्भिः
मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0