भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 14

14.1

सौन्दरनन्दे महाकाव्ये शीलेन्द्रियजयो नाम त्रयोदशः सर्गः ।
चन्तो xइव्
अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम् ।
भोजने भव मात्राज्ञो ध्यानायानामयाय च

14.2

प्राणापानौ निगृह्णाति ग्लानिनिद्रे प्रयच्छति ।
कृतो ह्य् अत्यर्थम् आहारो विहन्ति च पराक्रमम्

14.3

यथा चात्यर्थम् आहारः कृतो ऽनर्थाय कल्पते ।
उपयुक्तस् तथात्यल्पो न सामर्थ्याय कल्पते

14.4

आचयं द्युतिम् उत्साहं प्रयोगं बलम् एव च ।
भोजनं कृतम् अत्यल्पं शरीरस्यापकर्षति

14.5

यथा भारेण नमते लघुनोन्नमते तुला ।
समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः

14.6

तस्माद् अभ्यवहर्तव्यं स्वशक्तिम् अनुपश्यता ।
नातिमात्रं न चात्यल्पं मेयं मानवशाद् अपि

14.7

अत्याक्रान्तो हि कायाग्निर् गुरुणान्नेन शाम्यति ।
अवच्छन् न इवाल्पो ऽग्निः सहसा महतेन्धसा

14.8

अत्यन्तम् अपि संहारो नाहारस्य प्रशस्यते ।
अनाहारो हि निर्वाति निरिन्धन इवानलः

14.9

यस्मान् नास्ति विनाहारात् सर्वप्राणभृतां स्थितिः ।
तस्माद् दुष्यति नाहारो विकल्पो ऽत्र तु वार्यते

14.10

न ह्य् एवक्विषये ऽन्यत्र सज्यन्ते प्राणिनस् तथा ।
अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम्

14.11

चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी ।
क्षुद्विघातार्थम् आहारस् तद्वत् सेव्यो मुमुक्षुना

14.12

भारस्योद्वहनार्थं च रथाक्षो ऽभ्यज्यते यथा ।
भोजनं प्राणयात्रार्थं तद्वद् विद्वान् निषेवते

14.13

समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ ।
पुत्रमांसानि खादेतां दम्पती भृषदुःखितौ

14.14

एवम् अभ्यवहर्तव्यं भोजनं प्रतिसंख्यया ।
न भूषार्थं न वपुषे न मदाय न दृप्तये

14.15

धारणार्थं शरीरस्य भोजनं हि विधियते ।
उपस्तम्भः पिपतिषोर् दुर्बलस्येव वेश्मनः

14.16

प्लवं यत्नाद् यथा कश् चिद् बध्नीयाद् धारयेद् अपि ।
न तत्स्नेहेन यावत् तु महौघस्योत्तीर्षया

14.17

तथोपकरणैः कायं धारयन्ति परिक्षकाः ।
न तत्स्नेहेन यावत् तु दुःखौघस्य तितीर्षया

14.18

शोचता पीड्यमानेन दीयते शत्रवे यथा ।
न भक्त्या नापि तर्षेन केवलं प्राणगुप्तये

14.19

योगाचारस् तथाहारं शरिराय पयच्छति ।
केवलं क्षुद्विघातार्थं न रागेण न भक्तये

14.20

मनोधारणया चैव परिणाम्यात्मवान् अहः ।
विधूय निद्रां योगेन निशाम् अप्य् अतिनामयेः

14.21

हृर्दि यत्संज्ञिनश् चैव निद्रा प्रादुर्भवेत् तव ।
गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः

14.22

धातुर् आरम्भधृत्योश् च स्थामविक्रमयोर् अपि ।
नित्यं मनसि कार्यस् ते बाध्यमानेन निद्रया

14.23

आम्नातव्याश् च विशदं ते धर्मा ये परिश्रुताः ।
परेभ्यश् चोपदेष्टव्याः संचिन्त्याः स्वयम् एव च

14.24

प्रक्लेद्यमद्भिर् वदन्ं विलोक्याः सर्वतो दिशः ।
चार्या दृष्टिश् च तारासु जिजागरिषुणा सदा

14.25

अन्तर्गतैर् अचपलैर् वशस्थायिभिर् इन्द्रियैः ।
अविक्षिप्तेन मनसा चङ्क्रम्यवास्व वा निशि

14.26

भये प्रीतौ च शोके च निद्रया नाभिभूयते ।
तस्मान् निद्राभियोगेषु सेवितव्यम् इदं त्रयम्

14.27

भयम् आगमनान् मृत्योः प्रीतिं धर्मपरिग्रहात् ।
जन्मदुःखाद् अपर्यन्ताच् छोकम् आगन्तुम् अर्हसि

14.28

एवमादि क्रमः सौम्य कार्यो जागरणं प्रति ।
वन्ध्यं हि शयनाद् आयुः कः प्राज्ञः कर्तुम् अर्हति

14.29

दोषव्यालान् अतिक्रम्य व्यालान् गृहगतान् इव ।
क्षमं प्राज्ञस्य न स्वप्तुं निस्तीर्षोर् महद्भयम्

14.30

प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः ।
कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि

14.31

तस्मात् तम इति ज्ञात्वा निद्रां नावेष्टुम् अर्हसि ।
अप्रशान्तेषु दोषेषु सशस्त्रेष्व् इव शत्ग्रुषु

14.32

पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु ।
सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा

14.33

दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया ।
प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः

14.34

यामे तृतीये चोत्थाय चरन्न् आसीन एव वा ।
भूयो योगं महःशुद्धौ कुर्वीथा नियतेन्द्रियः

14.35

अथासनगतस्थानप्रेक्षितव्याहृतादिषु ।
संप्रजानन् क्रियाः सर्वाः स्मृतिम् आधातुम् अर्हसि

14.36

द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः ।
धर्षयन्ति न तं दोषाः पुरं गुप्तम् इवारयः

14.37

न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः ।
चित्तं सर्वास्व् अवस्थासु बालं धात्रीव रक्षति

14.38

शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा ।
रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा

14.39

अनाथं तन् मनो ज्ञेयं यत् स्मृतिर् नाभिरक्षति ।
निर्णेता दृष्टिरहितो विषमेषु चरन्न् इव

14.40

अनर्थेषु प्रसक्ताश् च स्वार्थेभ्यश् च पराङ्मुखाः ।
यद् भये सति नोद्विग्नाः स्मृतिनाशो ऽत्र कारणम्

14.41

स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः ।
विकीर्णा इव गा गोपः स्मृतिस् तान् अनुगच्छति

14.42

प्रनष्टम् अमृतं तस्य यस्य क्विप्रसृता स्मृतिः ।
हस्तस्थम् अमृतं तस्य यस्य कायगता स्मृतिः

14.43

आर्यो न्यायः कुतस् तस्य स्मृतिर् यस्य न विद्यते ।
यस्यार्यो नास्ति च न्यायः प्रनष्टस् तस्य सत्पथः

14.44

प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् ।
प्रनष्टम् अमृतङ् यस्य स दुःखान् न विमुच्यते

14.45

तस्माच् चरन् चरो ऽस्मीति स्थितो ऽस्मिति च धिष्ठितः ।
एवमादिषु कालेषु स्मृतिम् आधातुम् अर्हसि

14.46

यगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व ।
कायस्य कृत्वा हि विवेकम् आदौ सुखो ऽधिगन्तुं मनसो विवेकः

14.47

अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम् ।
स क्षण्यते ह्य् अपर्तिलब्धमार्गश् चरन्न् इवोर्यां बहुकण्टकायाम्

14.48

अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे ।
चित्तं निषेद्धुं न सुखेन श्क्यं कृश्टादको गौर् इव सस्यमध्यात्

14.49

अनीर्यमाणस् तु यथानिलेन प्रशान्तिम् आगच्छति चित्रभानुः ।
अल्पेन यत्नेन तथा विविक्तेष्व् अघट्टितं शान्तिम् उपैति चेतः

14.50

क्व चिद् भुक्त्वा यत् तद् वसनम् अपि यत् तत् परिहितो
वसन्न् आत्मारामः क्व चन विजने यो ऽभिरमते ।
कृतार्थः सज् ञेयः शमसुखरसज्ञः कृतमतिः
परेषां संसर्गं परिहरति यः कण्टकम् इव

14.51

यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये
विविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः ।
ततः पीत्वा प्रज्ञारसम् अमृतवत् तृप्तहृदयो
विविक्तः संसक्तं विषयकृपणं शोचति जगत्

14.52

वसञ् शुण्यागारे यदि सततम् एको ऽभिरमते
यदि क्लेशोत्पादैः सह न रमते शत्रुभिर् इव ।
चरन्न् आत्मारामो यदि च पिबति प्रीतिसलिलं
ततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्याद् अपि सुखम्

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc