भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 15

15.1

सौन्दरनन्दे महाकाव्य आदिप्रस्थानो नाम चतुर्दशः सर्गः ।
चन्तो xव्
यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कम् उत्तमम् ।
ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः

15.2

नासाग्रे वा ललाटे वा भ्रुवोर् अन्तर एव वा ।
कुर्वीथाश् चपलं चित्तम् आलम्बनपरायणम्

15.3

सचेत् कामवितर्कस् त्वां धर्षयेन् मानसो ज्वरः ।
क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुर् इवागतः

15.4

यद्य् अपि प्रतिसंख्यानात् कामान् उत्सृष्टवान् असि ।
तमांसीव प्रकाशेन प्रतिपक्षेण ताञ् जहि

15.5

तिष्ठत्य् अनुशयस् तेषां छन्नो ऽग्निर् इव भस्मना ।
स ते भावनया सौम्य प्रशाम्यो ऽग्निर् इवाम्बुना

15.6

ते हि तस्मात् प्रवर्तन्ते भूयो बीजाद् इवाङ्कुराः ।
तस्य नाशेन ते न स्युर् बीजनाशाद् इवाङ्कुराः

15.7

अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् ।
तस्मात् तान् मूलतश् छिन्धि मित्रसंज्ञान् अरीन् इव

15.8

अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः ।
बहुसाधारणाः कामा बर्ह्या ह्य् आशिविषा इव

15.9

ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये ।
भ्रष्टाः शोकाय महते प्राप्ताश् च न वितृप्तये

15.10

तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् ।
कामेभ्यश् च सुखोत्पत्तिं यः पश्यति स नश्यति

15.11

चलान् अपरिनिष्पन्नान् असारान् अनवस्थितान् ।
परिकल्पसुखान् कामान् न तान् स्मर्तुम् इहार्हसि

15.12

व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः ।
प्रसाद्यं तद् विपक्षेन मणिनेवाकुलं जलम्

15.13

प्रतिपक्षस् तयोर् ज्ञेयो मैत्री कारुण्यम् एव च ।
विरोधो हि तयोर् नित्यं प्रकाशतमसोर् इव

15.14

निवृत्तं यस्य दुःशील्यं व्यापादश् च प्रवर्तते ।
हन्ति पांसुभिर् आत्मानां स स्नात इव वारणः

15.15

दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः ।
आर्यः को दुःखम् अपरं सघृणो धातुम् अर्हति

15.16

दुष्टेन चेह मनसा बाध्यते वा परो न वा ।
सद्यस् तु दह्यते तावत् स्वं मनो दुष्टचेतसः

15.17

तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यम् एव च ।
न व्यापादं विहिंसां वा विकल्पयितुम् अर्हसि

15.18

यद् यद् एव प्रसक्तं हि वितर्कयति मानवः ।
अभ्यासात् तेन तेनास्य नतिर् भवति चेतसः

15.19

तस्माद् अस्कुशलं त्यक्त्वा कुशलं ध्यातुम् अर्हसि ।
यत् ते स्याद् इह चार्थाय परमार्थस्य चाप्तये

15.20

संवर्धन्ते ह्य् अकुशला वितर्काः संभृता हृर्दि ।
अनर्थजनकास् तुल्यम् आत्मनश् च परस्य च

15.21

श्रेयसो विघ्नकरणाद् भवन्त्य् आत्मविपत्तये ।
पात्रीभावोपघातात् तु परभक्तिविपत्तये

15.22

मनःकर्मस्व् अविक्षेपम् अपि चाभ्यस्तुम् अर्हसि ।
न त्व् एवाकुशलं सौम्य वितर्कयितुम् अर्हसि

15.23

या त्रिकामोपभोगाय चिन्ता मनसि वर्तते ।
न च तं गुणम् आप्नोति बन्धनाय च कल्पते

15.24

सत्त्वानाम् उपघाताय परिक्लेषाय चात्मनः ।
मोहं व्रजति कालुष्यं नरकाय च वर्तते

15.25

तद्वितर्कैर् अकुशलैर् नात्मानं हन्तुम् अर्हसि ।
सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्न् इव

15.26

अनभिज्ञो यथा जातं दहेद् अगुरु काष्ठवत् ।
अन्यायेन मनुष्यत्वम् उपहन्याद् इदं तथा

15.27

त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच् च संहरेत् ।
त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेद् अशुभं तथा

15.28

हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् ।
मनुष्यतं तथा प्राप्य पापं सेवेत नो शुभम्

15.29

तद् बुद्ध्वा प्रतिकषेण वितर्कं क्षेप्तुम् अर्हसि ।
सूक्ष्मेण परिकीलेन किलं दार्वन्तराद् इव

15.30

वृध्ह्यवृद्ध्योर् अथ भवेच् चिन्ता ज्ञातिजनं प्रति ।
स्वभावो जीवलोकस्य परीक्ष्यस् तन्निवृत्तये

15.31

संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा ।
को जनः स्वजनः को वा मोहात् सक्तो जने जनः

15.32

अतीते ऽध्वनि संवृत्तः स्वजनो हि जनस् तव ।
अप्राप्ते चाध्वनि जनः स्वजनस् ते भविष्य्ति

15.33

विहगाना यथा सायं तत्र तत्र समागमः ।
जातौ जातौ तथा श्लेषो जनस्य स्वजनस्य च

15.34

परिश्रयं अभुविधं संश्रयन्ति यथाध्वगाः ।
प्रातियान्ति पुनस् त्यक्त्वा तद्वज् ज्ञातिसमागमः

15.35

लोके प्रकृतिभिन्ने ऽस्मिन् न कश् चित् कस्य चित् प्रियः ।
कार्यकारञसंबद्धं बालुकामुष्टिवज् जगत्

15.36

बिभर्ति हि सुतं माता धरयिष्यति माम् इति ।
मातरं भजते पुतृओ गर्भेणाधत्त माम् इति

15.37

अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा ।
तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात्

15.38

अहितो दृष्यते ज्ञातिर् अज्ञातिर् हितः ।
स्नेहं कार्यान्तराल् लोकश् छिनत्ति च करोति च

15.39

स्वयम् एव यथालिक्य रज्येच् चित्रकरः स्त्रियम् ।
तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः

15.40

यो ऽभवद् बान्धवजनः परलोके प्रियस् तव ।
स ते कम् अर्थं कुरुते त्वं वा तस्मै करोषि कम्

15.41

तस्माज् ज्ञात्वितर्केण मनो नावेष्टुम् अर्हसि ।
व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च

15.42

असौ क्षेमो जनपदः सुभिक्षो ऽसाव् असौ शिवः ।
इत्य् एवम् अथ जायेत वितर्कस् तव कश् चन

15.43

प्रहेयः स त्वया सौम्य नाधिवास्यः कथं चन ।
विदित्वा सर्वम् आदीप्तं तैस् तैर् दोषाग्निभिर् जगत्

15.44

ऋतुचक्रनिवर्ताच् च क्षुत्पिपासाक्लमाद् अपि ।
सर्वत्र नियतं दुःखं न क्व चिद् विद्यते शिवम्

15.45

क्व चिच् छितं क्व चिद् धर्मः क्व चिद् रोगो भयं क्व चित् ।
बाधते ऽभ्यधिकं लोके तस्माद् अशरणं जगत्

15.46

जरा व्याधिश् च मृत्युश् च लोकस्यास्य महद्भयम् ।
नास्ति देशः स यत्रास्य तद्भयं नोपपद्यते

15.47

यत्र गच्छति कायो ऽयं दुःखं तत्रानुगच्छति ।
नास्ति का चिद् गतिर् लोके गतो यत्र न बाधय्ते

15.48

रमणीयो ऽपि देशः सन् दुभिक्षः क्षेम एव च ।
कुदेश इति विज्ञेयो यत्र क्लेशैर् विधयते

15.49

लोकस्याभ्याहत्स्यास्य दुःखैः शरीरमानसैः ।
क्षेमः कश् चिन् न देशो ऽस्ति स्वस्थो यत्र गतो भवेत्

15.50

दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा ।
छन्दरागम् अतः सौम्य लिकचित्रेषु मा कृथाः

15.51

यदा तस्मान् निवृत्तस् ते छन्दरागो भविष्यति ।
जीवलोकं तदा सर्वम् आदीप्तम् इव मंस्यसे

15.52

अथस् कश् चिद् वितर्कस् ते भवेद् अमरणाश्रयः ।
यत्नेन स विहन्तव्यो व्याधिर् आत्मगतो यथा

15.53

मुहूर्तम् अपि विश्रम्भः कार्यो न खलु जीविते ।
निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः

15.54

बलस्थो ऽहं युवा वेति न ते भवितुम् अर्हति ।
मृत्युः सर्वास्व् अवस्थासु हन्ति नावेक्षते वयः

15.55

क्षेत्रभूतम् अनर्थानां शरीरं परिकर्षतः ।
स्वास्थ्याशा जिविताश वा न दृष्टार्थस्य जायते

15.56

निवृतः को भवेत् कायं महाभूताश्रयं वहन् ।
परस्परविरुद्धानाम् अहिनाम् इव भाजनम्

15.57

प्रश्वसित्य् अयम् अन्वक्ष यद् उच्छ्वसिति मानवः ।
अवगच्छ तद् आश्चर्यम् अविश्वास्यं हि जीवितम्

15.58

इदम् आश्चर्यम् अपरं यत् सुप्तः प्रतिबुध्यते ।
स्वपित्य् उत्थाय वा भूयो बह्वमित्रा हि देहिनः

15.59

गर्भात् प्रभृति यो लोकं जिघांसुर् अनुगच्छति ।
कस् तस्मिन् विश्वसेन् मृत्याव् उद्यतासाव् अराव् इव

15.60

प्रसूतः पुरुषो लोके श्रुतवान् बलवान् अपि ।
न जयत्य् अन्तकं कश् चिन् नाजयन् नापि जेष्यति

15.61

साम्ना दानेन भेदेन दण्डेन नियमेन वा ।
प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते

15.62

तस्मान् नायुषि विश्वासं चञ्चले कर्तुम् अर्हसि ।
नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते

15.63

निःसारं पश्यतो लोकं तोयबुद्बुददुर्बलम् ।
कस्यामरवितर्को हि स्याद् अनुन्मत्तचेतसः

15.64

तस्माद् एषां वितर्काणां प्रहाणार्थं समासतः ।
आनापानस्मृतिं सौम्य विषयीकर्तुम् अर्हसि

15.65

इत्य् अनेन प्रयोगेण काले सेवितुम् अर्हसि ।
प्रतिपक्षान् वितर्काणां गदानाम् अगदान् इव

15.66

सुवर्णहेतोर् अपि पांसुधावको विहाय पांसून् बृहतो यथादितः ।
जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य हेमावयवान् नियच्छति

15.67

विमोक्षहेतोर् अपि युक्तमानसो विहाय दोषा बृहतस् तथादितः ।
जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य धर्मावयान् नियच्छति

15.68

क्रएणाद्भिः शुद्धं कनकम् इह पांसुव्यवहितं
यथाग्नौ कर्मारः पचति भृषम् आवर्तयति च ।
तथा योगाचारो निपुञम् इह दोषव्यवहितं
विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च

15.69

यथा च स्वच्छन्दाद् उपनयति कर्माश्रयसुखं
सुवर्णं कर्मारो बहुंविधम् अलङ्कारविधिषु ।
मनःशुद्धो भिक्षुर् वशगतम् अभिज्ञास्व् अपि तथा
यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc