भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 13

13.1

सौन्दरनन्दे महाकाव्ये पर्यवमर्शो नाम द्वादशः सर्गः ।
चन्तो xइइइ
अथ संराधितो नन्दः श्रद्धां प्रति महर्षिना ।
परिक्षिक्तो ऽमृतेनेव युयुजे परया मुदा

13.2

कृतार्थम् इव तं मेने संबुद्धः श्रद्धया तया ।
मेने प्राप्तम् इव श्रेयः स च बुद्धेन संस्कृतः

13.3

श्लक्ष्णेन वचसा कांश् चित् कांश् चित् परुषया गिरा ।
कांश् चिद् आभ्याम् उपायाभ्यां स विनिन्ये विनायकः

13.4

पांसुभ्यः काञ्चनं जातं विशुद्धं निर्मलं शुचि ।
स्थितं पांसुष्व् अपि यथा पांसुदोषैर् न लिप्यते

13.5

पद्मपर्णं यथा चैव जले जातं जले स्थिथम् ।
उपरिष्टाद् अधस्ताद् वा न जलेन्दोपलिप्यते

13.6

तद्वल् लोके मुनिर् जातो लोकस्यानुग्रहं चरन् ।
कृतित्वान् निर्मलत्वाच् च लोकधर्मैर् न लियते

13.7

श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानम् एव च ।
मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये

13.8

अतश् च संदधे दायं महाकरुणया तया ।
मोचयेयं कथं दुःखात् सत्त्वानीत्य् अनुकम्पकः

13.9

अथ संहर्षणान् नदं विदित्वा भाजनीकृतम् ।
अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम्

13.10

अतः प्रभृति भूयस् त्वं श्रद्धेन्द्रियपुरःसरः ।
अमृतस्याप्तये सौम्य वृत्तं रक्षितुम् अर्हसि

13.11

प्रयोगः कायवचसोः शुद्धो भवति ते यथा ।
उत्तानो निवृतो गुप्तो ऽनवच्छिद्रस् तथा कुरु

13.12

उत्तानो भावकरञाद् विवृतश् चाप्य् अगूहनात् ।
गुप्तो रक्षणतात्पर्याद् अच्छिद्रश् चानवद्यतः

13.13

शरीरवचसोः शुद्धौ सप्ताङ्गे चापि कर्मणि ।
आजीवसमुदाचारं शौचात् संस्कर्तुम् अर्हसि

13.14

दोषानां कुहनादीनां पञ्चानाम् अनिषेवणात् ।
त्यागाच् च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम्

13.15

प्राणिधान्यधनादीनां वर्ज्यानाम् अप्रतिग्रहात् ।
भैषाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात्

13.16

पर्तिउष्टः शुचिर् मञ्जुश् चौक्षया जीवसंपदा ।
कुर्या दुःखप्रतीकारं यावद् एव विमुक्तये

13.17

कर्मञो हि यथादृष्तात् कायवाक्प्रभवाद् अपि ।
आजीवः पृथग् एवोक्तो दुःषोधत्वाद् अयं मया

13.18

गृहस्थेन हि दुःशोब्धा दृष्टिर् विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्टायत्तवृत्तिना

13.19

एतावच् छीलम् इत्य् उक्तम् आचाअरो ऽयं समासतः ।
अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता

13.20

तस्माच् चारित्रसंपन्नो ब्रह्मचर्यम् इदं चर ।
अणुमात्रेष्व् अवद्येषु भयदर्शि दृढव्रतः

13.21

शीलम् आस्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः ।
स्थानाद्यानिव कार्याणि प्रतिष्ठाय वसुन्धराम्

13.22

मोक्षस्योपनिषत् सौम्य वैराग्यम् इति गृह्यताम् ।
वैरागस्यापि संवेदः संविदो ज्ञानर्दर्शनम्

13.23

ज्ञानस्योपनिषच् चैव समाधिर् उपधार्यताम् ।
समाधेर् अप्य् उपनिषत् सुखं शरीरमानसम्

13.24

पश्रब्धिः कायमनसः सुखस्योपनिषत्परा ।
प्रशब्धेर् अप्य् उपनिषत् प्रामोद्यं परमं ममतम्

13.25

तथः प्रीतेर् उपनिषत् प्रामोद्यं परमं मतम् ।
प्रामोद्यस्याप्य् अहृल्लेखः कुकृतेष्व् अकृतेषु वा

13.26

अहृल्लेखस्य मनसः शीलं तूपनिषच् छुचि ।
अतः शीलं नयत्य् अग्र्यम् इति शीलं विशोधय

13.27

शीलनाच् छीलम् इत्य् उक्तं शीलनं सेवनाद् अपि ।
सेवनं तन्निदेशाच् च निदेशश् च तदाश्रयात्

13.28

शीलं हि शरणं सौम्य कान्तार इव दैशिकः ।
मित्रं बन्धुश् च रक्षा च धनं च बलम् एव च

13.29

यतः शीलम् अतः सौम्य शीलं संस्कर्तुम् अर्हसि ।
एतत् स्थानम् अथान्ये च मोक्षारम्भेषु योगिनां

13.30

ततः स्मृतिम् अधिष्ठाय चपलानि स्वभावतः ।
इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुम् अर्हसि

13.31

भेतव्यं न तथा शत्रोर् नाग्नेर् नाहेर् न चाशनेः ।
इन्द्रियेभ्यो यथा स्वेभ्यस् तैर् अजस्रं हि हन्यते

13.32

द्विषब्धिः शत्रुभिः कश् चित् कदा चित् पीड्यते न वा ।
इन्द्रियैर् बाध्यते सर्वः सर्वत्र च सदैव च

13.33

न च प्रयाति नरकं शत्रुप्रभृथिभिर् हतः ।
कृष्यते तत्र निघ्नस् तु चपलैर् इन्द्रियैर् हतः

13.34

हन्यमानस्य तैर् दुःखं हार्दं भवति वा न वा ।
इन्द्रियैर् बाध्यमानस्य हार्दं शारीरम् एव च

13.35

संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः ।
चिन्तापुङ्खा रैफला विषयाकाशगोचराः

13.36

मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि ।
विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः

13.37

नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा ।
निपतन्तो निवार्यास् ते महता स्मृतिवर्मणा

13.38

इन्द्रियाणाम् उपशमाद् अरीणां निग्रहाद् इव ।
सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः

13.39

तेषां हि सततं लोके विषयाण् अभिकाङ्क्षताम् ।
संविन् नैवास्ति कार्पण्याच् छुनाम् आशावताम् इव

13.40

विषयैर् इन्द्रियग्रामो न तृप्तिम् अधिगच्छति ।
अजस्रं पूर्यमाणो ऽपि समुद्रः सलिलैर् इव

13.41

अवश्यं गोचरे स्वे स्वे वर्तितव्यम् इहेन्द्रियैः ।
निमित्तं तत्र न ग्राह्यम् अनुव्यञ्जनम् एव च

13.42

आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः ।
स्त्री वेति पुरुषो वेति न कल्पयितुम् अर्हसि

13.43

सचेत् स्त्रीपुरुषग्राहः क्व चिद् विद्येत कास् चन ।
शुभतः केशदन्तादीन् नानुप्रस्थातुम् अर्हसि

13.44

नापनेयं भूततो भूतं शश्वद् इन्दियगोचरे ।
द्रष्टव्यं भूततो भूतं यादृषं च यथा च यत्

13.45

एवं ते पश्यतस् तत्त्वं शश्वद् इन्द्रियगोचरे ।
भविष्यति पदस्थानं नाभियादौर्मनस्ययोः

13.46

अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् ।
अरिर् मित्रमुखेनेव प्रियवाक्कलुषाशयः

13.47

दौर्मनस्याभिधानस् तु प्रतिघो विषयाश्रितः ।
मोहाद् येनानुवृत्तेन परत्रेह च हन्यते

13.48

अनुरोधविरोधाभ्यां शितोष्णाभ्याम् इवार्दितः ।
शर्म नाप्नोति न श्रेयश् चलेन्द्रिचम् अतो जगत्

13.49

नेन्द्रियं विषये तावत् प्रवृत्तम् अपि सज्जते ।
यावन् न मनसस् तत्र परिकल्पः प्रवर्तते

13.50

इन्धने सति वायौ च यथा ज्वलति पावकः ।
विषयात् परिकल्पाच् च क्लेशाग्निर् जायते तथा

13.51

अभूतपरिकल्पेन विषयस्य हि बध्यते ।
तम् एव विषयं पश्यन् भूततः परिमुच्यते

13.52

दृष्ट्वैकं रूपम् अन्यो हि रज्यते ऽन्यः प्रदुष्यति ।
कश् चिद् भवति मध्यस्थस् तत्रैवान्यो घृणायते

13.53

अतो न विषयो हेतुर् बन्धाय न विमुक्तये ।
परिकल्पविषेषेण संगो भवति वा न वा

13.54

कार्यः परमयत्नेन तस्माद् इन्दियसंवरः ।
इन्द्रियाणि ह्य् अगुप्तानि दुःखाय च भवाय च

13.55

कामभोगभोगवद्भिर् आमदृष्टिदृष्टिभिः प्रमादनैकमूर्धभिः प्रहर्षलोलजिवैः ।
इन्द्रियोरगैर् मनोबिलशयैः स्पृहाविषैः शमागदा ऋते न दष्टम् अस्ति यच् चिकित्सेत्

13.56

तस्माद् एषाम् अकुषलकराणाम् अरीणां चक्षुर्घ्राणश्रवञरसनस्पर्शनानाम् ।
सर्वावस्थं भव विनियमाद् अप्रमत्तो मास्मिन्न् अर्थे क्षणम् अपि कृथास त्वं प्रमादं

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc