भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 12

12.1

सौन्दरनन्दे महाकाव्ये स्वर्गापवादो नामैकदशः सर्गः ।
चन्तो xइइ
अप्सरोभृतको धर्मं चरसीत्य् अथ चोदितः ।
आनन्देन तदा नन्दः परं व्रीडम् उपागमत्

12.2

तस्य व्रिडेन महता प्रमोदो हृदि नाभवत् ।
अप्रामोद्येन विमुखं नावतस्थे व्रते मनः

12.3

कामरागप्रधानो ऽपि परिहाससमो ऽपि सन् ।
परिपाकगते हेतौ न स तन् ममृषे वचः

12.4

अपरीक्षब्कभावाच् च पूर्वं मत्वा दिवं ध्रुवम् ।
तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगम् एयिवान्

12.5

तस्य स्वर्गान् निववृते संकल्पाश्वो मनोरथः ।
महारथ इवोन्मार्गाद् अप्रमत्तस्य सारथेः

12.6

स्वर्गतर्षान् निवृत्तश् च सद्यः स्वस्थ इवाभवत् ।
मृष्टाद् अपथ्याद् विरतो जिजीव्षुर् इवातुरः

12.7

विसस्मार प्रियां भार्यां अस्प्सरोदर्शनाद् यथा ।
तथानित्यतयोद्विग्नस् तत्याजाप्सरसो ऽपि सः

12.8

महताम् अपि भूतानाम् आवृत्ति इति चिन्तयन् ।
संवेगाच् च सरागो ऽपि वीतराग इवाभवत्

12.9

बभूव स हि संवेगः श्रेयसस् तस्य वृद्धये ।
धातुर् एधिर् इवाख्याते पठितो ऽक्षरचिन्तकैः

12.10

न तु कामान्मनस् तस्य केन चिज् जगृहे धृतिः ।
त्रिषु कालेषु सर्वेषु निपातो ऽस्तिर् इव स्मृतः

12.11

खेलगामी महाबाहुर् गजेन्द्र इव निर्मदः ।
सो ऽभ्यगच्छद् गुरुं कले विवक्षुर् भावम् आत्मनः

12.12

प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः ।
कृत्वान्जलिम् उवाचेदं ह्रिया किं चिद् अवाञ्मुखः

12.13

अप्सरःप्राप्तये यन् मे भगवन् प्रतिभूर् असि ।
नाप्सरोभिर् ममार्थो ऽस्ति प्रतिभूत्वं त्यजाम्य् अहम्

12.14

श्रुत्वा ह्य् आवर्तकं स्वर्गं संसारस्य च चित्रताम् ।
न मर्त्येषु न देवेषु प्रवृत्तिर् मम रोचते

12.15

यदि प्राप्य दिवं यत्नान् नियमेन दमेन च ।
अवितृप्ताः पतनत्य् अन्ते स्वर्गाय त्यागिने नमः

12.16

अतश् च निखिलं लोकं विदिबा सचराचरम् ।
सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे

12.17

तस्माद् व्यासमासाभ्यां तन् मे व्याख्यातुम् अर्हसि ।
यच् छ्रुत्वा शृण्वतां श्रेष्ठ परमं प्राप्नुयां पदम्

12.18

ततस् तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च ।
श्रेयश् चैवामुखीभूतं निजगाद तथागतः

12.19

अहो प्रत्यवमर्शो ऽयं श्रेयसस् ते पुरोजवः ।
अरण्यां मथ्यमानायाम् अग्नेर् धूम इवोत्थितः

12.20

चिरम् उन्मार्गविहृतो लोलैर् इन्दियवाजिभिः ।
अवतिर्णो ऽसि पन्थानं दिष्ट्या दृश्त्याविमूढया

12.21

अद्य ते सफलं जन्म लाभो ऽद्य सुमहांस् तव ।
यस्य कामरस्ज्ञस्य नैष्क्रम्यायोत्सुकं मनः

12.22

लोके ऽस्मिन्न् आलयारामे निवृत्तौ दुर्लभा रतिः ।
व्यथन्ते ह्य् अपुनर्भावात् प्रपाताद् इव बालिशाः

12.23

दुःखं न स्यात् सुखं मे स्याद् इति प्रयतते जनः ।
अत्यन्तदुःखोपरमं सुखं तच् च न बुध्यते

12.24

ऐर्भूतेष्व् अनित्येषु सततं दुःखहेतुशु ।
कामादिषु जगत् सक्तं न वेत्ति सुखम् अव्ययम्

12.25

सर्वदुःखापहं तत् तु हस्तथम् अमृतं तव ।
विषं पीत्वा यद् अगदं समये पातुम् इच्छसि

12.26

अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् ।
रागाग्निस् तादृषो यस्य धर्मोन्मुख पराण्मुखः

12.27

रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः ।
सदोषम् सलिलं दृष्ट्वा पथिनेव पिपासुना

12.28

ईदृशी नाम बुद्धिस् ते निरुद्धा रजसाभवत् ।
रजसा चण्डवातेन विवस्वत इव प्रभा

12.29

सा जिघांसुस् तमो हार्दं या संप्रति विजृम्भते ।
तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा

12.30

युक्तरूपम् इदं चैव शुद्धसत्त्वस्य चेतसः ।
यत् ते स्यान् नैष्ठिके सूक्ष्मे श्रेयसि श्रqद्दधानता

12.31

धर्मच्छन्दम् इमं तस्माद् विवर्धयितुम् अर्हसि ।
सर्वधर्मा हि धर्मज्ञ नियमाच्x छन्दहेतवः

12.32

सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते ।
शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः

12.33

अन्तर्भूमिगतं ह्य् अम्भः श्रद्दधाति नरो यदा ।
अर्थित्वे सति यत्नेन तदा खनति गाम् इमाम्

12.34

नार्थि यद्य् अग्निना वा स्याच् छ्रद्दध्यात् तं न वारणौ ।
मथ्नीयान् नारणिं कश् चित् तद्भावे सति मथ्यते

12.35

सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ ।
अर्थी सस्येन वा न स्याद् भीजानि न वपेद् भुवि

12.36

अतश् च हस्त इत्य् उक्ता मया श्रद्धा विशेषतः ।
यस्माद् गृह्नाति सद्धर्मं दायं हस्त इवाक्षतः

12.37

प्राधान्याद् इन्द्रियम् इति स्ह्तिरत्वाद् बलम् इत्य् अतः ।
गुणदारिद्र्यशमनाद् धनम् इत्य् अभिवर्णिता

12.38

रक्षणार्थेन धर्मस्य तथेषीकेत्य् उदाहृता ।
लोके ऽस्मिन् दुर्लभत्वाच् च रत्नम् इत्य् अभिहाषिता

12.39

पुनश् च बीजम् इत्य् उक्ता निमित्तं श्रेयसोत्पदा ।
पावनार्थेन पापस्य नदीत्य् अभिहिता पुनः

12.40

यस्माद् धर्मस्य चोत्त्पत्तौ श्रद्धा कारणम् उत्तमम् ।
मयोक्ता कार्यतस् तस्मात् तत्र तत्र तथा तथा

12.41

श्रद्धाञ्कुरम् इमं तस्मात् संवर्धयितुम् अर्हसि ।
तद् वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः

12.42

व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः ।
तस्य पारिप्लवा श्रद्धा न हि कृताय वर्तते

12.43

यावत् तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच् छ्रद्धा न भवति बलस्था स्थिरा वा ।
दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश् चाश्रयास् च

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc