भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 11

11.1

सौन्दरनन्दे महाकाव्ये स्वर्गनिदर्शनो नाम दशमः सर्गः ।
चन्तो xइ
ततस् ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः ।
बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः

11.2

सो ऽनिश्टनिऐष्क्रम्यरसो म्लानतामरसोपमः ।
चचार विरसो धर्मं निवेश्याप्सरसो हृदि

11.3

तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः ।
इन्द्रियार्थवशाद् एव बभूव नियतेन्द्रियः

11.4

कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः ।
परमाचार्यविष्टब्धो ब्रह्मचर्यं चचार सः

11.5

संवृतेन च शान्तेन तीव्रेण मदनेन च ।
जलाग्नेर् इव संसर्गाच् छशाम च शुशोष च

11.6

स्वभावदर्शनीयो ऽपि वैरूप्यम् अगमत् परम् ।
चिन्तयाप्सरसां चैव नियमेनायतेन च

11.7

प्रस्तवेष्व् अपि भार्यायां प्रियभार्यस् तथापि सः ।
वीतराग इवोत्तस्थौ न जहर्ष न चुक्षुभे

11.8

तं व्यवस्थितम् आज्ञाय भार्यारागात् पराङ्मुखम् ।
अभिगम्याभ्रवीन् नन्दम् आनन्दः प्रणयाद् इदम्

11.9

अहो सदृशम् आरब्धं श्रुतस्याभिजनस्य च ।
निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः

11.10

अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः ।
यद् इयं संविद् उत्पन्ना नेयम् अल्पेन हेतुना

11.11

व्याधिर् अल्पेन यत्नेन मृदुः प्रतिनिवार्यते ।
प्रबलः प्रबलैर् एव यत्नैर् नश्यत्ति वा न वा

11.12

दुर्हरो मानसो व्याधिर् बलवांश् च तवाभवत् ।
विनिवृत्तो यदि स ते सर्वथा धृतिमानसि

11.13

दुष्करं साध्व् अनार्येण मानिना चैव मार्दवम् ।
अतिसर्गश् च लुब्धेन ब्रमचर्यं च रागिणा

11.14

एकस् तु मम संदेहस् तवास्यां नियमे धृतौ ।
अत्रानुनयम् इच्छामि वक्तव्यं यदि मनसे

11.15

आर्जवाभिहितं वाक्यं न च गन्तव्यम् अन्यथा ।
रूक्षम् अप्य् आशये शुद्धे रूक्षतो नैति सज्जनः

11.16

स्प्रियं हि हितं स्निग्धम् अस्निग्धम् अहितं प्रियं ।
दुर्लभं तु प्रियहितं स्वादु पथ्यम् इवौषधम्

11.17

विश्वासश् चार्थचर्या च सामान्यं सुखदुःखयोः ।
मर्षणं प्रणयश् चैव मित्रवृत्तिर् इयं सताम्

11.18

तद् इदं त्वा विवक्षामि प्रणयान् न जीघांसया ।
त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्य् उपेक्षितुम्

11.19

अप्सरोभृतको धर्मं चरसीत्य् अभिदीयसे ।
किम् इदं भूतम् आहोस्वित् प्ररिहासो ऽयम् ईदृशः

11.20

यदि तावद् इदं सत्यं वक्ष्याम्य् अत्र युदषधम् ।
औद्धत्यम् अथ वक्तॄमा, अभिदास्यामि तत्त्वतः

11.21

श्लक्ष्णपूर्वम् अथो तेन हृदि सो ऽभिहतस् तदा ।
ध्यात्वा दीर्घं निशश्वास किं चिच् चावाञ्मुखो ऽभवत्

11.22

ततस् तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम् ।
बभाषे वाक्यम् आनन्दो मधुरोदर्कम् अप्रियम्

11.23

आकारेणावगच्छामि तव धर्मप्रयोजनम् ।
यज् ज्ञात्वा त्वयि जातं मे हास्यं काउण्यम् एव च

11.24

यथासनार्थं स्कन्धेन कश् चिद् गुर्वीं शिलां वहेत् ।
तद्वत् त्वम् अपि कामार्थं नियमं वोढुम् उद्यतः

11.25

तिताडयिषयासृप्तो यथा मेषो ऽपसर्पति ।
तद्वद् अब्रह्मचर्याय ब्रह्मचर्यम् इदं तव

11.26

चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया ।
धर्मचर्या तव तथा पण्यभूता न शान्तये

11.27

यथा फलविशेषार्थं बीजं वपति कार्षकः ।
तद्वद् विषयकार्पण्याद् विषयांस् त्यक्तवान् असि

11.28

आकाङ्क्षेच् च यथा रोगं प्रतीकारसुखेप्सया ।
दुःखम् अन्विच्छति भवांस् तथा विषयतृश्णया

11.29

यथा पश्यति मध्व् एव न प्रपातम् अवेक्षते ।
पश्यस्य् अप्सरसस् तद्वद् भ्रंशम् अन्ते न पश्यसि

11.30

हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् ।
किम् इदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः

11.31

संसारे वर्तमानेन यदा चाप्सरसस् त्वया ।
प्राप्तास् त्यक्ताश् च शतशस् ताभ्यः किम् इति ते स्पृहा

11.32

तृप्तिर् नास्तीन्धनैर् अग्नेर् नाम्भसा लवणाम्भसः ।
नापि कामैः सतृष्णस्य तस्मात् कामा न तृप्तये

11.33

अतृप्तौ च कुतः शान्तिर् अशान्तौ च कुतः सुखम् ।
असुखे च कुतः पृतिर् अप्रीतौ च कुतो रतिः

11.34

रिरंसा यदि ते तस्माद् अध्यात्मे धीयतां मनः ।
प्रशान्त चानवद्या च नास्त्य् अध्यात्मसमा रतिः

11.35

न तत्र कार्यं तूर्यैस् ते न स्त्रीभिर् न विभूषनैः ।
एकस् त्वं यत्रत्रस्थस् तया रत्याभिरंस्यसे

11.36

मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति ।
तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च

11.37

संपत्तौ वा विपत्तौ वा दिवा वा नक्तम् एव वा ।
कामेषु हि सटृष्ञस्य न शान्तिर् उपदद्यते

11.38

कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर् न विद्यते ।
वियोगान् नियतः शोको वियोगश् च ध्रुवो दिवि

11.39

कृत्वापि दुष्करं कर्म स्वर्गं लब्ध्वापि दुर्लभम् ।
नृलोकं पुनर् एवैति प्रवासात् स्वगृहं यथा

11.40

यदा भ्रष्टस्य कुशलं शिष्टं किं चिन् न विद्यते ।
त्रियक्षु पितृलोके वा नरके वोपपद्यते

11.41

तस्य भुक्तवतः स्वर्गे विषयान् उत्तमान् अपि ।
भ्रष्टस्यार्तस्य दुःखेन किम् आस्वादः करोति सः

11.42

श्येनाय प्राणिवात्सल्यात् स्वमांसान्य् अपि दत्तवान् ।
शिभिः स्वर्गात् परिभ्रष्टस् तादृक् कृत्वापि दुष्करम्

11.43

शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एव यः ।
सदेवतं गते काले मान्धाताधः पुनर् ययौ

11.44

राज्यं कृत्वापि देवानां पपात नहुषो भुवि ।
प्राप्तः किल ब्जुअङ्गत्वं नाद्यापि परिमुच्यते

11.45

तथैवेलिविलो राज राजवृत्तेन संस्कृतः ।
स्वर्गं गत्वा पुनर् भ्रष्टः कूर्मीभूतः किलार्णवे

11.46

भूर्दियुम्नो ययातिश् च ते चान्ये च नृपर्षभाः ।
कर्मभिर् द्याम् अभिक्रीय तत्क्षयात् पुनर् अत्यजन्

11.47

असुराः पूर्वद्वास् तु सुरैर् अपहृतश्रियः ।
श्रियं समनुशोचन्तः पातालं शरञं ययुः

11.48

किं च राजर्षिभिस् तावद् असुरैर् वा सुरादिभिः ।
महेन्द्राः शतशः पेतुर् माहात्म्यम् अपि न स्थिरम्

11.49

संसदं शोभयित्वैन्द्रीम् उपेन्द्रश् च त्रिविक्रमः ।
क्षीणकर्मा पपातोव्रिं मध्याद् अप्सरसां रसन्

11.50

हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये ।
इत्य् आर्ता विलपन्तो ऽपि गां पतन्ति दिवौकसः

11.51

तीव्रं ह्य् उप्तद्यते दुःखम् इह तावन् मुमूर्षताम् ।
किं पुनः पततां स्वर्गाद् एवान्ते सुखसेविनाम्

11.52

रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः ।
गात्रेभ्यो जायते स्वेदो रतिर् भवति नासने

11.53

एतान्य् आदौ निमित्तानि च्युतौ स्वर्गाद् दिवौकसाम् ।
अनिष्टानिव मर्त्यानाम् अरिष्टानि मुमूर्षताम्

11.54

सुखम् उत्पद्यते यच् च दिवि कामान् उपाश्नताम् ।
यच् च दुःखं निपततां दुःखम् एव विषिष्यते

11.55

तस्माद् अस्वन्तम् अत्राणम् अविश्वास्यम् अतर्पकम् ।
विज्ञाय क्षयिणं स्वर्गम् अपवर्गे मतिं कुरु

11.56

अशरीरं भवाग्रं हि गत्वापि मुनिर् उद्रकः ।
कर्मणो ऽन्ते च्युतस् तस्मात् तिर्यग्योनिं प्रपत्स्यते

11.57

मैत्रया स्प्तवार्षिक्या ब्रह्मलोकम् इतो गतः ।
सुनेत्रः पुनर् आवृत्तो गर्भवासम् उपेयिवान्

11.58

यद चैश्व्चर्यवन्तो ऽपि क्षयिञः स्वर्गवासिनः ।
को नाम स्वर्गवासाय क्षेष्णवे स्पृहयेद् बुधः

11.59

सूत्रेण बद्धो हि यथा विहङ्गो व्यावर्तते दूरगतो ऽपि भूयः ।
अज्ञानसूत्रेण तथावबद्धो गतो ऽपि दूरं पुनर् एति लोकः

11.60

कृत्वा कालविलक्षञं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्य् अतीत्य समयं भूयो विशेद् बन्धनम् ।
तद्वद् द्यां प्रतिभूवद् आत्मनियमैर् ध्यानादिभिः प्राप्तवान् काले कर्मसु तेषु भुक्तविषयेष्व् आकृष्यते गां पुनः

11.61

अन्तर्जालगताः प्रमत्तमनसो मिनास् तडागे यथा जानन्ती व्यसनं न रोधजनितं स्वस्थाश् चरन्त्य् अम्भसि ।
अन्तर्लोकगताः कृतार्थमतयस् तद्वद् दिवि ध्यायिनो मन्यन्ते शिवम् अच्युतं ध्रुवम् इति स्वं स्थानम् आवर्तकम्

11.62

तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगद् इदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च ।
यत् त्राणं निर्भयं यच् छिवम् अमरजरं निःषोकम् अमृतं तद्धेतोर् ब्रह्मचर्यं चर जहिहि चलं स्वर्गं प्रति रुचिम्

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc