सौन्दरानन्द · अध्याय 10
सौन्दरनन्दे महाकाव्ये मदापवादो नाम नवमः सर्गः ।
चन्तो x
श्रुत्वा ततः सद्व्रतम् उत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् ।
नन्दं निरानन्दम् अपेतधैर्यम् अभ्युज्जिहीर्षुर् मुनिर् आजुहाव
तं प्राप्तम् अप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः ।
स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय
नन्दं विदित्वा सुगतस् ततस् तं भार्याभिधाने तमसि भ्रमन्तम् ।
पाणौ गृहीत्वा वियद् उत्पपात मणिं जले साधुर् इवोज्जिहीर्षुः
काषायवस्त्रौ कनकावदातौ विरेजतुस् तौ नभसि प्रसन्ने ।
अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाव् इव चक्रवाकौ
तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् ।
आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तम् आशु
तस्मिन् गिरौ चारञसिद्धजुष्टे शिवे हविर् धूमकृत्तोत्तरीये ।
आगम्य पारस्य निराश्रयस्य तौ तस्थतुर् द्वीप इवाम्बरस्य
शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः ।
दरीश् च कुञ्जांश् च वनौकसश् च विभूषणं रक्षणम् एव चाद्रेः
बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः ।
भुजे बलस्यायतपीनबाहोर् वैडूर्यकेयूर इवाबभासे
मनःशिलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः ।
संतप्तचामीकरभक्त्चित्रं रूप्याङ्गदं शीर्णम् इवाम्बिकस्य
व्याघ्रः क्लव्यायतखेलगामी लाङ्गूलचक्रेण कृतापस्व्यः ।
बभौ गिरेः प्रस्रवणं पिपासुर् दित्सन् पितृभ्यो ऽम्भ इवावतिर्णः
चलत्कदम्बे हिम्वन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे ।
छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिम् इवार्यवृत्तः
सुवर्णगौराश् च किरातसंघा मयूरपत्त्रोज्ज्वलगात्रलेखाः ।
सार्दूलपातप्रतिमा गुहाभयो निशेप्तुर् उद्गार इवाचलस्य
दरीचरीणाम् अतिसुन्दरिणां मनोहरश्रोणिकुचोधरीणाम् ।
वृद्न्दानि रेजुर् दिशि किंनरीणां पुष्पोत्कचानाम् इव वल्लरीणाम्
नगान् नगस्योपरि देवदारून् आयासयन्तः कपयो विचेरुः ।
तेभ्यः फलं नापुरतो ऽपजग्मुर् मोघप्रसादेभ्य इवेश्वरेभ्यः
तस्मात् तु यूथाद् अपसार्यमाणां निष्पीदितालक्तकरक्तवक्त्राम् ।
शाखामृगीम् एकविपन्नदृष्टिं दृष्ट्वा मुनिर् नन्दम् इदं बभाषे
का नन्द रूपेण च चेष्टया च संपश्यतश् चारुतरा मता ते ।
एषा मृगी विअकविपन्न्दृष्टिः स वा जनो यत्र गता तवेष्टिः
इत्य् एवम् उक्तः सुगतेन नन्दः कृत्वा स्मितं किं चिद् इदं जगाद ।
क्व चोत्तमस्त्री भगवन् बधूस् ते मृगि नगक्लेश्करी क्व चैषा
ततो मुनिस् तस्य निशम्य वाक्यं हेत्वन्तरं किं चिद् अवेक्षमाणः ।
आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः
ऋताव् र्ताव् आकृतिम् एक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः ।
चित्रां समस्ताम् अपि के चिद् अन्ये षण्णाम् ऋतूनां श्रियम् उद्वहन्ति
पुष्यन्ति के चित् सुरभीर् उदारा मालाः स्रजश् च ग्रथिता विचित्राः ।
कर्णानुकूलान् अवतंसकांष् च प्रत्यर्थिभूतान् इव कुण्डलानाम्
रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षा ।
प्रफुल्लनीलोत्पलरोहिणो ऽन्ये सोन्मीलिताक्षा इव भान्ति वृक्षा
नानाविरागाण्य् अथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि ।
अतान्तवान्य् एकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षा
हारान् मणीन् उत्तमकुण्डलानि केयूरवर्याण्य् अथ नूपुराणि ।
एवंविधान्य् आभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षः
वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि ।
स्पर्शक्षमाण्य् उत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः
यत्रायतांश् चैव ततांश् च तांस् तान् वाद्यस्य हेतून् सुषिरान् घनांश् च ।
फलन्ति वृक्षा मणिहेमचित्राः क्रीडासहायास् त्रिदशालयानाम्
मन्दारवृक्षांश् च कुशेशयांश् च पुष्पानतान् कोकनदांश् च वृक्षान् ।
आक्रम्य माहात्म्यगुणैर् विराजन् राजायते यत्र स पारिजातः
कृष्टे तपःषीलहलैर् अखिन्नैस् त्रिपिष्टपक्षेत्रतले प्रसूताः ।
एवंविधा यत्र सआनुवृत्ता दिवौकसां भोगविधानवृक्षाः
मनःशिलाभैर् वदनैर् विहङ्गा यत्राक्षिभिः स्पाटिकसंनिभैश् च ।
शावैश् च पक्षैर् अभिलोहितान्तैर् माञ्जिष्ठकैर् अर्धसितैश् च पादैः
चित्रैः सुवर्णच्छदनैस् तथान्ये वैडुर्यवर्णाभिर् नयनैः प्रसन्नैः ।
विहङ्गमा शिञ्जिरिकाभिधाना रुतैर् मनःश्रोतहरैर् भ्रमन्ति
रक्ताभिर् अग्रेषु च वल्लरीभिर् मध्येषु चामीकरपिञ्जराभिः ।
वैडूर्यवर्णाभिर् उपान्तमध्येष्व् अलङ्कृता यत्र खगाश् चरन्ति
रोचिष्णवो नाम पत्रत्रिणो ऽन्ये दीप्ताग्निवर्णा ज्वलितैर् इवास्यैः ।
भ्रमन्ति दृष्टीर् वपुषाक्षिपन्तः स्वनैः शुभैर् अप्सरसो हरन्तः
यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः ।
स्वैः कर्मभिर् हीनविशिष्ट्तमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते
पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानां ।
मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्याः
नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् ।
नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम्
ऐन्द्रं वनं तच् च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः ।
हर्षान्विताश् चाप्सरसः परीयुः सगर्वम् अन्योन्यम् अवेक्षमाणाः
सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः ।
दिव्याश् च निर्दोषपरिग्रहाश् च तपःफलस्याश्रयणं सुराणाम्
तासां जगुर् धीरम् उदात्तम् अन्याः पद्मानि काश् चिल् ललितं लभञ्जुः ।
अन्योन्यहर्षान् ननृतुस् तथान्याश् चिराङ्गहाराः स्तनभिन्नभाराः
कासां चिद् आसां वदनानि रेजुर् वनान्तरेभ्यश् चलकुण्डलानि ।
व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि
ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस् तडित्पताका इव तोयदेभ्यः ।
नन्दस्य रागेण तनुर् विवेपे जले चले चन्द्रमसः प्रभेव
वपुश् च दिव्यं ललिताश् च चेष्टास् ततः स तासां मनसा जहार ।
कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षाद् इव जातरागः
स जाततर्षो ऽप्सरसः पिपासुस् तत्प्राप्तये ऽधिष्ठितविक्लवार्तः ।
लोलेन्द्रियाश्वेन मनोरथेन जेह्रियमाणो न धृतिं चकार
यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति ।
मलक्षयार्थं न मलोद्भवार्तं रजस् तथास्मै मुनिर् आचकर्ष
दोषांश् च कायाद् भिषगुज् जिहीर्षुर् भूयो यथा क्लेशयितुं यतेत ।
रागं तथा तस्य मुनिर् जिघांसुर् भूयस्तरं रागम् उपानिनाय
दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेर् उदितस्य दीप्तिः ।
मनुष्यलोके द्युतिम् अङ्गनानाम् अन्तर्दधात्य् अप्सरसां तथा श्रीः
महच् च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दम् अल्पम् ।
गुर्वी रुजा हन्ति रुजां च मृद्विं सर्वो महान् हेतुर् अणोर् वधाय
मुनेः प्रभावाच् च शशाक नन्दस् तद्दर्शनं सोढुम् असह्यम् अन्यैः ।
अवितरागस्य हि दुर्बलस्य मनो दहेद् अप्सरसां वपुःष्रीः
मत्वा ततो नन्दम् उदीर्णरागं भार्यानुरोधाद् अपवृत्तरागम् ।
रागेण रागं प्रतिहन्तुकामो मुनिर् विरागो गिरम् इत्य् उवाच
एताः स्त्रीयः पश्य दिवौकसस् त्वं निरीक्ष्य च ब्रूहि यथार्थत्त्वम् ।
एताः कथं रूपगुणैर् मतास् ते स वा जनो यत्र गतं मनस् ते
अथाप्सरःस् एव निविष्टदृष्ती रागाग्निनान्तर्हृदये प्रदीप्तः ।
सगद्गगदं कामविषक्तचेताः कृताञ्जलिर् वाक्यम् उवाच नन्दः
हर्यङ्गनासौ मुषितैकदृष्टिर् यदन्तरे स्यात् तव नाथ वध्वाः ।
तदन्तरे ऽसौ कृपणा वधूस् ते वौष्मतीर् अप्सरसः प्रतीत्य
आस्था यथा पूर्वम् अभून् न का चिद् अन्यासु मे स्त्रिषु निशाम्य भार्याम् ।
तस्यां ततः सम्प्रति का चिद् आस्था न मे निशाम्यैव हि रूपम् आसाम्
यथा प्रतप्तो मृदुनातपेन दह्येत कश् चिन् महतानलेन ।
रागेण पूर्वं मृदुनाभितप्तो रागानिनानेन तथाभिदह्ये
वाग्वारिणा मां परिषिञ्च तस्माद् यावन् न दह्ये स इवाह्जशत्रुः ।
राराग्निर् अद्यैव हि मां दिधक्षुः कक्षं सवृक्षाग्रम् इवोत्थितो ऽग्निः
प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यम् अस्ति मे ।
असून् विमोक्ष्यामि विमुक्तमानस प्रय्च्छ वा वागमृतं मुमूर्षवे
अनर्थभोगेन विघातय्दृष्तिना प्रमाददंश्ट्रेण तमोविषाग्निना ।
अहं हि दष्टो हृदि मन्मथाहिना विधत्स्य तस्माद् अगदं महाभिषक्
अनेन दष्टो मदनाहिना हि ना न कश् चिद् आत्मन्य् अनवस्थितः स्थितः ।
मुमोह वोध्योर् ह्य् अचलात्मनो मनो बभूव धीमांश् च स शन्तनुस् तनुः
स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम् ।
यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन् मे कुरु शंसतः सतः
ततो जिघांसुर् हृदि तस्य तत्तमस् तमोनुदो नक्तम् इवोत्थितं तमः ।
महर्षिचन्द्रो जगतस् तमोनुदस् तमःप्रहीणो निजगाद गौतमः
धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच् छ्रुतचेतसी शृणु ।
इमा यदि प्रार्थयसे त्वम् अङ्गना विधत्स्व शुल्कार्थम् इहोत्तमं तपः
इमा हि शक्या न बलान् न सेवया न संप्रदानेन न रूप्तवत्तया ।
इमा ह्रियन्ते खलु धर्मचर्यया सचेत् प्रहर्षश् चर धर्मम् आदृतः
इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्य् अजराश् च योषितः ।
इदं फलं स्वस्य शुभस्य कर्मणो न दत्तम् अन्येन न चाप्य् अहेतुतः
क्षितौ मनुष्यो धनुराधिभिः श्रमैः स्त्रियः कदा चिद् धि लभेत वा न वा ।
असंशयं यत् त्व् इह धर्मचर्यया भवेयुर् एता दिवि पुणकर्मणः
तद् अप्रमत्तो नियमे समुद्यतो रमस्व यद्य् अप्सरसो ऽभिलिप्ससे ।
अहं च ते ऽत्र प्रतिभूः स्थिरे व्रते यथा त्वम् आभिर् नियतं समेष्यसि
अतःपरं परमम् इति व्यवस्थितः परां धृतिम् परममुनौ चकार सः ।
ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनर् अगमन् महीतलम्
मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0