सौन्दरानन्द · अध्याय 9
सौन्दरनन्द महाकाव्ये "स्त्रीविघ्न" नाम अष्टम सर्ग समाप्त ।
नवमः सर्गः
अभिमाननिन्दा
अथैवमुक्तो ऽपि स तेन भिक्षुणा जगाम नैवोपशमं प्रियां प्रति ।
तथा हि तामेव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञवद् वचः
यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृण्हाति मुमूर्षुरातुरः ।
तथैव मत्तो बलरूपयौवनैर्हितं न जग्राह स तस्य तद्वचः
न चात्र चित्रं यदि रागपाप्मना मनो ऽभिभूयेत तमोवृतात्मनः ।
नरस्य पाप्मा हि तदा निवर्तते यदा भवत्यन्तगतं तमस्तनु
ततस्तथाक्षिप्तमवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च ।
गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शान्तये
बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि ।
अहं त्विदं ते त्रयमव्यवस्थितं यथावबुद्ध्ये न तथावबुध्यसे
इदं हि रोगायतनं जरावशं नदीतटानोकहवच्चलाचलम् ।
न वेत्सि देहं जलफेनदुर्बलं बलस्थतामात्मनि येन मन्यसे
यदान्नपानासनयानकर्मणामसेवनादप्यतिसेवनादपि ।
शरीरमासन्नविपत्ति दृश्यते बले ऽभिमानस्तव केन हेतुना
हिमातपव्याधिजराक्षुदादिभिर्यदाप्यनर्थैरुपमीयते जगत् ।
जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलदृप्त मन्यसे
त्वगस्थिमांसक्षतजात्मकं यदा शरीरमाहारवशेन तिष्ठति ।
अजस्रमार्तं सततप्रतिक्रियं बलान्वितो ऽस्मीति कथं विहन्यसे
यथा घटं मृन्मयमाममाश्रितो नरस्तितीर्षेत् क्षुभितं महार्णवम् ।
समुच्छ्रयं तद्वदसारमुद्वरहन् बलं व्यवस्येद् विषयार्थमुद्यतः
शरीरमामादपि मृन्मयाद् घटादिदं तु निःसारतमं मतं मम ।
चिरं हि तिष्ठेद् विधिवद् धृतो घटः समुच्छ्रयो ऽयं सुधृतो ऽपि भिद्यते
यदाम्बुभूवाय्वनलाश्च धातवः सदा विरुद्धा विषमा इवोरगाः ।
भवन्त्यनर्थाय शरीरमाश्रिताः कथं बलं रोगविधो व्यवस्यसि
प्रयान्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यस्तु भवन्ति धातवः ।
क्वचिच्च कंचिच्च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः
इदं हि शय्यासनपानभोजनैर्गुणैः शरीरं चिरमप्यवेक्षितम् ।
न मर्षयत्येकमपि व्यतिक्रमं यतो महाशीविषवत् प्रकुप्यति
यदा हिमार्तो ज्वलनं निषेवते हिमं निदाधाभिहतो ऽभिकाङ्क्षति ।
क्षुधान्वितो ऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च
तदेवमाज्ञाय शरीरमातुरं बलान्वितो ऽस्मीति न मन्तुमर्हसि ।
असारमस्वन्तमनिश्चितं जगज्जगत्यनित्ये बलमव्यवस्थितम्
क्व कार्तवीर्यस्य बलाभिमानिनः सहस्रबाहोबलमर्जुनस्य तत् ।
चकर्त बाहून् युधि यस्य भार्गवः महान्ति श्रृङ्गाण्यशनिर्गिरेतिव
क्व तद् वलं कंसविकर्षिणो हरेस्तुरङ्गराजस्य पुटावभेदिनः ।
यमेकबाणेन निजघ्निवान् जराः क्रमागता रूपमिवोत्तमं जरा
दितेः सुतस्यामररोषकारिणश्चमूरुचेर्वा नमुचेः क्व तद् बलम् ।
यमाहवे क्रुद्धमिवान्तकं स्थितं जघान फेनावयवेन वासवः
बलं कुरूणां क्व च तत्तदाभवद् युधि ज्वलित्वा तरसौजसा च ये ।
समित्समिद्धा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः
अतो विदित्वा बलवीर्यमानिनां बलान्वितानामवमर्दितं बलम् ।
जगज्जरामृत्युवशं विचारयन् बले ऽभिमानं न विधातुमर्हसि
बलं महद् यदि वा न मन्यसे कुरुष्व युद्धं सह तावदिन्द्रियैः ।
जयश्च ते ऽत्रास्ति महच्च ते बलं पराजयश्चेद् वितथं च ते बलम्
तथा हि वीराः पुरुषा न ते मता जयन्ति ये साश्वरथद्विपानरीन्
यथा मता वीरतरा मनीषिणो जयन्ति लोलानि षडिन्द्रियाणि ये
अहं वपुष्मानिति यच्च मन्यसे विचक्षणं नैतदिदं च गृह्यताम् ।
क्व तद्वपुः सा च वपुष्मती तनुर्गदस्य शाम्बस्य च सारणस्य च
यथा मयूरश्चलचित्रचन्द्रको बिभर्ति रूपं गुणवत् स्वभावतः ।
शरीरसंस्कारगुणादृते तथा बिभर्ति रूपं यदि रूपवानसि
यदि प्रतीपं वृणुयान्न वाससा न शौचकाले यदि संस्पृशेदपः ।
मृजाविशेषं यदि नाददीत वा वपुर्वपुष्मन् वद कीदृशं भवेत्
नवं वयश्चात्मगतं निशाम्य यद्गृ होन्मुखं ते विषयाप्तये मनः ।
नियच्छ तच्छैलनदीरयोपमं द्रुतं हि गच्छत्यनिवर्ति यौवनम्
ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः ।
गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम्
विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम् ।
यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि
निषेव्य पानं मदनीयमुत्तमं निशाविवासेषु चिराद् विमाद्यति ।
नरस्तु मत्तो बलरूपयोउवनैर्न कश्चिदप्राप्य जरां विमाद्यति
यथेक्षुरत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते ।
तथा जरायन्त्रनिपीडिता तनुर्निपीतसारा मरणाय तिष्ठति
यथा हि नृभ्यां करपत्रमीरितं समुच्छ्रितं दारु भिनत्त्यनेकधा ।
तथोच्छ्रितां पातयति प्रजामिमामहर्निशाभ्यामुपसंहिता जरा
स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः ।
श्रमस्य योनिर्बलवीर्ययोर्वधो जरासमो नास्ति शरीरिणां रिपुः
इदं विदित्वा निधनस्य दैशिकं जराभिधानं जगतो महद्भयम् ।
अहं वपुष्मान् बलवान् युवेति वा न मानमारोढुमनार्यमर्हसि
अहं ममेत्येव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः ।
तमुत्सृजैवं यदि शाम्यता भवेद् भयं ह्यहं चेति ममेति चार्छति
यदा शरीरे न वशो ऽस्ति कस्यचिन्निरस्यमाने विविधैरुपप्लवैः ।
कथं क्षमं वेत्तुमहं ममेति वा शरीरसंज्ञं गृहमापदामिदम्
सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृते ऽबले ।
स दुष्टधातावशुचौ चलाचले रमेत काये विपरीतदर्शनः
यथा प्रजाभ्यः कुनृपो बलाद् बलीन् हरत्यशेषं च न चाभिरक्षति ।
तथैव कायो वसनादिसाधनं हरत्यशेषं च न चानुवर्तते
यथा प्ररोहन्ति तृणान्ययत्नतः क्षितौ प्रयत्नात् तु भवन्ति शालयः ।
तथैव दुःखानि भवन्त्ययत्नतः सुखानि यत्नेन भवन्ति वा न वा
शरीरमार्तं परिकर्षतश्चलं न चास्ति किञ्चित् परमार्थतः सुखम् ।
सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यवस्यति
यथानपेक्ष्याग्र्यमपीप्सितं सुखं प्रवाधते दुःखमुपेतमण्वपि ।
तथानपेक्ष्यात्मनि दुःखमागतं न विद्यते किञ्चन कस्यचित् सुखं
शरीरमीदृग् बहुदुःखाध्रुवं फलानुरोधादथ नावगच्छसि ।
द्रवत्फलेभ्यो धृतिरश्मिभिर्मनो निगृह्यतां गौरिव शस्यलालसा
न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोरिव ।
यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्द्धते
यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान्नैव शमं निगच्छति ।
तथेन्द्रियार्थेष्वजितेन्द्रियश्चरन्न कामभोगैरुपशान्तिमृच्छति
यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान्न भजेत तत्क्षमम् ।
तथा शरीरे बहुदुःखभाजने रमेत मोहाद् विषयाभिकाङ्क्षया
अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा ।
अनर्थमूला विषयाश्च केवला ननु प्रहेया विषमा यथारयः
इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रतां ।
परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्यचिच्छिवाः
यथोपयुक्तं रसवर्णगन्धवद् वधाय किम्पाकफलं न पुष्टये ।
निषेव्यमाणा विषयाश्चलात्मनो भवन्त्यनर्थाय तथा न भूतये
तदेतदाज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसहितं हितम् ।
जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयमुद् गिरन् गिरम्
इति हितमपि बह्वपीदमुक्तः श्रुतमहता श्रमणेन तेन नन्दः ।
न धृतिमुपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः
नन्दस्य भावमवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे ।
सत्त्वाशयानुशयभावपरीक्षकाय बुद्धाय तत्त्वविदुषे कथयांचकार
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0