सौन्दरानन्द · अध्याय 8
सौन्दरनन्द महाकाव्ये "नन्दविलाप" नाम सप्तम सर्ग समाप्त ।
अष्टमः सर्गः
स्त्रीविघ्न
अथ नन्दमधीरलोचनं गृहयानोत्सुकमुत्सुकोत्सुकम् ।
अभिगम्य शिवेन चक्षुषा श्रमणः कश्चिदुवाच मैत्रया
किमिदं मुखमश्रुदुर्दिनं हृदयस्थं विवृणोति ते तमः ।
धृतिमेहि नियच्छ विक्रियां न हि बाष्पश्च शमश्च शोभते
द्विविधा समुदेति वेदना नियतं चेतसि देह एव च ।
श्रुतविध्युपचारकोविदा द्विविधा एव तयोश्चिकित्सकाः
तदियं यदि कायिकी रुजा भिषजे तूर्णमनूनमुच्यताम् ।
विनिगुह्य हि रोगमातुरो नचिरात्तीव्रमनर्थमृच्छति
अथ दुःखमिदं मनोमयं वद वक्ष्यामि यदत्र भेषजम् ।
मनसो हि रजस्तमस्विनो भिषजो ऽध्यात्मविदः परीक्षकाः
निखिलेन च सत्यमुच्यतां यदि वाच्यं मयि सौम्य मन्यसे ।
गतयो विविधा हि चेतसां बहुगुह्यानि महाकुलानि च
इति तेन स चोदितस्तदा व्यवसायं प्रविवक्षुरात्मनः ।
अवलम्ब्य करे करेण तं प्रविवेशान्यतरद् वनान्तरम्
अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः ।
मृदुभिर्मृदुमारुतेरितैरुपगूढाविव बालपल्लवैः
स जगाद ततश्चिकीर्षितं घननिश्वासगृहीतमन्तरा ।
श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम्
सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः ।
अधृतौ यदियं हितैषिता मयि ते स्यात् करुणात्मनः सतः
अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि ।
न हि भावमिमं चलात्मने कथयेयं ब्रुवते ऽप्यसाधवे
तदिदं श्रृणु मे समासतो न रमे धर्मविधावृते प्रियाम् ।
गिरिसानुषु कामिनीमृते कृतरेता इव किन्नरश्चरन्
वनवाससुखात् पराङ्मुखः प्रयियासा गृहमेव येन मे ।
न हि शर्म लभे तया बिना नृपतिर्हीन इवोत्तमश्रिया
अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः ।
श्रमणः स शिरः प्रकम्पयन्निजगादात्मगतं शनैरिदम्
कृपणं बत यूथलालसो महतो व्याधभयाद् विनिःसृतः ।
प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः
विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः ।
विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयमेव पञ्चरम्
कलभः करिणा खलूद्धृतोः बहुपङ्काद् विषमान्नदीतलात् ।
जलतर्षवशेन तां पुनः सरितं ग्राहवतीं तितीर्षति
शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेण बोधितः ।
तरुणः खलु जातविभ्रमः स्वयमुग्रं भुजगं जिघृक्षति
महता खलु जातवेदसा ज्वलितादुत्पतितो वनद्रुमात् ।
पुनरिच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः
अवशः खलु काममूर्च्छया प्रियया श्येनभयाद् विनाकृतः ।
न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः
अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः ।
अशनं खलु वान्तमात्मना कृपणः श्वा पुनरत्तुमिच्छति
इति मन्मथशोककर्षितं तमनुध्याय मुहुर्निरीक्ष्य च ।
श्रमणः स हिताभिकाङ्क्षया गुणवद् वाक्यमुवाच विप्रियम्
अविचारयतः शुभाशुभं विषयेष्वेव निविष्टचेतसः ।
उपपन्नमलब्धचक्षुषो न रतिः श्रेयसि चेद् भवेत्तव
श्रवणे ग्रहणे ऽथ धारणे परमार्थावगमे मनःशमे ।
अविषक्तमतेश्चलात्मनो न हि धर्मे ऽभिरतिर्विधीयते
विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेरमानिनः ।
शमकर्मसु युक्तचेतसः कृतबुद्धेन रतिर्न विद्यते
रमते तृषितो धनश्रिया रमते कामसुखेन बालिशः ।
रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया
अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः ।
सदृशी न गृहाय चेतना प्रणतिर्वायुवशद् गिरेरिव
स्पृहयेत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् ।
उपशान्तिपथे शिवे स्थितः स्पृहयेद्दोषवते गृहाय सः
व्यसनाभिहतो यथा विशेत् परिमुक्तः पुनरेव बन्धनम् ।
समुपेत्य वनं तथा पुनर्गृहसंज्ञं मृगयेत बन्धनम्
पुरुषश्च विहाय यः कलिं पुनरिच्छेत् कलिमेव सेवितुम् ।
स विहाय भजेत बालिशः कलिभूतामजितेन्द्रियः प्रियाम्
सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः ।
विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः
प्रमदाः समदा मदप्रदाः प्रमदा वितमदा भयप्रदाः ।
इति दोषभयावहाश्च ताः कथमर्हन्ति निषेवणं नु ताः
स्वजनः स्वजनेन भिद्यते सुहदश्चापि सुहृज्जनेन यत् ।
परदोषविचक्षणाः शठास्तदनार्याः प्रचरन्ति योषितः
कुलजाः कृपणीभवन्ति यद्यदयुक्तं प्रचरन्ति साहसम् ।
प्रविशन्ति च यच्चमूमुखं रभसास्तत्र निमित्तमङ्गनाः
वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषशम्
प्रदहन् दहनो ऽपि गृह्यते विशरीरः पवनो ऽपि गृह्यते ।
कुपितो भुजगो ऽपि गृह्यते प्रमदानां तु मनो न गृह्यते
न वपुर्विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् ।
प्रहरन्त्यविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव
न वचो मधुरं न लालनं स्मरति स्त्री न च सौहृदं क्वचित् ।
कलिता वनितैव चञ्चला तदिहारिष्विव नावलम्ब्यते
अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् ।
प्रणतेषु भवन्ति गर्विताः प्रमदास्तृप्ततराश्च मानिषु
गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत् ।
धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्यवज्ञया
विषयाद् विषयान्तरं गता प्रचरत्येव यथा हृतापि गौ ।
अनवेक्षितपूर्वसौहृदा रमते ऽन्यत्र गता तथाङ्गना
प्रविशन्त्यपि हि स्त्रियश्चितामनुबध्नन्त्यपि मुक्तजीविताः ।
अपि बिभ्रति चैव यन्त्रणा न तु भावेन वहन्ति सौहृदम्
रमयन्ति पतीन् कथञ्चन प्रमदा याः पतिदेवताः क्वचित् ।
चलचित्ततया सहस्त्रशो रमयन्ते हृदयं स्वमेव ताः
श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती ।
मृगराजमथो बृहद्रथा प्रमदानामगतिर्न विद्यते
कुरुहैहयवृष्णिवंशजा बहुमायाकवचो ऽथ शम्बरः ।
मुनिरुग्रतपाश्च गौतमः समवापुर्वनितोद्धतं रजः
अकृतज्ञमनार्यमस्थिरं वनितानामिदमीदृशं मनः ।
कथमर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु
अथ सूक्ष्ममतिद्वयाशिवं लघु तासां हृदयं न पश्यसि ।
किमु कायमसद्गृहं स्रवद् वनितानामशुचिं न पश्यसि
यदहन्यहनि प्रधावनैर्वसनैश्चाभरणैश्च संस्कृतम् ।
अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि
अथवा समवैषि तत्तनूमशुभां त्वं न तु संविदस्ति ते ।
सुरभिं विदधासि हि क्रियामशुचेस्तत्प्रभवस्य शान्तये
अनुलेपनमञ्जनं स्रजो मणिमुक्तातपनीयमंशुकम् ।
यदि साधु किमत्र योषितां सहजं तासु विचीयतां शुचि
मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर्नखदन्तरोमभिः ।
यदि सा तव सुन्दरी भवेन्नियतं ते ऽद्य न सुन्दरी भवेत्
स्त्रवतीमशुचिं स्पृशेच्च कः सघृणो जर्जरभाण्डवत् स्त्रियम् ।
यदि केवलया त्वचावृता न भवेन्मक्षिकपत्रमात्रया
त्वचवेष्टितमस्थिपञ्जरं यदि कायं समवैषि योषिताम् ।
मदनेन च कृष्यसे बलादघृणः खल्वधृतिश्च मन्मथः
शुभतामशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु ।
अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम्
तदवेत्य मनःशरिरयोर्वनिता दोषवतीर्विशेषतः ।
चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम्
श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् ।
उपगम्य यथा तथा पुनर्न हि भेत्तुं नियमं त्वमर्हसि
अभिजनमहतो मनस्विनः प्रिययशसो बहुमानमिच्छतः ।
निधनमपि वरं स्थिरात्मनश्च्युतविनयस्य न चैव जीवितम्
बद्ध्वा यथा हि कवचं प्रगृहीतचापो, निन्द्यो भवत्यपसृतः समराद् रथस्थः ।
भैक्षाकमभ्युपगतः परिगृह्य लिङ्गं, निन्द्यस्तथा भवति कामहृतेन्द्रियाश्वः
हास्यो यथा च परमाभरणाम्बरस्त्रग् भैक्षं चरन् धृतधनुश्चलचित्रमौलिः ।
वैरूप्यमभ्युपगतः परपिण्डभोजी हास्यस्तथा गृहसुखाभिमुखः सतृष्णः
यथा स्वन्नं भुक्त्वा परमशयनीये ऽपि शयितो
वराहो निर्मुक्तः पुनरशुचि धावेत् परिचितम् ।
तथा श्रेयः श्रृण्वन् प्रशमसुखमास्वाद्य गुणवद्,
वनं शान्तं हित्वा गृहमभिलषेत् कामतृषितः
यथोल्का हस्तस्था दहति पवनप्रेरितशिखा
यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः ।
यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः
तथा स्त्रीसंसर्गो बहुविधमनर्थाय भवति
तद्विज्ञाय मनःशरीरनियतान्नारीषु दोषानिमान्,
मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च ।
दृष्ट्वा दुर्बलमामपात्रसदृशं मृत्यूपसृष्टं जगन् -
निर्मोक्षाय कुरुष्व बुद्धिमतुलामुत्कण्ठितुं नार्हसि
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0