सौन्दरानन्द · अध्याय 10
सौन्दरनन्द महाकाव्ये "अभिमाननिन्दा" नाम नवम सर्ग समाप्त ।
दशमः सर्गः
स्वर्गदर्शन
श्रुत्वा ततः सद्व्रतमुत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् ।
नन्दं निरानन्दमपेतधैर्यमभ्युज्जिहीर्षुर्मुनिराजुहाव
तं प्राप्तमप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः ।
स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय
नन्दं विदित्वा सुगतस्ततस्तं भार्याभिधाने तमसि भ्रमन्तम् ।
पाणौ गृहीत्वा वियदुत्पपात मलं जले साधुरिवोज्जिहीर्षुः
काषायवस्त्रौ कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने ।
अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाविव चक्रवाकौ
तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् ।
आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तमाशु
तस्मिन् गिरौ चारणासिद्धजुष्टे शिवे हविर्धूमकृतोत्तरीये ।
अगम्यपारस्य निराश्रयस्य तौ तस्थतुर्द्वीप इवाम्बरस्य
शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः ।
दरीश्च कुञ्जांश्च वनौकसश्च विभूषणं रक्षणमेव चाद्रेः
बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः ।
भुजे बलस्यायतपीनबाहोर्वैडूर्यकेयूर इवाबभासे
मनःशीलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः ।
संतप्तचामीकरभक्तिचित्रं रूप्याङ्गदं शीर्णमिवाम्बिकस्य
व्याघ्रः क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः ।
बभौ गिरेः प्रस्रवण पिपासुर्दित्सन् पितृभ्यो ऽम्भ इवावतीर्णः
चलत्कदम्बे हिमवन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे ।
छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिमिवार्यवृत्तः
सुवर्णगौराश्च किरातसंघा मयूरपित्रोज्ज्वलगात्रलेखाः ।
शार्दूलपातप्रतिमा गुहाभ्यो निष्पेतुरुद्गार इवाचलस्य
दरीचरीणामतिसुन्दरीणां मनोहरश्रोणिकुचोदरीणाम् ।
वृन्दानि रेजुर्दिशि किन्नरीणां पुष्पोत्कचानामिव वल्लरीणाम्
नगान्नगस्योपरि देवदारूनायासयन्तः कपयो विचेरुः ।
तेभ्यः फलं नापुरतो ऽपजग्मुर्मोघप्रसादेभ्य इवेश्वरेभ्यः
तस्मात्तु यूथादपसार्यमाणां निष्पीडितालक्तकरक्तवक्त्राम् ।
शाखामृगीमेकविपन्नदृष्टिं दृष्ट्वा मुनिर्नन्दमिदं बभाषे
का नन्द रूपेण च चेष्टया च संपश्यतश्चारुतरा मता ते ।
एषा मृगी वैकविपन्नदृष्टिः स वा जनो यत्र गता तवेष्टिः
इत्येवमुक्तः सुगतेन नन्दः कृत्वा स्मितं किंचिदिदं जगाद ।
क्व चोत्तमस्त्री भगवन् वधूस्ते मृगी नगक्लेशकरी क्व चैषा
ततो मुनिस्तस्य निशम्य वाक्यं हेत्वन्तरं किंचिदवेक्षमाणः ।
आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः
ऋतावृतावाकृतिमेक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः ।
चित्रां समस्तामपि केचिदन्ये षण्णामृतूनां श्रियमुद्वहन्ति
पुष्यन्ति केचित् सुरभीरुदारा मालाः स्रजश्च ग्रन्थिता विचित्राः ।
कर्णानुकूलानवतंसकांश्च प्रत्यर्थिभूतानिव कुण्डलानाम्
रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षाः ।
प्रफुल्लनीलोत्पलरोहिणो ऽन्ये सोन्मीलिताक्षा एव भान्ति वृक्षाः
नानाविरागाण्यथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि ।
अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः
हारान् मणिनुत्तमकुण्डलानि केयूरवर्याण्यथ नूपुराणि ।
एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षाः
वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि ।
स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः
यत्रायतांश्चैव ततांश्च तांस्तान् वाद्यस्य हेतून् सुषिरान् घनांश्च ।
फलन्ति वृक्षा मणिहेमचित्राः क्रीडासहायास्त्रिदशालयानाम्
मन्दारवृक्षांश्च कुशेशयांश्च पुष्पानतान् कोकनदांश्च वृक्षान् ।
आक्रम्य माहात्म्यगुणैर्विराजन् राजायते यत्र स पारिजातः
कृष्टे तपःशीलहलैरखिन्नैस्त्रिविष्टपक्षेत्रतले प्रसूताः ।
एवंविधा यत्र सदानुवृत्ता दिवौकसां भोगविधानवृक्षाः
मनःशिलाभैर्वदनैर्विहंगा यत्राक्षिभिः स्फाटिकसंनिभैश्च ।
शावैश्च पक्षैरभिलोहितान्तैर्माञ्जिष्ठकैरर्धसितैश्च पादैः
चित्रैः सुवर्णच्छदनैस्तथान्ये वैडुर्यनीलैर्नयनैः प्रसन्नैः ।
विहंगमाः शिञ्जिरिकाभिधाना रुतैर्मनःश्रोत्रहरैर्भ्रमन्ति
रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्जराभिः ।
वैडूर्यवर्णाभिरुपान्तमध्येष्वलंकृता यत्र खगाश्चरन्ति
रोचिष्णवो नाम पतत्रिणो ऽन्ये दिप्ताग्निवर्णा ज्वलितैरिवास्यैः ।
भ्रमन्ति दृष्टीर्वपुषाक्षिपन्तः स्वनैः शुभैरप्सरसो हरन्तः
यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः ।
स्वैः कर्मभिर्हीनविशिष्टमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते
पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानाम् ।
मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्यः
नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् ।
नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम्
ऐन्द्रं वनं तच्च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः ।
हर्षान्विताश्चाप्सरसः परीयुः सगर्वमन्योन्यमवेक्षमाणाः
सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः ।
दिव्याश्च निर्दोषपरिग्रहाश्च तपःफलस्याश्रयणं सुराणाम्
तासां जगुर्धीरमुदात्तमन्याः पद्मानि काश्चिल्ललितं बभञ्जुः ।
अन्योन्यहर्षान् ननृतुस्तथान्याश्चित्राङ्गहाराः स्तनभिन्नहाराः
कासांचिदासां वदनानि रेजुर्वनान्तरेभ्यश्चलकुण्डलानि ।
व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि
ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस्तडित्पताका इव तोयदेभ्यः ।
नन्दस्य रागेण तनुर्विवेपे जले चले चन्द्रमसः प्रभेव
वपुश्च दिव्यं ललिताश्च चेष्टास्ततः स तासां मनसा जहार ।
कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षादिव जातरागः
स जाततर्षो ऽप्सरसः पिपासुस्तत्प्राप्तये ऽधिष्ठितविक्लवार्तः ।
लोलेन्द्रियाश्वेन मनोरथेन जेह्रीयमाणो न धृतिं चकार
यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति ।
मलक्षयार्थं न मलोद्भवार्थं रजस्तथास्मै मुनिराचकर्ष
दोषांश्च कायाद् भिषगुज्जिहीर्षुर्भूयो यथा क्लेशयितुं यतेत ।
रागं तथा तस्य मुनिर्जिघांसुर्भूयस्तरं रागमुपानिनाय
दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेरुदितस्य दीप्तिः ।
मनुष्यलोके द्युतिमङ्गनानामन्तर्दधात्यप्सरसां तथा श्रीः
महच्च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दमल्पम् ।
गुर्वी रुजा हन्ति रुजां च मृद्वीं सर्वो महान् हेतुरणोर्वधाय
मुनेः प्रभावाच्च शशाक नन्दस्तद्दर्शनं सोढुमसह्यमन्यैः ।
अवीतरागस्य हि दुर्बलस्य मनो दहेदप्सरसां वपुःश्रीः
मत्वा ततो नन्दमुदीर्णरागं भार्यानुरोधादपवृत्तरागम् ।
रागेण रागं प्रतिहन्तुकामो मुनिर्विरागो गिरमित्युवाच
एताः स्त्रियः पश्य दिवौकसस्त्वं निरीक्ष्य च ब्रूहि यथार्थतत्त्वम् ।
एताः कथं रूपगुणैर्मतास्ते स वा जनो यत्र गतं मनस्ते
अथाप्सरःस्वेव निविष्टदृष्टी रागाग्निनान्तर्हृदये प्रदीप्तः ।
सगद्गदं कामविषक्तचेताः कृताञ्जलिर्वाक्यमुवाच नन्दः
हर्यङ्गनासौ मुषितैकदृष्टिर्यदन्तरे स्यात्तव नाथ वध्वाः ।
तदन्तरे ऽसौ कृपणा वधूस्ते वपुष्मतीरप्सरसः प्रतीत्य
आस्था यथा पूर्वमभून्न काचिदन्यासु मे स्त्रीषु निशाम्य भार्याम् ।
तस्यां ततःसम्प्रति काचिदास्था न मे निशाम्यैव हि रूपमासाम्
यथा प्रतप्तो मृदुनातपेन दह्येत कश्चिन् महतानलेन ।
रागेण पूर्वं मृदुनाभितप्तो रागाग्निनानेन तथाभिदह्ये
वाग्वारिणां मां परिषिञ्च तस्माद्यावन्न दह्ये स इवाब्जशत्रुः ।
रागाग्निरद्यैव हिं मां दिधक्षुः कक्षं सवृक्षाग्रमिवोत्थितो ऽग्निः
प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यमस्ति मे ।
असून् विमोक्ष्यामि विमुक्तमानस प्रयच्छ वा वागमृतं मुमूर्षवे
अनर्थभोगेन विघातदृष्टिना प्रमाददंष्ट्रेण तमोविषाग्निना ।
अहं हि दष्टो हृदि मन्मथाहिना विधत्स्व तस्मादगदं महाभिषक्
अनेन दष्टो मदनाहिनाहिना न कश्चिदात्मन्यनवस्थितः स्थितः ।
मुमोह बोध्योर्ह्यचलात्मनो मनो बभूव धीमांश्च स शन्तनुस्तनुः
स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम् ।
यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन्मे कुरु शंसतः सतः
ततो जिघांसुर्हृदि तस्य तत्तमस्तमोनुदो नक्तमिवोत्थितं तमः ।
महर्षिचन्द्रो जगतस्तमोनुदस्तमःप्रहीणो निजगाद गौतमः
धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच्छ्रुतचेतसी शृणु ।
इमा यदि प्रार्थयसे त्वमङ्गना विधत्स्व शुक्लार्थमिहोत्तमं तपः
इमा हि शक्या न बलान्न सेवया न संप्रदानेन न रूपवत्तया ।
इमा ह्रियन्ते खलु धर्मचर्यया सचेत् प्रहर्षश्चर धर्ममादृतः
इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्यजराश्च योषितः ।
इदं फलं स्वस्य शुभस्य कर्मणो न दत्तमन्येन न चाप्यहेतुतः
क्षितौ मनुष्यो धनुरादिभिः श्रमैः स्त्रियः कदाचिद्धि लभेत वा न वा ।
असंशयं यत्त्विह धर्मचर्यया भवेयुरेता दिवि पुण्यकर्मणः
तदप्रमत्तो नियमे समुद्यतो रमस्व यद्यप्सरसो ऽभिलिप्ससे ।
अहं च ते ऽत्र प्रतिभूः स्थिरे व्रते यथा त्वमाभिनियतं समेष्यसि
अतःपरं परममिति व्यवस्थितः परां धृतिं परममुनौ चकार सः ।
ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनरगमन्महीतलम्
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0