सौन्दरानन्द · अध्याय 7
सौन्दरनन्द महाकाव्ये "भार्याविलाप" नाम षष्ठ सर्ग समाप्त ।
सप्तमः सर्गः
नन्दविलाप
लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन्न तु चेतसा तत् ।
भार्यागतैरेव मनोवितर्कैर्जेह्रीयमाणो न ननन्द नन्दः
स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः ।
यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम
स्थितः सः दीनः सहकारवीथ्यामालीनसंमूर्च्छितषट्पदायाम् ।
भृशं जजृम्भे युगदीर्घबाहुर्ध्यात्वा प्रियां चापमिवाचकर्ष
स पीतकक्षोदमिव प्रतीच्छन् चूतद्रुमेभ्यस्तनुपुष्पवर्षम् ।
दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः
शोकस्य हर्ता शरणागतानां शोकस्य कर्त्ता प्रतिगर्वितानाम् ।
अशोकमालम्ब्य स जातशोकः प्रियां प्रियाशोककवनां शुशोच
प्रियां प्रियायाः प्रतनुं प्रियङ्गुं निशाम्य भीतामिव निष्पतन्तीम् ।
सस्मार तामश्रुमुखीं सबाष्पः प्रियां प्रियङ्गुप्रसवावदाताम्
पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् ।
संकल्पयामास शिखां प्रियायाः शुक्लांशुके ऽट्टालपाश्रितायाः
लतां प्रफुल्लामतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् ।
निशाम्य चिन्तामगमत्तदैवं श्लिष्टा भवेन्मामपि सुन्दरीति
पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैरिव हेमगर्भैः ।
कान्तारवृक्षा इव दुःखितस्य न चक्षुराचिक्षिपुरस्य तत्र
गन्धं वमन्तो ऽपि च गन्धपर्णा गन्धर्ववेश्या इव गन्धपूर्णाः ।
तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जन्हुर्हृदयं प्रतेपुः
संरक्तकण्ठैश्च विनीलकण्ठैस्तुष्टैः प्रहृष्टैरपि चान्यपुष्टैः ।
लेलिह्यमानैश्च मधु द्विरेफैः स्वनद्वनं तस्य मनो नुनोद
स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन ।
कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत्तत्
अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च ।
त्यक्त्वा प्रियामश्रुमुखीं तपो ये चेरूश्चरिष्यन्ति चरन्ति चैव
तावद् दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा ।
यावद् दृढं बन्धनमेतदेव मुखं चलाक्षं ललितं च वाक्यम्
छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच्चैव सुहृद्बलाच्च ।
ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः
ज्ञानं न मे तच्च शमाय यत् स्यान्न न चास्ति रौक्ष्यं करुणात्मको ऽस्मि ।
कामात्मकश्चास्मि गुरुश्च बुद्धः स्थितो ऽन्तरे चक्रगतेरिवास्मि
अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विगुरुणानुशिष्टः ।
सर्वास्ववस्थासु लभे न शान्तिं प्रियावियोगादिव चक्रवाकः
अद्यापि तन्मे हृदि वर्तते च यद्दर्पणे व्याकुलिते मया सा ।
कृतानुतक्रोधकमब्रवीन्मां कथंकृतो ऽसीति शठं हसन्ती
यथैष्यनाश्यानविशेषकायां मयीति यन्मामवदच्च साश्रु ।
पारिप्लवाक्षेण मुखेन बाला तन्मे वचो ऽद्यापि मनो रुणद्धि
बुद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुरेषः ।
सक्तः क्वचिन्नाहमिवैष नूनं शान्तस्तथा तृप्त इवोपविष्टः
पुंस्कोकिलानामविचिन्त्य घोषं वसन्तलक्ष्म्यामविचार्य चक्षुः ।
शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः
अस्मै नमो ऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय ।
शान्तात्मने ऽन्तर्गतमानासाय चङ्क्रम्यमाणाय निरुत्सुकाय
निरीक्षमाणस्य जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् ।
कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते
भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः ।
जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद्धि नास्मद्विधमाक्षिपेयुः
कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मधवानहल्याम् ।
सत्त्वेन सर्गेण च तेन हीनः स्त्रिनिर्जितः किं बत मानुषो ऽहम्
सूर्यः सरण्यूं प्रति जातरागस्तत्प्रीतये तष्ट इति श्रुतं नः ।
रतमश्वभूतो ऽश्ववधूं समेत्य यतो ऽश्विनौ तौ जनयांबभूव
स्त्रीकारणं वैरविशक्तबुद्ध्योर्वैवस्वताग्न्योश्चलितात्मधृत्योः ।
बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेदिहान्यः
भेजे श्वपाकीं मुनिरक्षमालां कामाद्वसिष्ठश्च स सद्वरिष्ठः ।
यस्यां विवश्वानिव भूजलादः सुतः प्रसूतो ऽस्य कपिञ्जलादः
पराशरः शापशरस्तथर्षिः कालीं सिषेवे झषगर्भयोनिम् ।
सुतो ऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्त्ता
द्वैपायनो धर्मपरायणश्च रेमे समं काशिषु वेश्यवध्वा ।
यया हतो ऽभूच्चलनूपुरेण पादेन विद्युल्लतयेव मेघः
तथाङ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे ।
सारस्वतो यत्र सुतो ऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता
तथा नृपर्षेर्दिलीपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः ।
स्रुवं गृहीत्वा स्रवदात्मतेजश्चिक्षेप वह्रावसितो यतो ऽभूत्
तथाङ्गदो ऽन्तं तपसो ऽपि गत्वा कामाभिभूतो यमुनामगच्छत् ।
धीमत्तरं यत्र रथीतरं स सारङ्गजुष्टं जनयाम्बभूव
निशाम्य शान्तां नरदेवकन्यां वने ऽपि शान्ते ऽपि च वर्तमानः ।
चचाल धैर्यान्मुनिऋष्यश्रृङ्गः शैलो महीकम्प इवोच्चश्रृङ्गः
ब्रह्मर्षिभावार्थमपास्य राज्यं भेजे वनं यो विषयेष्वनास्थः ।
स गाधिजश्चापहृतो घृताच्या समा दशैकं दिवसं विवेद
तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्थूलशिरा मुमूर्च्छ ।
यः कामरोषात्मतयानपेक्षः शशाप तामप्रतिगृह्यमाणः
प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम् ।
संदृश्य संदृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष
नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर्विबुधप्रभावः ।
तथोर्वशीमप्सरसं विचिन्त्य राजर्षिरुन्मादमगच्छदैडः
रक्तो गिरेर्मूर्धनि मेनकायां कामात्मकत्वाच्च स तालजङ्घः ।
पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने
नाशं गतायां परमाङ्गनायां गंगाजले ऽनङ्गपरीतचेताः ।
जन्हुश्च गङ्गां नृपतिर्भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः
नृपश्च गङ्गाविरहाज्जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः ।
कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुरस्वतन्त्रः
हृतां च सौनन्दकिनानु ऽशोचन् प्राप्तामिवोर्वीं स्त्रियमुर्वशीं ताम् ।
सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चितोद्भवभिन्नवर्मा
भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः ।
बलेन सेनाक इति प्रकाशः सेनापतिर्देव इवात्तसेनः
स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहीर्षन् जनमेजयः सः ।
अवाप भीष्मात् समवेत्य मृत्युं न तद्गतं मन्मथमुत्ससर्ज
शप्तश्च पाण्डुर्मदनेन नूनं स्त्रीसंगमे मृत्युमवाप्स्यसीति ।
जगाम माद्रीं न महर्षिशापादसेव्यसेवी विममर्श मृत्युम्
एवंविधा देवनृपर्षिसङ्घाः स्त्रीणां वशं कामवशेन जग्मुः ।
धिया च सारेण च दुर्बलः सन् प्रियामपश्यन् किमु विक्लवो ऽहम्
यास्यामि तस्माद् गृहमेव भूयः कामं करिष्ये विधिवत् सकामम् ।
न ह्यन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच्च्युतस्य
पाणौ कपालमवधार्य विधाय मौण्ड्यं मानं निधाय विकृतं परिधाय वासः ।
यस्योद्धवो न धृतिरस्ति न शान्तिरस्ति चित्रप्रदीप इव सो ऽस्ति च नास्ति चैव
यो निःसृतश्च न च निःसृतकामरागः काषायमुद्वहति यो न च निष्कषायः ।
पात्रं बिभर्ति च गुणैर्न च पात्रभूतो लिङ्गं वहन्नपि स नैव गृही न भिक्षुः
न न्याय्यमन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुमिति यो ऽपि हि मे विचारः ।
सो ऽपि प्रणश्यति विचिन्त्य नृपप्रवीरास्तान्ये तपोवनमपास्य गृहाण्यतीयुः
शाल्बाधिपो हि ससुतो ऽपि तथाम्बरीषो रामो ऽन्ध एव स च सांस्कृतिरन्तिदेवः ।
चीराण्यपास्य दधिरे पुनरंशुकानि छित्त्वा जटाश्च कुटिला मुकुटानि बभ्रुः
तस्माद् भिक्षार्थं मम गुरुरितो यावदेव प्रयातस्
त्यक्त्वा काषायं ऋहमहमितस्तावदेव प्रयास्ये ।
पूज्यं लिङ्गं हि स्खलितमनसो बिभ्रतः क्लिष्टबुद्धेर्
नामुत्रार्थः स्यादुपहतमतेर्नाप्ययं जीवलोकः
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0