सौन्दरानन्द · अध्याय 6
सौन्दरनन्द काव्ये "नन्ददीक्षा" नाम पञ्चम सर्ग समाप्त ।
षष्ठः सर्गः
भार्याविलाप
ततो हृते भर्त्तरि गौरवेण प्रीतौ हृतायामरतौ कृतायाम् ।
तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे
सा भर्तुरभ्यागमनप्रतीक्षा गवाक्षमाक्रम्य पयोधराभ्याम् ।
द्वारोन्मुखी हर्म्यतलाल्ललम्बे मुखेन तिर्यङ्नतकुण्डलेन
विलम्बहारा चलयोक्त्रका सा तस्माद् विमानाद् विनता चकाशे ।
तपः क्षयादप्सरसां वरेव च्युतं विमानात् प्रियमीक्षमाणा
सा खेदसंस्विन्नललाटकेन निश्वासनिष्पीतविशेषकेण ।
चिन्ताचलाक्षेण मुखेन तस्थौ भर्त्तारमन्यत्र विशङ्कमाना
ततश्चिरस्थानपरिश्रमेण स्थितैव पर्यङ्कतले पपात ।
तिर्यक्च शिश्ये प्रविकीर्णहारा सपादुकैकार्धविलम्बपादा
अथात्र काचित् प्रमदा सबाष्पां तां दुःखितां द्रष्टुमनीप्समाना ।
प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती
तस्याश्च सोपानतलप्रणादं श्रुत्वैव तूर्णं पुनरुत्पपात ।
प्रीत्यां प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना
सा त्रासयन्ती वलभीपुटस्थान् पारावतान् नूपूरनिस्वनेन ।
सोपानकुक्षिं प्रससार हर्षाद् भ्रष्टं दुकूलान्तमचिन्तयन्ती
तामङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे ।
विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः
सा दुःखिता भर्त्तुरदर्शनेन कामेन कोपेन च दह्यमाना ।
कृत्वा करे वक्त्रमुपोपविष्टा चिन्तानदीं शोकजलां ततार
तस्याः मुखं पद्मसपत्नभूतं पाणौ स्थितं पल्लवरागताम्रे ।
छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्ममिवोपरिष्टात्
सा स्त्रीस्वभावेन विचिन्त्य तत्तद् दृष्टानुरागे ऽभिमुखे ऽपि पत्यौ ।
धर्माश्रिते तत्त्वमविन्दमाना संकल्प्य तत्तद्विललाप तत्तत्
एष्याम्यनाश्यानविशेषकायां त्वयीति कृत्वा मयि तं प्रतिज्ञाम् ।
कस्मान्नु हेतोर्दयितप्रतिज्ञः सो ऽद्य प्रियो मे वितथप्रतिज्ञः
आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोरतिदक्षिणस्य ।
कुतो विकारो ऽयमभूतपूर्वः स्वेनापरागेण ममापचारात्
रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदय विरक्तम् ।
तथापि रागो यदि तस्य हि स्यान् मच्चित्तरक्षी न स नागतः स्यात्
रूपेण भावेन च मद्विशिष्टा प्रियेण दृष्टा नियतं ततो ऽन्या ।
तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतिं मामागमद् विहाय
भक्तिं स बुद्धं प्रति याववोचत्तस्य प्रयातुं मयि सो ऽपदेशः ।
मुनौ प्रसादो यदि तस्य हि स्यान्मृत्योरिवोग्रादनृताद् बिभीयात्
सेवार्थमादर्शनमन्यचित्तो विभूषयन्त्या मम धारयित्वा ।
बिभर्ति सो ऽन्यस्य जनस्य तं चेन्नमो ऽस्तु तस्मै चलसौहृदाय
नेच्छन्ति याः शोकमवाप्तुमेवं श्रद्धातुमर्हन्ति न ता नराणाम् ।
क्व चानुवृत्तिर्मयि सास्य पूर्वं त्यागः क्व चायं जनवत् क्षणेन
इत्येवमादि प्रियविप्रयुक्ता प्रिये ऽन्यदाशङ्क्य च सा जगाद ।
संभ्रान्तमारुह्य च तद्विमानं तां स्त्री सबाष्पा गिरमित्युवाच
युवापि तावत् प्रियदर्शनो ऽपि सौभाग्यभाग्याभिजनान्वितो ऽपि ।
यस्त्वां प्रियो नाभ्यचरत् कदाचित्तमन्यथा यास्यतिकातरासि
मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम् ।
न स त्वदन्यां प्रमदामवैति स्वचक्रवाक्या इव चक्रवाकः
स तु त्वदर्थं गृहवासमीप्सन् जिजीविषुस्त्वत्परितोषहेतोः ।
भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः
श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात् ।
प्रगृह्य बाहू विरुराव चोच्चैर्हृदीव दिग्धाभिहत करेणुः
सा रोदनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः ।
पपात शीर्णाकुलहारयष्टिः फलातिभारादिव चूतयष्टिः
सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षी ।
पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रगिवातपेन
संचिन्त्य सचिन्त्य गुणांश्च भर्तुर्दीर्घं निशश्वास तताम चैव ।
विभूषणश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव
न भूषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि ।
निर्भूषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव
धृतः प्रियेणायमभून्ममेति रुक्मत्सरुं दर्पणमालिलिङ्गे ।
यत्नाच्च विन्यस्ततमालपत्रौ रुष्टेव धृष्टं प्रममाजं गण्डौ
सा चक्रवाकीव भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका ।
विस्पर्धमानेव विमानसंस्थैः पारावतैः कूजनलोलकण्ठैः
विचित्रमृद्वास्तरणे ऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डिते ऽपि ।
रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना
सन्दृश्य भर्तुश्च विभूषणानि वासांसि वीणाप्रभृतींश्च लीलाः ।
तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद
सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव ।
शोकाग्निनान्तर्हृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव
रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ ।
चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम्
तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः ।
अन्तर्गृहादारुरुहुर्विमानं त्रासेन किन्नर्य इवाद्रिपृष्ठम्
बाष्पेण ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः ।
स्थानानुरूपेण यथाभिमानं निलिल्यिरे तामनुदह्यमानाः
ताभिर्वृता हर्म्यतले ऽङ्गनाभिश्चिन्तातनुः सा सुतनुर्बभासे ।
शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरदभ्रमध्ये
या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च ।
सा पृष्ठतस्तां तु समालिलिङ्गे प्रमृज्य चाश्रूणि वचांस्युवाच
राजर्षिवध्वास्तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः ।
इक्ष्वाकुवंशे ह्यभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि
प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस्ते ।
तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदाश्रितानाम्
यद्यन्यया रूपगुणाधिकत्वाद् भर्त्ता हृतस्ते कुरु बाष्पमोक्षम् ।
मनस्विनी रूपवती गुणाढ्या हृदि क्षते कात्र हि नाश्रु मुञ्चेत्
अथापि किंचिद् व्यसनं प्रपन्नो मा चैव तद् भूत् सदृशो ऽत्र बाष्पः ।
अतो विशिष्टं न हि दुःखमस्ति कुलोद्गतायाः पतिदेवतायाः
अथ त्विदानीं लडितः सुखेन स्वस्थः फलस्थो व्यसनान्यदृष्ट्वा ।
वीतस्पृहो धर्ममनुप्रपन्नः किं विक्लवा रोदिषि हर्षकाले
इत्येवमुक्तापि बहुप्रकारं स्नेहात्तया नैव धृतिं चकार ।
अथापरा तां मनसो ऽनुकूलं कालोपपन्नं प्रणयादुवाच
ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रमेव ।
त्वया विना स्थास्यति तत्र नासौ सत्त्वाश्रयश्चेतनयेव हीनः
अङ्के ऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः ।
आपत्सु कृच्छ्रास्वपि चागतासु त्वां पश्यतस्तस्य भवेन्न दुःखम्
त्वं निर्वृतिं गच्छ नियच्छ बाष्पं तप्ताश्रुमोक्षात् परिरक्ष चक्षुः ।
यस्तस्य भावस्त्वयि यश्च रागो न रंस्यते त्वद्विरहात् स धर्मे
स्यादत्र नासौ कुलसत्त्वयोगात् काषायमादाय विहास्यतीति ।
अनात्मनादाय गृहोन्मुखस्य पुनर्विमोक्तुं क इवास्ति दोषः
इति युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा ।
द्रमिडमभिमुखी पुरेव रम्भा क्षितिमगमत् परिवारिताप्सरोभिः
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0