भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 5

5.1

सौन्दरनन्द महाकाव्ये "भार्यायाचितक" नाम चतुर्थ सर्ग समाप्त ।
पञ्चमः सर्गः
नन्ददीक्षा
अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धिगृहीतवेषाः ।
महापणेभ्यो व्यवहारिणश्च महामुनौ भक्तिवशात् प्रणेमुः

5.2

केचित् प्रणम्यानुययुर्मुहूर्त्तं केचित् प्रणम्यार्थवशेन जग्मुः ।
केचित् स्वकेष्वावसथेषु तस्थुः कृत्वाञ्जलीन् वीक्षणतत्पराक्षाः

5.3

बुद्धस्ततस्तत्र नरेन्द्रमार्गे स्रोतो महद्भक्तिमतो जनस्य ।
जगाम दुःखेन विगाहमानो जलागमे स्त्रोत इवापगायाः

5.4

अथो महद्भिः पति संपतद्भिः संपूज्यमानाय तथागताय ।
कर्त्तुं प्रणामं न शशाक नन्दस्तेनाभिरेमे तु गुरोर्महिम्ना

5.5

स्वं चावसङ्गं पथि निर्मुमुक्षुर्भक्तिं जनस्यान्यमतेश्व रक्षन् ।
नन्दं च गेहाभिमुखं जिघृक्षन् मार्गं ततो ऽन्यं सुगतः प्रपेदे

5.6

ततो विविक्तं च विविक्तचेताः सन्मार्गविन् मार्गमभिप्रतस्थे ।
गत्वाग्रतश्चाग्र्यतमाय तस्मै नान्दीविमुक्ताय ननाम नन्दः

5.7

शनैर्व्रजन्नेव स गौरवेण पटावृतांसो विनतार्धकायः ।
अधोनिबद्धाञ्जलिरूर्ध्वनेत्रः सगद्गदं वाक्यमिदं बभाषे

5.8

प्रासादसंस्थो भगवन्तमन्तःप्रविष्टमश्रौषमनुग्रहाय ।
अतस्त्वरावानहमभ्युपेतो गृहस्य कक्ष्यामहतो ऽभ्यसूयन्

5.9

तत्साधु साहुप्रिय मत्त्प्रियार्थम् तत्रास्तु भिक्षूत्तम भैक्षकालः ।
असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः

5.10

इत्येवमुक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन ।
तादृङ् निमित्तं सुगतश्चकार नाहारकृत्यं स यथा विवेद

5.11

ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार ।
अनुग्रहार्थं सुगतस्तु तस्मै पात्रं ददौ पुरष्करपत्रनेत्रः

5.12

ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम् ।
जग्राह चापग्रहणक्षमाभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम्

5.13

पराङ्मुखन्त्वन्यमनस्कमाराद् विज्ञाय नन्दः सुगतं गतास्थम् ।
हस्तस्थपात्रो ऽपि गृहं यियासुः ससार मार्गान्मुनिमीक्षमाणः

5.14

भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वापि यियासुरेव ।
विमोहयामास मुनिस्ततस्तं रथ्यामुखस्यावरणेन तस्य

5.15

निर्मोक्षबीजं हि ददर्श तस्य ज्ञानं मृदु क्लेशरजश्च तीव्रम् ।
क्लेशानुकूलं विषयात्मकं च नन्दं यतस्तं मुनिराचकर्ष

5.16

संक्लेशपक्षो द्विविधश्च दृष्टस्तथा द्विकल्पो व्यवदानपक्षः ।
आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य

5.17

अयत्नतो हेतुबलाधिकस्तु निर्मुच्यते घट्टितमात्र एव ।
यत्नेन तु प्रत्ययनेयबुद्धिर्विमोक्षमाप्नोति पराश्रयेण

5.18

नन्दः स च प्रत्ययनेयचेता यं शिश्रिये तन्मयतामवाप ।
यस्मादिमं तत्र चकार यन्नं तं स्नेहपङ्कान् मुनिरुज्जिहीर्षन्

5.19

नन्दस्तु दुःखेन विचेष्टमानः शनैरगत्या गुरुमन्वगच्छत् ।
भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्नार्द्रविशेषकं तत्

5.20

ततो मुनिस्तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारम् ।
निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम्

5.21

दीनं महाकारुणिकस्ततस्तं दृष्ट्वा मुहूर्त करुणायमानः ।
करेण चक्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदमुवाच चैनम्

5.22

यावन्न हिंस्रः समुपैति कालः शमाय तावत् कुरु सौम्य बुद्धिम् ।
सर्वास्ववस्थास्विह वर्तमानं सर्वाभिसारेण निहन्ति मृत्युः

5.23

साधारणात् स्वप्ननिभादसाराल्लोलं मनः कामसुखान्नियच्छ ।
हव्यैरिवाग्नेः पवनेरितस्य लोकस्य कामैर्न हि तृप्तिरस्ति

5.24

श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारससृप्तिकरो रसेभ्यः ।
प्रधानमध्यात्मसुखं सुखेभ्यो ऽविद्यारतिर्दुःखतमारतिभ्यः

5.25

हितस्य वक्ता प्रवरः सुहृद्भ्यो धर्माय खेदो गुणवान् श्रमेभ्यः ।
ज्ञानाय कृत्यं परमं क्रियाभ्यः किमिन्द्रियाणामुपगम्य दास्यम्

5.26

तन्निश्चितं भील्कमशुग्वियुक्तं परेष्वनायत्तमहार्यमन्यैः ।
नित्यं शिवं शान्तिसुखं वृणीष्व किमिन्द्रियार्थार्थमनर्थमूढ्वा

5.27

जरासमा नास्त्यमृजा प्रजानां व्याधेः समो नास्ति जगत्यनर्थः ।
मृत्योः समं नास्ति भयं पृथिव्यामेतत्त्रयं खल्ववशेन सेव्यम्

5.28

स्नेहेन कश्चिन्न समो ऽस्ति पाशः स्रोतो न तृष्णासममस्ति हारि ।
रागाग्निना नास्ति समस्तथाग्निस्तच्चेत् त्रयं नास्ति सुखं च ते ऽस्ति

5.29

अवश्यभावी प्रियविप्रयोगस्तस्माञ्च शोको नियतं निषेव्यः ।
शोकेन चोन्मादमुपेयिवांसो राजर्षयो ऽन्ये ऽप्यवशा विचेलु

5.30

प्रज्ञामयं वर्म बधान तस्मान्नो क्षान्तिनिघ्नस्य हि शोकबाणाः ।
महच्च दग्धुं भवकक्षजालं संघुक्षयाल्पाग्निमिवात्मतेजः

5.31

यथौषधैर्हस्तगतैः सविद्यो न दश्यते कश्चन पन्नगेन ।
तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजंगमेन

5.32

आस्थाय योगं परिगम्य तत्त्वं न त्रासमागच्छति मृत्युकाले ।
आबद्धवर्मा सुधनुः कृतास्रो जिगीषया शूर इवाहवस्थः

5.33

इत्येवमुक्तः स तथागतेन सर्वेषु भूतेष्वनुकम्पकेन ।
धृष्टं गिरान्तर्हृदयेन सीदंस्तथेति नन्दः सुगतं बभाषे

5.34

अथ प्रमादाच्च तमुज्जिहीर्षन् मत्वागमस्यैव च पात्रभूतम् ।
प्रब्राजयानन्द शमाय नन्दमित्यब्रवीन्मैत्रमना महर्षिः

5.35

नन्दं ततो ऽन्तर्मनसा रुदन्तमेहीति वैदेहमुनिर्जगाद ।
शनैस्ततस्तं समुपेत्य नन्दो न प्रव्रजिष्याम्यहमित्युवाच

5.36

श्रुत्वाथ नन्दस्य मनीषितं तद् बुद्धाय वैदेहमुनिः शशंस ।
संश्रुत्य तस्मादपि तस्य भावं महामुनिर्नन्दमुवाच भूयः

5.37

मय्यग्रजे प्रव्रजिते ऽजितात्मन् भ्रातृष्वनुप्रव्रजितेषु चास्मान् ।
ज्ञातींश्च दृष्ट्वा व्रतिनो गृहस्थान् संविन्न किं ते ऽस्ति न वास्ति चेतः

5.38

राजर्षयस्ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः ।
निष्ठीव्य कामानुपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः

5.39

भूयः समालोक्य गृहेषु दोषान् निशाम्य तत्त्यागकृतं च शर्म ।
नैवास्ति मोक्तुं मतिरालयं ते देशं मुमूर्षोरिव सोपसर्गम्

5.40

संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा ।
आरोप्यमाणस्य तमेव मार्गं भ्रष्टस्य सार्थादिव सार्थिकस्य

5.41

यः सर्वतो वेश्मनि दह्यमाने शयीत मोहान्न ततो व्यपेयात् ।
कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत् प्रमत्तः

5.42

प्रणीयमानश्च यथा वधाय मत्तो हसेच्च प्रलपेच्च वध्यः ।
मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन् विपरितचेताः

5.43

यदा नरेन्द्राश्च कुटुम्बिनश्च विहाय बन्धूंश्च परिग्रहांश्च ।
ययुश्च यास्यन्ति च यान्ति चैव प्रियेष्वनित्येषु कुतो ऽनुरोधः

5.44

किञ्चिन्न पश्यामि रतस्य यत्र तदन्यभावेन भवेन्न दुःखम् ।
तस्मात् क्वचिन्न क्षमते प्रसक्तिर्यदि क्षमस्तद्विगमान्न शोकः

5.45

तत्सौम्य लोलं परिगम्य लोकं मायोपमं चित्रमिवेन्द्रजालम् ।
प्रियाभिधानं त्यज मोहजालं छेत्तुं मतिस्ते यदि दुःखजालम्

5.46

वरं हितोदर्कमानिष्टमन्नं न स्वादु यत् स्यादहितानुबद्धम् ।
यस्मादहं त्वां विनियोजयामि शिवे शुचौ वर्त्मनि विप्रिये ऽपि

5.47

बालस्य धात्री विनिगृह्य लोष्ठं यथोद्धरत्यास्यपुटप्रविष्टम् ।
तथोज्जिहीर्षुः खलु रागशल्यं तत्त्वामवोचं परुषं हिताय

5.48

अनिष्टमप्यौषधमातुराय ददाति वैद्यश्च यथा निगृह्य ।
तद्वन्मयोक्तं प्रतिकूलमेतत्तुभ्यं हितोदर्कमनुग्रहाय

5.49

तद्यावदेव क्षणसंनिपातो न मृत्युरागच्छति यावदेव ।
यावद्वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावदेव

5.50

इत्येवमुक्तः स विनायकेन हितैषिणा कारुणिकेन नन्दः ।
कर्तास्मि सर्वं भगवन् वचस्ते तथा यथाज्ञापयसीत्युवाच

5.51

आदाय वैदेहमुनिस्ततस्तं निनाय संश्लिष्य विचेष्टमानम् ।
व्ययोजयच्चाश्रुपरिप्लुताक्षं केशश्रियं छत्रनिभस्य मूर्ध्नः

5.52

अथो नतं तस्य मुखं सबाष्पं प्रवास्यमानेषु शिरोरुहेषु ।
वक्राग्रनालं नलिनं तडागे वर्षोदकक्लिन्नमिवाबभासे

5.53

नन्दस्ततस्तरुकषायविरक्तवासाश्चिन्तावशो नवगृहीत इव द्विपेन्द्रः ।
पूर्णः शशी बहुलपक्षगतः क्षपान्ते बालातपेन परिषिक्त इवावभासे

मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc