भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 4

4.1

सौन्दरनन्दे महाकाव्ये "तथागतवर्णन" नाम तृतीय सर्ग समाप्त ।
चतुर्थः सर्गः
भार्यायाचितक
मुनौ ब्रुवाणे ऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु ।
प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः

4.2

स चक्रवाक्येव हि चक्रवाकस्तया समेतः प्रियया प्रियार्हः ।
नाचिन्तयद् वैश्रमणं न शक्रं तत्स्थानहेतोः कुत एव धर्मम्

4.3

लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति ।
दीप्त्या च मानेन च भामिनीति यातो बभाषे त्रिविधेन नाम्ना

4.4

सा हासहंसा नयनद्विरेफा पीनस्तनात्युन्नतपद्मकोशा ।
भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण

4.5

रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन ।
मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः

4.6

सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश्च नन्दः ।
अतीत्य मर्त्याननुपेत्य देवान् सृष्टावभूतामिव भूतधात्रा

4.7

तां सुन्दरी चेन्न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः ।
द्वन्द्वं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्द्रौ

4.8

कन्दर्परत्योरिव लक्ष्यभूतं प्रमोदनान्द्योरिव नीडभूतम् ।
प्रहर्षतुष्ट्योरिव पात्रभूतं द्वन्द्वं सहारंस्त मदान्धभूतम्

4.9

परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् ।
परस्पराश्लेषहृताङ्गरागं परस्परं तन्मिथुनं जहार

4.10

भावानुरक्तौ गिरिनिर्झरस्थौ तौ किन्नरीकिंपुरुषाविवोभौ ।
चिक्रीडतुश्चाभिविरेजतुश्च रूपश्रियान्योन्यमिवाक्षिपन्तौ

4.11

अन्योन्यसंरागविवर्धनेन तद्द्वन्द्वमन्योन्यमरीरमच्च ।
क्लमान्तरे ऽन्योन्यविनोदनेन सलीलमन्योन्यममीमदच्च

4.12

विभूषयामास ततः प्रियां स सिषेविषुस्तां न मृजावहार्थम् ।
स्वेनैव रूपेण विभूषिता हि विभूषणानामपि भूषणं सा

4.13

दत्त्वाथ सा दर्पणमस्य हस्ते ममाग्रतो धारय तावदेनम् ।
विशेषकं यावदहं करोमीत्युवाच कान्तं स च तं बभार

4.14

भर्तुस्ततः श्मश्रु निरीक्षमाणा विशेषकं सापि चकार तादृक् ।
निश्वासवातेन च दर्पणस्य चिकित्सयित्वा निजघान नन्दः

4.15

सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास ।
भवेच्च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार

4.16

चिक्षेप कर्णोत्पलमस्य चांसे करेण सव्येन मदालसेन ।
पत्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रे ऽस्य तामेव विनिर्दुधाव

4.17

ततश्चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोद्भासितराङ्गुलिभ्याम् ।
पद्भ्यां प्रियाया नलिनोपभाभ्यां मूर्ध्ना भयान्नाम ननाम नन्दः

4.18

स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे ।
सुवर्णवेद्यामनिलावभग्नः पुष्पातिभारादिव नागवृक्षः

4.19

सा तं स्तनोद्वर्तितहारयष्टिरुत्थापयामास निपीड्य दोर्भ्याम् ।
कथं कृतो ऽसीति जहास चोच्चैर्मुखेन साचीकृतकुण्डलेन

4.20

पत्युस्ततो दर्पणसक्तपाणेर्मुहुर्मुहुर्वक्त्रमवेक्षमाणा ।
तमालपत्रार्द्रतले कपोले समापयामास विशेषकं तत्

4.21

तस्या मुखं तत् सतमालपत्रं ताम्राधरौष्ठं चिकुरायताक्षम् ।
रक्ताधिकाग्रं पतितद्विरेफं सशैवलं पद्ममिवाबभासे

4.22

नन्दस्ततो दर्पणमादरेण बिभ्रत्तदामण्डनसाक्षिभूतम् ।
विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श

4.23

तत्कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टमिवारविन्दम् ।
नन्दः प्रियाया मुखमीक्षमाणो भूयः प्रियानन्दकरो बभूव

4.24

विमानकल्पे स विमानगर्भे ततस्तथा चैव ननन्द नन्दः ।
तथागतश्चागतभैक्षकालो भैक्षाय तस्य प्रविवेश वेश्म

4.25

अवाङमुखो निष्प्रणायश्च तस्थौ भ्रातुर्गृहे ऽन्यस्य गृहे यथैव ।
तस्मादथो प्रेष्यजनप्रमादाद् भिक्षामलब्ध्वैव पुनर्जगाम

4.26

काचित् पिपेषाङ्गविलेपनं हि वासो ऽङ्गना काचिदवासयच्च ।
अयोजयत् स्नानविधिं तथान्या जग्रन्थुरन्याः सुरभीः स्रजश्च

4.27

तस्मिन् गृहे भर्तुरतश्चरन्त्यः क्रीडानुरूपं ललितं नियोगम् ।
काश्चिन्न बुद्धं ददृशुर्युवत्यो बुद्धस्य वैषा नियतं मनीषा

4.28

काचित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः ।
विनिष्पतन्तं सुगतं ददर्श पयोदगर्भादिव दीप्तमर्कम्

4.29

सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश्च ।
नन्दस्य तस्थौ पुरतो विवक्षुस्तदाज्ञया चेति तदाचचक्षे

4.30

अनुग्रहायास्य जनस्य शङ्के गुरुर्गृहं नो भगवान् प्रविष्टः ।
भिक्षामलब्ध्वा गिरमासनं वा शून्यादरण्यादिव याति भूयः

4.31

श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनः प्रयाणम् ।
चचाल चित्राभरणाम्बरस्रक्कल्पद्रुमो धूत इवानिलेन

4.32

कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे ।
कर्त्तु गमिष्यामि गुरौ प्रणामं मामभ्यनुज्ञातुमिहार्हसीति

4.33

सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव ।
ददर्श चाश्रुप्लुतलोलनेत्रा दीर्घे च निश्वस्य वचो ऽभ्युवाच

4.34

नाहं यियासोर्गुरुदर्शनार्थमर्हामि कर्तुं तव धर्मपीडाम् ।
गच्छार्यपुत्रैहि च शीघ्रमेव विशेषको यावदयं न शुष्कः

4.35

सचेद्भवेस्त्वं खलु दीर्घसूत्रो दण्डं महान्तं त्वयि पातयेयम् ।
मुहुर्मुहुस्त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम्

4.36

अथाप्यनाश्यानविशेषकायां मय्येष्यसि त्वं त्वरितं ततस्त्वाम् ।
निपीडयिष्यामि भुजद्वयेन निर्भूषणेनार्द्रविलेपनेन

4.37

इत्येवमुक्तश्च निपीडितश्च तयासवर्णस्वनया जगाद ।
एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर्दूरगतो न मे सः

4.38

ततः स्तनोद्वर्तिततचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन ।
विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर्बभार

4.39

सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी ।
स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तं मृगम् भ्रान्तमुखी मृगीव

4.40

दिदृक्षयाक्षिप्तमना मुनेस्तु नन्दः प्रयाणं प्रति तत्वरे च ।
विवृत्तदृष्टिश्च शनैर्ययौ तां करीव पश्यन् स लडत्करेणुम्

4.41

छातोदरीं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीमिवाद्रेः ।
काक्षेण पश्यन् न ततर्प नन्दः पिबन्निवैकेन जलं करेण

4.42

तं गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनराचकर्ष ।
सो ऽनिश्चयान्नापि ययौ न तस्थौ तुरंस्तरंगेष्विव राजहंसः

4.43

अदर्शनं तूपगतश्च तस्या हर्म्यात्ततश्चावततार तूर्णम् ।
श्रुत्वा ततो नूपुरनिस्वनं स पुनर्ललम्बे हृदये गृहीतः

4.44

स कामरागेण निगृह्यमाणो धर्मानुरागेण च कृष्यमाणः ।
जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्त्रोत इवापगायाः

4.45

ततः क्रमैर्दीर्घतमैः प्रचक्रमे कथं नु यातो न गुरुर्भवेदिति ।
स्वजेय तां चैव विशेषकप्रियां कथं प्रियामार्द्रविशेषकामिति

4.46

अथ स पथि ददर्श मुक्तमानं पितृनगरे ऽपि तथा गताभिमानम् ।
दशबलमभितो विलम्बमानं ध्वजमनुयान इवैन्द्रमर्च्यमानम्

मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc