भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 3

3.1

सौन्दरनन्द महाकाव्ये "राजवर्णन" नाम द्वितीयः सर्ग समाप्त ।
तृतीयः सर्गः
तथागत वर्णन
तपसे ततः कपिलवास्तु हयगजरथौघसंकुलम् ।
श्रीमदभयप्रनुरक्तजनं स विहाय निश्चितमना वनं ययौ

3.2

विविधागमांस्तपसि तांश्च विविधनियमाश्रयान् मुनीन् ।
प्रेक्ष्य स विषयतृषाकृपणाननवस्थितं तप इति न्यवर्तत

3.3

अथ मोक्षवादिनमराडमुपशममतिं तथोद्रकम् ।
तत्त्वकृतमतिरुपास्य जहावयमप्यमार्ग इति मार्गकोविदः

3.4

स विचारयन् जगति किं नु परममिति तं तमागमम् ।
निश्चयमनधिगतः परतः परमं चचार तप एव दुष्करम्

3.5

अथ नैष मार्ग इति वीक्ष्य तदपि विपुलं जहौ तपः ।
ध्यानविषयमवगम्य परं बुभुजे वरान्नममृतत्त्वबुद्धये

3.6

स सुवर्णपीनयुगबाहुरृषभगतिरायतेक्षणः ।
प्लक्षमवनिरुहमभ्यगमत् परमस्य निश्चयविधेर्बुभुत्सया

3.7

उपविश्य तत्र कृतबुद्धिरचलधृतिरद्रिराजवत् ।
मारबलमजयदुग्रमथो बुबुधे पदं शिवमहार्यमव्ययम्

3.8

अवगम्य तं च कृतकार्यममृतमनसो दिवौकसः ।
हर्षतुलमगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे

3.9

सनगा च भूः प्रविचचाल हुतबहसखः शिवो ववौ ।
नेदुरपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः

3.10

अवबुध्य चैव परमार्थमजरमनुकम्पया विभुः ।
नित्यममृतमुपदर्शयितुं स वराणसीपरिकरामयात् पुरीम्

3.11

अथ धर्मचक्रमृतनाभि धृतिमतिसमाधिनेमिमत् ।
तत्र विनयनियमारमृषिर्जगतो हिताय परिषद्यवर्तयत्

3.12

इति दुःखमेतदियमस्य समुदयलता प्रवर्तिका ।
शान्तिरियमयमुपाय इति प्रविभागशः परमिदं चतुष्टयम्

3.13

अभिधाय च त्रिपरिवर्तमतुलमनिवर्त्यमुत्तमम् ।
द्वादशनियतविकल्पं ऋषिर्विनिनाय कौण्डिनसगोत्रमादितः

3.14

स हि दोषसागरमगाधमुपधिजलमाधिजन्तुकम् ।
क्रोधमदभयतरङ्गचलं प्रततार लोकमपि च व्यतारयत्

3.15

स विनीय काशिषु गयेषु बहुजनमथो गिरिव्रजे ।
पित्र्यमपि परमकारुणिको नगरं ययावनुजिघृक्षया तदा

3.16

विषयात्मकस्य हि जनस्य बहुविविधमार्गसेविनः ।
सूर्यसदृशवपुरभ्युदितो विजहार सूर्य इव गौतमस्तमः

3.17

अभितस्ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् ।
वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनम्

3.18

अपरिग्रहः स हि बभूव नियतमतिरात्मनीश्वरः ।
नैकविधभयकरेषु किमु स्वजनस्वदेशजनमित्रवस्तुषु

3.19

प्रतिपूजया न स जहर्ष न च शुचमवज्ञयागमत् ।
निश्चितमतिरसिचन्दनयोर्न जगाम दुःखसुखयोश्च विक्रियाम्

3.20

अथ पार्थिवः समुपलभ्य सुतमुपगतं तथागतम् ।
तूर्णमबहुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ

3.21

सुगतस्तथागतमवेक्ष्य नरपतिमधीरमाशया ।
शेषमपि च जनमश्रुमुखं विनिनीषया गगनमुत्पपात ह

3.22

स विचक्रमे दिवि भुवीव पुनरुपविवेश तस्थिवान् ।
निश्चलमतिरशयिष्ट पुनर्बहुधाभवत् पुनरभूत्तथैकधा

3.23

सलिले क्षिताविव चचार जलमिव विवेश मेदिनीम् ।
मेघ इव दिवि ववर्ष पुनः पुनरज्वलन्नव इवोदितो रविः

3.24

युगपज्ज्वलन् ज्वलनवच्च जलमवसृजंश्च मेघवत् ।
तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः

3.25

तमुदीक्ष्य हेममणिजालवलयिनमिवोत्थितं ध्वजम् ।
प्रीतिमगमदतुलां नृपतिर्जनता नताश्च बहुमानमभ्ययुः

3.26

अथ भाजनीकृतमवेक्ष्य मनुजपतिमृद्धिसंपदा ।
पौरजनमपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः

3.27

नृपतिस्ततः प्रथममाप फलममृतधर्मसिद्धये ।
धर्ममतुलमधिगम्य मुनेर्मुंनये ननाम स यतो गुराविव

3.28

बहवः प्रसन्नमनसो ऽथ जननमरणार्तिभीरवः ।
शाक्यतनयवृषभाः कृतिनो वृषभा इवानलभयात् प्रवव्रजुः

3.29

विजहुस्तु ये ऽपि न गृहाणि तनयपितृमात्रपेक्षया ।
ते ऽपि नियमविधिमामरणाज्जगृहुश्च युक्तमनसश्च दध्रिरे

3.30

न जिहिंस सूक्ष्ममपि जन्तुमपि परवधोपजीविनः ।
किं बत विपुलगुणः कुलजः सदयः सदा किमु मुनेरुपासया

3.31

अकृशोद्यमः कृशधनो ऽपि परपरिभवासहो ऽपि सन् ।
नान्यधनमपहार तथा भुजगादिवान्यविभवाद्धि विव्यथे

3.32

विभवान्वितो ऽपि तरुणो ऽपि विषयचपलेन्द्रियो ऽपि सन् ।
नैव च परयुवतीरगमत् परमं हि ता दहनतो ऽप्यमन्यत

3.33

अनृतं जगाद न च कश्चिदृतमपि जजल्प नाप्रियम् ।
श्लक्ष्णमपि च न जगावहितं हितमप्युवाच न च पैशुनाच यत्

3.34

मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः ।
कामसुखमसुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः

3.35

न परस्य कश्चिदपघातमपि च सघृणो व्यचिन्तयत् ।
मातृपितृसुतसुहृत्सदृशं स ददर्श तत्र हि परस्परं जनः

3.36

नियतं भविष्यति परत्र भवदपि च भूतमप्यथो ।
कर्मफलमपि च लोकगतिर्नियतेति दर्शनमवाप साधु च

3.37

इति कर्मणा दशविधेन परमकुशलेन भूरिणा ।
भ्रंशिनि शिथिलगुणो ऽपि युगे विजहार तत्र मुनिसंश्रयाज्जनः

3.38

न च तत्र कश्चिदुपपत्तिसुखमभिललाष तैर्गुणैः ।
सर्वमशिवमवगम्य भवं भवसंक्षयाय ववृते न जन्मने

3.39

अकथंकथा गृहिण एव परमपरिशुद्धदृष्टयः ।
स्त्रोतसि हि ववृतिरे बहवो रजसंस्तनुत्वमपि चक्रिरे परे

3.40

ववृते ऽत्र यो ऽपि विषयेषु विभवसदृशेषु कश्चन ।
त्यागाविनयनियमाभिरतो विजहार सो ऽपि न चचाल सत्पथात्

3.41

अपि च स्वतो ऽपि परतो ऽपि न भयमभवन्न दैवतः ।
तत्र च सुसुखसुभिक्षगुणैर्जहृषुः प्रजाः कृतयुगे मनोरिव

3.42

इति मुदितमनामयं निरापत् कुरुरघुपूरुपुरोपमं पुरं तत् ।
अभवदभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे

मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc