सौन्दरानन्द · अध्याय 2
सौन्दरनन्द महाकाव्य में "कपिलवस्तु वर्णन" नामक प्रथम सर्ग समाप्त ।
द्वितीयः सर्गः
राजा शुद्धोदन
ततः कदाचित्कालेन तदवाप कुलक्रमात् ।
राजा शुद्धोदनो नाम शुद्धकर्मा जितेन्द्रियः
यः ससञ्जे न कामेषु श्रीप्राप्तौ न विसिस्मिये ।
नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे
बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमानपि ।
विक्रान्तो नयवांश्चैव धीरः सुमुख एव च
वपुष्मांश्च न च स्तब्धो दक्षिणो न च नार्जवः ।
तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः
आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश्च व्यपाश्रितः ।
अभवद् यो न विमुखस्तेजसा दित्सयैव च
यः पूर्वैः राजभिर्यातां यियासुर्धर्मपद्धतिम् ।
राज्यं दीक्षामिव वहन् वृत्तेनान्वगमत् पितॄन्
यस्य सुव्यवहाराच्च रक्षणाच्च सुखं प्रजाः ।
शिश्यिरे विगतोद्वेगाः पितुरङ्कगता इव
कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले ।
अकृतार्थो न ददृशे यस्य दर्शनमेयिवान्
हितं विप्रियमप्युक्तो यः सुश्राव न चुक्षुभे ।
दुष्कृतं बह्वपि त्यक्त्वा सस्मार कृतमण्वपि
प्रणताननुजग्राह विजग्राह कुलद्विषः ।
आपन्नान् परिजग्राह निजग्राहास्थितान् पथि
प्रायेण विषये यस्य तच्छीलमनुवर्तिनः ।
अर्जयन्तो ददृशिरे धनानीव गुणानपि
अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः ।
दानान्यदित पात्रेभ्यः पापं नाकृत किंचन
धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजीवोद्यतां धुरम् ।
न ह्यवाञ्छीच्च्युतः सत्यान्मुहूर्तमपि जीवितम्
विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया ।
व्यरोचिष्ट च शिष्टेभ्यो मासीषे चन्द्रमा इव
अवेदीद् बुद्धिशास्त्राभ्यामिह चामुत्र च क्षमम् ।
अरक्षीद्धैर्यवीर्याभ्यामिन्द्रियाण्यपि च प्रजाः
अहार्षीद् दुःखमार्तानां द्विषतां चोर्जितं यशः ।
अचैषीच्च नयैर्भूमिं भूयसा यशसैव च
अप्यासीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः ।
नाधौषीच्च यशो लोभादन्यायाधिगतैर्धनैः
सौहार्ददृढभक्तित्वान्मैत्रेषु विगुणेष्वपि ।
नादिदासीददित्सीत्तु सौमुख्यात् स्वं स्वमर्थवत्
अनिवेद्याग्रमर्हद्भ्यो नालिक्षत् किंचिदप्लुतः ।
गामधर्मेण नाधुक्षत् क्षीरतर्षेण गामिव
नासृक्षद् बलिमप्राप्तं नारुक्षन्मानमैश्वरम् ।
आगमैर्बुद्धिमाधिक्षद्धर्माय न तु कीर्तये
क्लेशार्हानपि कांश्चित्तु नाक्लिष्ट क्लिष्टकर्मणः ।
आर्यभावाच्च नाधुक्षद् द्विषतो ऽपि सतो गुणान्
आकृक्षद् वपुषा दृष्टीः प्रजानां चन्द्रमा इव ।
परस्वं भुवि नामृक्षन्महाविषमिवोरगम्
नाक्रुक्षद् विषये तस्य कश्चित्कैश्चित् क्वचित् क्षतः ।
आदिक्षत्तस्य हस्तस्थमार्तेभ्यो ह्यभयं धनुः
कृतागसो ऽपि प्रणतान् प्रागेव प्रियकारिणः ।
अदर्शत्स्निग्धया दृष्ट्या श्लक्ष्णेन वचसासिचत्
बव्हीरध्यगमद् विद्या विषयेष्वकुतूहलः ।
स्थितः कार्तयुगे धर्मे धर्मात् कृच्छ्रे ऽपि नास्रसत्
अवर्धिष्ट गुणैः शश्वदवृधन्मित्रसंपदा ।
अवर्तिष्ट च वृद्धेषु नावृतद् गर्हिते पथि
शरैरशीशमच्छत्रून् गुणैर्बन्धूनरीरमत् ।
रन्ध्रैर्नाचूचुदद् भृत्यान् करैर्नापीपिडत् प्रजाः
रक्षणाच्चैव शौर्याच्च निखिलां गामवीवपत् ।
स्पष्टया दण्डनीत्या च रात्रिसत्रानवीवपत्
कुलं राजर्षिवृत्तेन यशोगन्धमवीवपत् ।
दीप्त्या तम इवादित्यस्तेजसारीनवीवपत्
अपप्रथत् पितॄंश्चैव सत्पुत्रसदृशैर्गुणैः ।
सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत् प्रजाः
दानैरजस्रविपुलैः सोमं विप्रानसूषवत् ।
राजधर्मस्थितत्वाच्च काले सस्यमसूषवत्
अधर्मिष्ठामचकथन्न कथामकथंकथः ।
चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत्
राष्ट्रमन्यत्र च बलेर्न स किंचिददीदपत् ।
भृत्यैरेव च सोद्योगं द्विषद्दर्पमदीदपत्
स्वैरेवादीदपच्चापि भूयो भूयो गुणैः कुलम् ।
प्रजा नादीदपच्चैव सर्वधर्मव्यवस्थया
अश्रान्तः समये यज्वा यज्ञभूमिममीमपत् ।
पालनाच्च द्विजान् ब्रह्म निरुद्विग्नानमीमपत्
गुरुभिर्विधिवत् काले सौम्यः सोमममीमपत् ।
तपसा तेजसा चैष द्विषत्सैन्यममीमपत्
प्रजाः परमधर्मज्ञः सूक्ष्मं धर्ममवीवसत् ।
दर्शनाच्चैव धर्मस्य काले स्वर्गमवीवसत्
व्यक्तमप्यर्थकृच्छ्रेषु नाधर्मिष्ठमतिष्ठिपत् ।
प्रिय इत्येव चाशक्तं न संरागादवीवृधत्
तेजसा च त्विषा चैव रिपून् दृप्तानबीभसत् ।
यशोदीपेन दीप्तेन पृथिवीं च व्यबीभसत्
आनुशंस्यान्न यशसे तेनादायि सदार्थिने ।
द्रव्यं महदपि त्यक्त्वा न चैवाकीर्ति किञ्चन
तेनारिरपि दुःखार्तो नात्याजि शरणागतः ।
जित्वा दृप्तानपि रिपून्न तेनाकारि विस्मयः
न तेनाभेदि मर्यादा कामाद्वेषाद्भयादपि ।
तेन सत्स्वपि भोगेषु नासेवीन्द्रियवृत्तिता
न तेनादर्शि विषमं कार्यं क्वचन किंचन ।
विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः
तेनापायि यथाकल्पं सोमश्च यश एव च ।
वेदश्चाम्नायि सततं वेदोक्तो धर्म एव च
एवमादिभिरत्यक्तो बभूवासुलभैर्गुणैः ।
अशक्यः शक्यसामन्तः शाक्यराजः स शक्रवत्
अथ तस्मिन् तथा काले धर्मकामा दिवौकसः ।
विचेरुर्दिशि लोकस्य धर्मचर्यां दिदृक्षवः
धर्मात्मानश्चरन्तस्ते धर्मजिज्ञासया जगत् ।
ददृशुस्तं विशेषेण धर्मात्मानं नराधिपम्
देवेभ्यस्तुषितेभ्यो ऽथ बोधिसत्त्वः क्षितिं व्रजन् ।
उपपत्तिं प्रणिदधे कुले तस्य महीपतेः
तस्या देवी नृदेवस्य माया नाम तदाभवत् ।
वीतक्रोधतमोमाया मायेव दिवि देवता
स्वप्ने ऽथ समये गर्भमाविशन्तं ददर्श सा ।
षड्दन्तं वारणं श्वेतमैरावतमिवौजसा
तं विनिदिशिशुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः ।
तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः
तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिणः ।
साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः
सूर्यरश्मिभिरक्लिष्टं पुष्पवर्षं पपात खात् ।
दिग्वारणकराधूताद् वनाच्चैत्ररथादिव
दिवि दुन्दुभयो नेदुर्दीव्यतां मरुतामिव ।
दिदीपे ऽभ्यधिकं सूर्यः शिवश्च पवनो ववौ
तुतुषुस्तुषिताश्चैव शुद्धावासाश्च देवताः ।
सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया
समाययौ यशःकेतुं श्रेयःकेतुकरः परः ।
बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवानिव
देव्यामपि यवीयस्यामरण्यामिव पावकः ।
नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले
दीर्घबाहुर्महावक्षाः सिंहांसो वृषभेक्षणः ।
वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे
मधुमास इव प्राप्तश्चन्द्रो नव इवोदितः ।
अङ्गवानिव चानङ्गः स बभौ कान्तया श्रिया
स तौ संवर्धयामास नरेन्द्रः परया मुदा ।
अर्थः सज्जनहस्तस्थो धर्मकामौ महानिव
तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ ।
आर्यस्यारम्भमहतो धर्मार्थाविव भूतये
तयोः सत्पुत्रयोर्मध्ये शाक्यराजो रराज सः ।
मध्यदेश इव व्यक्तो हिमवत्पारियात्रयोः
ततस्तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश्च ।
कामेष्वजस्रं प्रममाद नन्दः सर्वार्थसिद्धस्तु न संररञ्ज
स प्रेक्ष्यैव हि जीर्णमातुरं च मृतं च विमृशन् जगदनभिज्ञमार्तचित्तः ।
हृदयगतपरघृणो न विषयरतिमगमज्जननमरणभयमभितो विजिघांसुः
उद्वेगादपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः ।
निशि नृपतिनिलयनाद् वनगमनकृतमनाः सरस इव मथितनलिनात् कलहंसः
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0