सौन्दरानन्द · अध्याय 1
॥ ओम् नमो बुद्धाय ॥
सौन्दरनन्दं महाकाव्यम्
प्रथमः सर्गः
कपिलवस्तु वर्णन
गौतमः कपिलो नाम मुनिर्धर्मभृतां वरः ।
बभूव तपसि श्रान्तः काक्षीवानिव गौतमः
अशिश्रियद्यः सततं दीप्तं काश्यपवत्तपः ।
आशिश्राय च तद्वृद्धौ सिद्धिं काश्यपवत् पराम्
हविःषु यश्च स्वात्मार्थं गामधुक्षद् वसिष्ठवत् ।
तपःशिष्टेषु च शिष्येषु गामधुक्षद् वसिष्ठवत्
माहात्म्याद्दीर्घतपसो यो द्वितीय इवाभवत् ।
तृतीय इव यश्चाभूत् काव्याङ्गिरसयोर्धिया
तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे ।
क्षेत्रं चायतनं चैव तपसामाश्रमो ऽभवत्
चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः ।
हविर्धूमवितानेन यः सदाभ्र इवाबभौ
मृदुभिः सैकतैः स्निग्धैः केसरास्तरपाण्डुभिः ।
भूमिभागैरसंकीर्णैः साङ्गराग इवाभवत्
शुचिभिस्तीर्थसंख्यातैः पावनैर्भावनैरपि ।
बन्धुमानिव यस्तस्थौ सरोभिः ससरोरुहैः
पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः ।
शुशुभे ववृधे चैव नरः साधनवानिव
नीवारफलसन्तुष्टैः स्वस्थैः शान्तैरनुत्सुकैः ।
आकीर्णो ऽपि तपोभृद्धिः शून्यशून्य इवाभवत्
अग्नीनां हूयमानानां शिखिनां कूजतामपि ।
तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निःस्वनः
विरेजुर्हरिणा यत्र सुप्ता मेध्यासु वेदिषु ।
सलाजैर्माधवीपुष्पैरुपहाराः कृता इव
अपि क्षुद्रमृगा यत्र शान्ताश्चेरुः समं मृगैः ।
शरण्येभ्यस्तपस्विभ्यो विनयं शिक्षिता इव
संदिग्धे ऽप्यपुनर्भावे विरुद्धेष्वागमेष्वपि ।
प्रत्यक्षिण इवाकुर्वंस्तपो यत्र तपोधनाः
यत्र स्म मीयते ब्रह्म कैश्चित् कैश्चिन्न मीयते ।
काले निमीयते सोमो न चाकाले प्रमीयते
निरपेक्षाः शरीरेषु धर्मे यत्र स्वबुद्धयः ।
संहृष्टा इव यत्नेन तापसास्तेपिरे तपः
श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः ।
तपोरागेण धर्मस्य विलोपमिव चक्रिरे
अथ तेजस्विसदनं तपःक्षेत्रं तमाश्रमम् ।
केचिदिक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः
सुवर्णस्तम्भवर्ष्माणः सिंहोरेस्का महाभुजाः ।
पात्रं शब्दस्य महतः श्रियां च विनयस्य च
अर्हरूपा ह्यनर्हस्य महात्मानश्चलात्मनः ।
प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृव्यस्य यवीयसः
मातृशुल्कादुपगतां ते श्रियं [च] विषेहिरे ।
ररक्षुश्च पितुः सत्यं यस्माच्छिशियिरे वनम्
तेषां मुनिरुपाध्यायो गौतमः कपिलो ऽभवत् ।
गुरुगोत्रादतः कौत्सास्ते भवन्ति स्म गौतमाः
एकपित्रोर्यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् ।
राम एवाभवद् गार्ग्यो वासुभद्रो ऽपि गौतमः
शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे ।
तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति स्मृताः
स तेषां गौतमश्चक्रे स्ववंशसदृशीः क्रियाः ।
मुनिरूर्ध्वं कुमारस्य सगरस्येव भार्गवः
कण्वः शाकुन्तलस्येव भरतस्य तरस्विनः ।
वाल्मिकिरिव धीमांश्च धीमतोर्मैथिलेययोः
तद्वनं मुनिना तेन तैश्च क्षत्रियपुङ्गवैः ।
शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे
अथोदकलशं गृह्य तेषां वृद्धिचिकीर्षया ।
मुनिः स वियदुत्पत्य तानुवाच नृपात्मजान्
या पतेत् कलशादस्मादक्षय्यसलिलान्महीम् ।
धारा तामनतिक्रम्य मामन्वेत यथाक्रमम्
ततः परममित्युक्त्वा शिरोभिः प्रणिपत्य च ।
रथानारुरुहुः सर्वे शीघ्रवाहानलंकृतान्
ततः स तैरनुगतः स्यन्दनस्थैर्नभोगतः ।
तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा
अष्टापदमिवालिख्य निमित्तैः सुरभीकृतम् ।
तानुवाच मुनिः स्थित्वा भूमिपालसुतानिदम्
अस्मिन् धारापरिक्षिप्ते नेमिचिन्हितलक्षणे ।
निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम्
ततः कदाचित्ते वीरास्तस्मिन् प्रतिगते मुनौ ।
बभ्रमुयौंवनोद्दामा गजा इव निरङ्कुशा
बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः ।
शराध्मातमहातूणा व्यायताबद्धवाससः
जिज्ञासमाना नागेषु कौशलं श्वापदेषु च ।
अनुचक्रुर्वनस्थस्य दौष्यन्तेर्देवकर्मणः
तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान्व्याघ्रशिशूनिव ।
तापसास्तद्वनं हित्वा हिमवन्तं सिषेविरे
ततस्तदाश्रमस्थानं शून्यं तैः शून्यचेतसः ।
पश्यन्तो मन्युना तप्ता व्याला इव निशश्वसुः
अथ ते पुण्यकर्माणः प्रत्युपस्थितवृद्धयः ।
तत्र तज्ज्ञैरुपाख्यातानवापुर्महतो निधीन्
अलं धर्मार्थकामानां निखिलानामवाप्तये ।
निधयो नैकविधयो भूरयस्ते गतारयः
ततस्तत्प्रतिलम्भाच्च परिणामाच्च कर्मणः ।
तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन्न्यवेशयन्
सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथम् ।
शैलकल्पमहावप्रं गिरिव्रजमिवापरम्
पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् ।
हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेरिव
वेदवेदाङ्गविदुषस्तस्थुषः षट्सु कर्मसु ।
शान्तये वृद्धये चैव यत्र विप्रानजीजपन्
तद्भूमेरभियोक्तृणां प्रयुक्तान् विनिवृत्तये ।
यत्र स्वेन प्रभावेन भृत्यदण्डानजीजपन्
चरित्रधनसम्पन्नान् सलज्जान् दीर्घदर्शिनः ।
अर्हतो ऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः
व्यस्तैस्तैस्तैर्गुणैयुक्तान् मतिवाग्विक्रमादिभिः ।
कर्मसु प्रतिरुपेषु सचिवांस्तान्न्ययूयुजन्
वसुमद्भिरविभ्रान्तैरलंविद्यैरविस्मितैः ।
यद् बभासे नरैः कीर्णं मन्दरः किन्नरैरिव
यत्र ते हृष्टमनसः पौरप्रीतिचिकीर्षया ।
श्रीमन्त्युद्यानसंज्ञानि यशोधामान्यचिकरन्
शिवाः पुष्करिणीश्चैव परमाग्र्यगुणाम्भसः ।
नाज्ञया चेतनोत्कर्षाद्दिक्षु सर्वास्वचीखनन्
मनोज्ञाः श्रीमतीः प्रष्ठीः पथिषूपवनेषु च ।
सभाः कूपवतीश्चैव समन्तात् प्रत्यतिष्ठिपन्
हस्त्यश्वरथसंकीर्णमसंकीर्णमनाकुलम् ।
अनिगूढार्थिविभवं निगूढज्ञानपौरुषम्
सनिधानमिवार्थानामाधानमिव तेजसाम् ।
निकेतमिव विद्यानां संकेतमिव संपदाम्
वासवृक्षं गुणवतामाश्रयं शरणैषिणाम् ।
आनर्तं कृतशास्त्राणामालानं बाहुशालिनाम्
समाजैरुत्सवैर्दायैः क्रियाविधिभिरेव च ।
अलंचक्रुरलंवीर्यास्ते जगद्धाम तत्पुरम्
यस्मादन्यायतस्ते च कंचिन्नाचीकरन् करम् ।
तस्मादल्पेन कालेन तत्तदापूपुरन् पुरम्
कपिलस्य च तस्यर्षेस्तस्मिन्नाश्रमवास्तुनि ।
यस्मात्ते तत्पुरं चक्रुस्तस्मात् कपिलवास्तु तत्
ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे ।
पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत्
आपुः पुरं तत्पुरुहूतकल्पास्ते तेजसार्येण न विस्मयेन ।
आपुर्यशोगन्धमतश्च शश्वत् सुता ययातेरिव कीर्तिमन्तः
तन्नाथवृत्तैरपि राजपुत्रैरराजकं नैव रराज राष्ट्रम् ।
तारासहस्त्रैरपि दीप्यमानैरनुत्थिते चन्द्र इवान्तरीक्षम्
यो ज्यायानथ वयसा गुणैश्च तेषां भातॄणां वृषभ इवौजसा वृषाणाम् ।
ते तत्र प्रियगुरवस्तमभ्यषिचन्नादित्या दशशतलोचनं दिवीव
आचारवान्विनयवान्नयवान्क्रियावान् धर्माय नेन्द्रियसुखाय धृतातपत्रः ।
तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रम् संक्रन्दनो दिवमिवानुसृतो मरुद्भिः
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0